आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 208, कुल 399 में से
संदर्भ में पढ़ेंगृहस्थधर्मः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १९७
वातकर्म अपानवायोरुत्सर्गः । उच्चैर्भाषा महता स्वनेन सम्भाषणं
केनाऽपि । हासो हसनम् । ष्ठीवनं श्लेष्मादिनिरसनम् । दन्तस्खलनं दन्तमला-
पकर्षणम् । परस्परघट्टनमित्यन्ये । निःशृङ्खणं नासिकामलनिस्सारणम् ।
भ्रूक्षेपणं भ्रूविक्षेपः । छान्दसो ह्रस्वः । तालनं हस्तयोरास्फालनम् । निष्प्य-
मङ्गुलिस्फोटनम् । इतिशब्दादन्यदपि स्वैरासनादिकम् । वर्जयेदित्यपे-
क्ष्यते । एतानि मूत्रकर्मादीन्याचार्यस्य सन्निधौ न कुर्यादिति ॥ ९ ॥
दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः
परिवर्जयेत् ॥ १० ॥
उपस्पर्शनमालिङ्गनाघ्राणादि । भाषाः सम्भाषाश्चाटुपभृतयः । एता
अप्याचार्ये सन्निहिते(१) दारप्रजाविषये विस्रब्धं न कुर्यात् । ज्वरा-
दिपरीक्षायां न दोषः ॥ १० ॥
वाक्येन वाक्यस्य प्रतिघातमाचार्यस्य वर्जयेच्छ्रे-
यसां च ॥ ११ ॥
आचार्यवाक्यस्य समीचीनस्येतरस्य वा आत्मीयेन वाक्येन तादृशेन
प्रतिघातं न कुर्यात् । श्रेयसां च अन्येषामपि प्रशस्ततराणां वाक्यं वाक्येन
न प्रतिहन्यात् ॥ ११ ॥
सर्वभूतपरीवादाक्रोशांश्च ॥ १२ ॥
सर्वेषां भूतानां तिरश्चामपि । परीवादान् दोषवादान् । आक्रोशान्
अश्लीलवादांश्च वर्जयेत् । परीवादस्य पुनःपुनर्वचनमतिशयेन व-
र्जनार्थम् ॥ १२ ॥
विद्यया च विद्यानाम् ॥ १३ ॥
विद्यया च विद्यानां परीवादाक्रोशान् वर्जयेत् । ऋग्वेद एव श्रो-
त्रसुखः, अन्ये श्रवणकटुका इति परीवादाः । तैत्तिरीयकमुच्छिष्टशाखा,
(२)याज्ञवल्क्यादीनि ब्राह्मणानीदानीन्तनानि इत्याद्याक्रोश ॥ १३ ॥
यथा विद्यया न विरोचेत पुनराचार्यमुपेत्य निय-
मेन साधयेत् ॥ १४ ॥
१. 'दारे प्रजाविषयेऽपि' इति क. छ पु.
२. याज्ञवल्क्यादि ब्राह्मणानीदानीन्तनम् इति. क. छ. पु.