आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 43, कुल 399 में से
संदर्भ में पढ़ें३२ आपस्तम्बधर्मसूत्रे (प्र. १) कं. ५.
समीपे तिष्ठन् गुरोः प्रातरभिवादनमभिवादयीत—'असावह भो' इति न् । अ-
सावित्यत्राऽऽत्मनो नामनिर्देशः, यथा—'अभिवादये शर्माऽहं
भो' इति ॥ १२ ॥
समानग्रामे च वसतामन्येषामपि वृद्धतरां
प्राक्प्रातराशात् ॥ १३ ॥
अन्येषामप्याचार्यव्यतिरिक्तानाम् प्राक्प्रातराशात् प्रातर्भोजनात्प्राक्
प्रातरभिवादमभिवादयीत, ते चेत् समानग्रामे वसन्ति ॥ १३ ॥
प्रोष्य च समागमे ॥ १४ ॥
यदा स्वयं प्रोष्य समागतो भवति, आचार्यादयो वा तदाऽप्यभिवा-
दयीत । इदं नैमित्तिकम् । पूर्वं नित्यम् ॥ १४ ॥
अथ काम्यम्—
• स्वर्गमायुश्चेप्सन् ॥ १५ ॥
अभिवादयीतेत्येव ॥ १५ ॥
अभिवादनप्रकारं वर्णानुपूर्व्येणाऽऽह—
दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवाद-
यीतोरस्समं राजन्यो मध्यसमं वैश्यो(१) नीचै-
र्शूद्रः प्राञ्जलि ॥ १६ ॥
ब्राह्मणोऽभिवादयमानः आत्मनो दक्षिणं बाहुं श्रोत्रसमं प्रसार्याभिवादयीत ।
उरस्समं राजन्यः । दक्षिणं प्रसार्याभिवादयीतेत्यत्रानुवर्तते । एवमुत्तरयो-
रपि । मध्यसममुदरसमम् । ऊरुसममित्यन्ये । नीचैः पादसमं शूद्रोऽभिवा-
दयीत । प्राञ्जलि यथा भवति तथा अभिवादयति । अञ्जलिं कृत्वेत्यर्थः ।
प्राञ्जलिरिति युक्तः पाठः ॥ १६ ॥
प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां
वर्णानाम् ॥ १७ ॥
अभिवादनस्य यत्प्रत्यभिवादनं तत्राभिवादयितुर्नाम्नः प्लावनं कर्तव्यम्
प्लुतः कर्तव्य इत्यर्थः । पूर्वेषां वर्णानां शूद्रवर्जितानामभिवादयमानानाम् ।
१. •••नीचैश्शूद्रः ॥ १६ ॥ प्राञ्जलि ॥ १७ ॥ इति पाठः क. घ. पु.