सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 213, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 213

२०२ आपस्तम्बधर्मसूत्रे [ (प. ३.) क. ६.
शक्तौ सत्यां अबहुपादमासनं न देयम् । किं तु बहुपादमेव पीठादिक
मित्येके मन्यन्ते । (१)स्वमतं त्वबहुपादमपीति ॥ ८ ॥
तस्य पादौ प्रक्षालयेच्छूद्रमिथुनावित्येके ॥ ९ ॥
द्वौ शूद्रौ तस्य पादौ प्रक्षालयेतामित्येके मन्यन्ते । दासवत इदम्॥९॥
अत्र विशेषः—
अन्यतरोऽभिषेचने स्यात् ॥ १० ॥
अभिषेचनं करकादिना जलावसेकः । तमेकः कुर्यात् । इतरः प्र-
क्षालनम् ॥ १० ॥
तस्योदकमाहारयेन्मृण्मयेनेत्येके ॥ ११ ॥
मृण्मयेन पात्रेण तस्योदकमाहर्तव्यमित्येके मन्यन्ते । (२)स्वमतं तु
तैजसेन ॥ ११ ॥
नोदकमाहारयेदसमावृत्तः ॥ १२ ॥
यदा असमावृत्तो ब्रह्मचारी आचार्यप्रेषितः स्वयमेव वाऽतिथिराभ्या-
गच्छति तदा नासावुदकमाहारयेत् नासावुदकाहरणस्य प्रयोजकः । नास्मा
उदकमाहर्तव्यमिति ॥ १२ ॥
अध्ययनसांवृत्तिश्चात्राऽधिका ॥ १३ ॥
अत्र असमावृत्तेऽतिथौ अध्ययनसंवृत्तिश्चाधिका इतरस्मादतिथेः ।
अध्ययनस्य सह निष्पादनमध्ययनसंवृत्तिः। यः प्रदेशस्तस्याऽऽगच्छति
स तेन सह कियन्ताञ्चत्कालं वक्तव्य इति । प्रसिद्धे तु पाठे पूर्वपदान्त-
स्य समोऽकारस्य छान्दसो दीर्घः ॥ १३ ॥
सान्त्वयित्वा तर्पयेद्रसैर्भक्ष्यैरद्भिरवराध्येनेति ॥१४॥
ततः पादप्रक्षालनस्य समध्ययनस्य वाऽनन्तरमतिथिं प्रियवचनेन
सान्त्वयेत् । सान्त्वयित्वा गव्यादिभीरसैः फलादिमिश्च भक्ष्यैरन्ततोऽद्भिरपि
तावत्तर्पयेत् तृप्तिं कुर्यात् । 'अवराध्येने'ति जघन्यकल्पतां सूचयति । अध्य-
न्तत इत्यर्थः । इतिशब्दादेवमादिभिरन्यैरपि ॥ १४ ॥
आवसथं दद्यादुपरीशय्यामुपस्तरणमुपधानं सावस्त-
रणमभ्यञ्जनं चेति ॥ १५ ॥
१. स्वयं त्वबहुपामप्यनुमन्यते इति च. पु. २ स्वयं तु ङ. च. पु.