सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 283, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 283

२७२ आपस्तम्बधर्मसूत्रे [ (प.९०) क.२१.
मध्यात्मपटलो (१-२२. २३) क्रमन्विच्छेत् उपासीतेति। तदेवं ज्ञानबलावल-
म्बनेन हतविधिनिषेधा ये स्वैरं प्रवर्तन्ते सिद्धाः तेषां मतमुपन्य-
स्तम् ॥ १३ ॥
अथैतेषामेव स्वैरचारिणां (१) किं तत्र प्रमाणम् ? तत्राह--
बुद्धे क्षेमप्रापणम् ॥ १४ ॥
आत्मनि बुद्धेऽवगते सति तदेव ज्ञानं सर्वमशुभं प्रक्षाल्य क्षेमं प्रा-
पयति । श्रूयते हि--
(२)'न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा ।
न कर्मणा लिप्यते पापकेने' ति (३) 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत
एवं हास्य सर्वे पाप्मानः प्रदूयन्ते' इति च ॥ स्मर्यते च--
'(४)यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ इति ॥ १४ ॥
तदिदं निराकरोति--
तच्छास्त्रैर्विप्रतिषिद्धम् ॥ १५॥
यानि यतेरेव कर्तव्यप्रतिपादनपराणि शास्त्राणि, तैरेव तद्विप्रतिषिद्धम् ।
तत्र मनुः-
(५)क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ इति
अतो यतिमेव प्रकृत्य यानि विहितानि कर्माणि तानि कर्तव्या
नि । यानि च निषिद्धानि तानि च वर्जनीयानि ॥ १५ ॥
'बुद्धे क्षेमप्रापण' मित्येतत् प्रत्यक्षविरुद्धमित्याह-
बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखमुपलभेत ॥ १६ ॥
आत्मबोधमात्रेण चेत् क्षेमं प्राप्यते, तदा इहैव शरीरे दुःखं नोपलभेत
ज्ञानी । न चैतदस्ति । न हि ज्ञानिनां मूर्धाभिषिक्तमन्द्योऽपि क्षुधादुःख-
मेव तावत् क्षणमात्रमपि सोढुं प्रभवति ॥ १६ ॥
१. किंन्नाणम् इति. च. मु २. बृ उ ७ ४ २३. तै. ब्रा २ १२. १४
३. छान्दो ५ २४. ३. ४. श्रीमद्भग. ग. ४, ३७ ५. म. स्मृ. ६. ४८, ५०