आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 282, कुल 399 में से
संदर्भ में पढ़ेंसन्न्यासिधर्माः ] [उज्ज्वलोपेते द्वितीयः प्रश्नः। २७१
तु नैवंविधं किञ्चिदग्निकार्यमस्तीत्यनग्निः । निकेतो निवासस्थानं स्वभूतं
तदभावादानिकेतः । शर्म सुखं वैषयिकं तदस्य नास्तीत्यशर्मा । किञ्चिदपि
शरणं न प्रतिपन्नः न वा कस्यचिच्छरणभूत इत्यशरणः । स्वाध्यायः प्रणवा-
दिपवित्राणां जपः । अत्र बौधायनः--
'वृक्षमूलिको वेद सन्न्यासी वेदो वृक्षस्तस्य मूलं प्रणवः प्रण-
वात्मको वेदः प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापति'रिति ।
तत्रैव वाचं विसृजेत् । अन्यत्र मौनव्रतः स्यात् । यावता प्राणा ध्रियन्ते
सा प्राणवृत्तिः । तावतीं भिक्षां ग्रामे प्रतिलभ्य । एतावानस्य ग्रामे प्रवे
शः । अन्यदा बहिर्वासः । इहार्थाः कृष्यादयः परलोकार्थाश्च जपहोमा-
दयो यस्य न सन्ति सोऽनिहोऽनमुत्र इत्युक्तः । एवम्भूतश्चरेत् । नैकस्मिन्
ग्रामे द्व्यहमपि वसेत् । अत्र गौतमः--(१)'न द्वितीयामपर्तुं रात्रिं ग्रामे
वसेदि'ति (२) वर्षासु ध्रुवशील'इति च ॥ १०॥
तस्य मुक्तमाच्छादनं विहितम् ॥ ११ ॥
यत् परैर्मुक्तं परित्यक्तमयोग्यतया, तत् तस्य विहितमाच्छादनं, तद्वा-
स आच्छादयेत । निर्णिज्येति गौतमः ॥ ११ ॥
सर्वतः परिमोक्षमेके ॥ १२ ॥
सर्वैरेव वासोभिः परिमोक्षमेक उपदिशन्ति । न किञ्चिदपि वासो
विभृयात् । नग्न एव चरेदिति । अपर आह--
सर्वतो विधितो निषेधतश्चाऽस्य परिमोक्षमेके ब्रुवते । न किञ्चिदस्य
कृत्यं न किञ्चिदस्य वर्ज्यमिति ॥ १२ ॥
एतदेवोदाहरणैः प्रपञ्चयति--
सत्यानृते सुखदुःखं वेदानिमं लोकममुं च परि-
त्यज्याऽऽत्मानमन्विच्छेत् ॥ १३ ॥
सत्यं वक्तव्यमिति योऽयं नियमस्तं परित्यज्य तथा तत्र वक्तव्यमनृ
तं (३) 'ताद्धि सत्याद्विशिष्यत" इत्यादिके विषये अनृतं वक्तव्यमिति
योऽयं नियमस्तं च परित्यज्य । सुखं मृष्टभोजनादिजन्यम् । दुःखं शीत-
वातादिजन्यम् । वेदान् स्वाध्यायाध्ययनम् । इमं लोकं ऐहलौकिकं काम्यं
कर्म । अमुं च लोकं पारलौकिकं काम्यं कर्म । सर्वमेतत् परित्यज्य आत्मान-
१. गौ. ध. ३. २१. २. गौ. ३. १३.
३ म. स्मृ. ८. १०४.