अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 7, कुल 109 में से
संदर्भ में पढ़ेंश्रीः ।
वेदान्तः ।
अथ अपरोक्षानुभूतिः ।
संस्कृतटीकया भाषानुवादेन च
सहिता ।
श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम् ॥ व्या
पकं सर्वलोकानां कारणं तं नमाम्यहम् ॥ १ ॥
सं. टी. श्रीगणेशायनमः ॥ स्वप्रकाशश्चहेतुर्यः परमा-
त्मा चिदात्मकः ॥ अपरोक्षानुभूत्याख्यः सोहमस्मि परं
सुखम् ॥ १ ॥ ईशगुर्वात्मभेदाद्यः सकलव्यवहारभूः ॥
औपाधिकः स्वचिन्मात्रः सोऽपरोक्षानुभूतिकः ॥ २ ॥
तदेवमनुसंधाय निर्विघ्नां स्वेष्टदेवताम् ॥ अपरोक्षानु-
भूत्याख्यामाचार्योक्तिंप्रकाशये ॥ ३ ॥ यद्यपीयंस्वतः
स्पष्टा, तथापि स्वात्मसिद्धये ॥ यत्नोयं सोपि संक्षेपा-
त्क्रियतेऽनर्थनाशनः ॥ ४ ॥ क्वाहमुल्काकरः क्वायं
सूर्यस्तेजोनिधिः किल ॥ तथापिभक्तिमान्कः किंनकुर्या
त्स्वहिताप्तये ॥ ५ ॥ तत्राचार्याः स्वेष्टपरदेवताऽनुसंधा-
नलक्षणं मंगलं निर्विघ्नग्रंथसमाप्तये स्वमनसि कृत्वा
शिष्यशिक्षायै ग्रंथादौ निबध्नंति श्रीहरिमिति ॥ अहं
तं नमामीत्यन्वयः ॥ अत्रेयं प्रक्रिया पदार्थों द्वि-