अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 106, कुल 109 में से
संदर्भ में पढ़ें( १०० ) अपरोक्षानुभूतिः ।
गुरुदैवतभक्तानां सर्वेषां सुलभोज़-
वात् ॥ १४४ ॥
सं. टी. अयं राजयोग एव केषां योग्य इत्याकां-
क्षायां सर्वग्रंथार्थमुपसंहरन्नाह परिपकमिति । येषां मनः
परिपक्वं रागादिमलरहितमितियावत् तेषामित्यध्याहारः
तेषां जितारिषड्वर्गाणां पुरुषधुरंधराणां केवलः पातंज-
लाभिमतयोगनिरपेक्षः अयं वेदांताभिमतो योगः सिद्धिदः
प्रत्यगभिन्नब्रह्मापरोक्षज्ञानद्वारा स्वस्वरूपावस्थानलक्ष-
णमुक्तिप्रदः चकारोऽवधारणे नान्येषामपरिपक्वमनसा-
मित्यर्थः ननु परिपक्वमनस्त्वमतिदुर्लभ मित्याकां-
क्षायामस्यापि साधनत्वादतोप्यंतरंगसाधनमाह गुरुदै-
वतभक्तानामिति जवाद्तिशीघ्रमित्यर्थः सर्वेषामिति
वर्णाश्रमादिनिरपेक्षं मनुष्यमात्रं ग्रहीतव्यम् अतएव
गुरुदैवतभक्तेरंतरंगत्वं तथाचश्रुतिः "यस्यदेवे पराभक्ति-
र्यथादेवे तथागुरौ । तस्यैते कथिताह्यर्थाः प्रकाशंते महा-
त्मनः" इति । स्मृतयश्च “तद्विद्धिप्रणिपातेन । श्रद्धा-
वाँल्लभतेज्ञानम्” इत्याद्याः । अयंभावः परिपक्वमनसा-
मपि दुःसाध्यानि साधनानि गुरुदैवतभक्तानां सुसाध्या-
निभवंतीतिहेतोर्गुरुदैवतभजनमेव स्वधर्माविरोधेन सर्वैः
कार्यमिति परमं मंगलम् ॥ १४४ ॥
भा. टी. जिनका मन परिपक्व होजाय है उनको केव