सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 212, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 212

अतिथिपूजा ] उज्ज्वलोपेते प्रथमः प्रश्नः । २०१
धीय श्रोत्रियो भवति। पुरुषस्य हि प्रतिवेदमैकैका शाखा भवति। या
पूर्वैः परिगृहीताऽध्ययनानुष्ठानाभ्यां सा प्रतिवेदं स्वशाखा। तामधीत्य
श्रोत्रियो भवति, न तु प्रतिवेदमैकेकामधीत्य श्रोत्रियो भवतीति। लोक-
विरोधात्। लोके हि यां कांचनैकां शाखामधीयानः श्रोत्रिय इति प्रसिद्धः।
अतिथिलक्षणमाह—
(१)स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो
(२)नाऽन्यप्रयोजनः सोऽतिथिर्भवति ॥ ५ ॥
आदितो यच्छब्दो द्रष्टव्यः। अन्ते स इति दर्शनात्। मध्ये च श्रो-
त्रियलक्षणोपदेशात्। तदुपजीवनेन सूत्रं योज्यम्। यः श्रोत्रियः स्वधर्म-
युक्तं स्वधर्मनिरतं कुटुम्बिन भार्यया सह वसन्तं गृहस्थम् । आश्रमा-
न्तरनिरासार्थमिदमुक्तम् । न हि ते पचमाना भवन्ति । भिक्षवो हि ते ।
अभ्यागच्छति उद्दिश्याऽऽगच्छति । धर्मपुरस्कारः(३)आचार्याद्यर्थं भिक्षणं
धर्मः त पुरस्करोतीति धर्मपुरस्कारः । कर्मण्यण् । धर्मप्रयोजनः नान्यप्र-
योजनः। य एवभूत एवभूतमुरुद्दिश्याऽऽगच्छति नान्येच्छया सोऽति-
थिरिति । (४)बौधायनमस्तु श्रान्तोऽदृष्टपूर्वः केवलमन्नार्थी नाऽन्यप्रयोजन-
स्सोतिथिर्भवति । अथ वा सर्ववर्णानामन्यतमः काले यथोपपन्नः सर्वे-
षामतिथीनां श्रेष्ठोऽतिथिर्भवती"ति ॥ ५ ॥
तस्य पूजायां शान्तिः स्वर्गश्च ॥ ६ ॥
तस्यातिथेः पूजायां कृतायां शान्तिरुपद्रवाणामिह भवति । प्रेत्य च स्व-
र्गलाभः ॥ ६ ॥
तमभिमुखोऽभ्यागम्य यथावयस्समेत्य तस्या-
सनमाहारयेत् ॥ ७ ॥
तमतिथिमभिमुखोऽभ्यागच्छेत् । अभ्यागम्य यथावयः वयसोऽनुरूपं प्र
त्युत्थानाभिवादनादिना समेयात् सङ्गच्छेत । समेत्य च तस्यासनमाहारयेत्
शिष्यादिभिः । अभावे स्वयमाहरेत् ॥ ७ ॥
शक्तिविषये नाऽबहुपादमासनं भवतीत्येके ॥ ८ ॥
१. एतदादि ११ सूत्रार्थं यावदेकीकृतम् छ. पु २. नात्रप्रयोजनः इति क पु.
३ आचार्यार्थे इति. घ. ड. पु. ४. एतदादि ११ सूत्रे निवेशितं छ. पु.
आप० ध० २६