अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
इस ग्रन्थ के बारे में
अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।
ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।
स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४६१
रश्मिः ।
इत्यत्र मन्त्रोपासनमेकपद्व्याकृतम् । ननु गीताभक्तियोगाध्याये द्वादशे उपासनोक्तेर्वेति
चेदित्थम् । श्रीभगवानुवाच ।
'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः' ॥
इत्यत्र मनःपूर्विका उपासना उपसमीपे स्थित्वा यथायोग्यकरणरूपा मानसी तृतीयस्कन्ध-
सुबोधिन्युक्तराद्धान्तोक्ता सिद्धयति । उपासत इत्यस्य मनो व्यापारं कुरुते इत्यर्थे पुनरुक्तिः । यद्वा
मन्मन आवेशं कृत्वा साधनानामसिद्धेवदावृत्तिः कर्तव्येति सुबोधिन्या मन्मन आवेशसाधनतनु-
वित्तजसेवे उपासनपदेनोच्येते । चित्तशोधकोपासना तु पूजापदेनोच्यते अत एव मन्त्रोपासनेत्यत्र
उपासनं पुरश्चरणपूर्वकसाधनरूपं गृह्यते । यद्वा उपासनया शुद्धचित्ता नित्ययुक्ता भगवदर्थं यतयो
व्यापारः कर्म तु चित्तशुद्ध्यनुकूलो व्यापार इति भक्तित्वेन ब्रह्मसम्बन्धत्वेन कार्यकारणभावात् 'भक्त्याह-
मेकया ग्राह्यः' इतिवाक्यात् । ननु ज्ञानमपि पूर्वोक्तलक्षणद्वयकमेवातो न ज्ञानोपासनयोर्भेद
इति चेत्सत्यम् । क्षेत्रक्षेत्रज्ञनिर्देशयोगे त्रयोदशेऽध्याये ।
'अमानित्वमदम्भित्वमहिंसाक्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥
इन्द्रियार्थेषु वैराग्यमनहंकार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा' ॥
इत्यत्राचार्योपासनत्वात् । कामः संकल्प इत्यत्र धियो मनोवृत्तित्वात् लक्षणद्वयकत्वम् । एवं च
मार्गत्रय इत्यत्र त्रित्वसंख्याविरोधः । अतो ज्ञानत्वरूपसामान्येनैक्येपि ह्युपासात्वेन माहात्म्यज्ञानत्वे-
नात्मजीवैक्यज्ञानत्वेनानैक्यमेव । ननु गीतोक्तार्थो हि तज्ज्ञो साधनाध्याये वक्तव्यः 'ब्रह्मसूत्रपदैश्चैव
हेतुमद्भिर्विनिश्चितैः' इत्यनेन ब्रह्मसूत्रपदैः गीतं प्रकाण्डं भवतीति तत्रोक्तं ज्ञानं न प्राप्नोतीति चेन्न 'तत्
समासेन मे शृणु' इति समासाङ्गीकारात् । यद्वा अध्यात्मज्ञानं माहात्म्यज्ञानं तत्त्वज्ञानमात्मजीवैक्य-
ज्ञानम् । तत्त्वमनारोपितरूपमिति माहात्म्यज्ञानमपि तज्ज्ञाने भवत्येव । अध्यात्मज्ञानं प्राणो व्यानोऽपान
उदानः समानः चक्षुः श्रोत्रं मनो वाक् त्वक् चर्म मांसं स्नावास्थि मज्जा एतदधिविधाय ऋषिरवोचदिति
शिक्षाश्रुतेरेतज्ज्ञानम् । अतो भक्तः पुरुषो नोपासक इति सिद्धम् । 'द्वयोः सारूप्यात्तद् भ्रमहत्तिकृते'
भक्तिहंसे स्फुटमन्यत् । एवं च भक्तो यत्प्रकारकक्रतुमान् तेन प्रकारेण सायुज्यालौकिकसामर्थ्यभगव-
त्सेवोपयोगिदेहपशुपुत्रसालोक्यादिमानितः प्रेत्य भवति । ननु क्रतुरग्रे ब्रह्ममननात्मा वक्ष्यते कथं सेवायां
मननमिति चेदत्रोच्यते सिद्धान्तमुक्तावल्यां ब्रह्मबोधनमिति निष्प्रकारकज्ञानरूपब्रह्मबोधात् शोधनपदं
विहाय मननपदं सिद्धान्तमुक्तावल्याम् ।
'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ।
आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत्' ॥
इतिभावनाविधानात् भावितं च भावनायां भावुकैः श्रीहरिरायचरणैः । ननु स्मरणं भवतु
मीमांसया परब्रह्मणो विषयत्वादानन्दरूपप्राणशरीरभजनस्य किं प्रयोजनम् । मैवम् ।
'यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया ।
मदर्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः' ॥
इत्येकादशस्कन्धे विंशेऽध्याये मीमांसाप्येवमेव स्मरणमन्यनिषेधात् । यद्यपि 'अथातो
ब्रह्मजिज्ञासा' इत्यधिकरणे 'यदेव विद्यया करोति श्रद्धयोपनिषदा' इति छान्दोग्येन कर्मरूपोपासना-
शेषत्वमुपनिषज्ज्ञानस्य तदपि सुबोधिन्यां व्यवस्थापितम् । भगवत्सेवां कुर्वाणस्य कामनायां जातायां
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४६३
रश्मिः ।
कर्मकरणे फलं भवत्येवेत्येवम् । स फलोपकारी शेषशेषिभावः । मदर्थोपासनापि मनस उपासनं मानसी-
सेवारूपम् । व्याख्यानात् । तथा च श्रुतिरीशावास्योपनिषदि ।
'अन्धंतमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्याया१रताः' ॥
इति ह्युपासामक्तिभेदमाह 'श्रद्धा रतिर्भक्तिरनुक्रमिष्यति' इति द्वितीया कक्षा रतिः । सेवाप्रकारस्तु
संप्रदायप्रदीपे पञ्चमे प्रकरणे पूर्णताराधने श्रीकृष्णोक्त एव भक्तिमार्ग इत्यादिना भक्तिमार्गमुक्त्वा
भजनप्रकार उक्तः । भजनप्रकारमाह ।
'मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च' ॥
मच्चित्ता इति पञ्चज्ञानेन्द्रियव्यापारो भगवद्युक्तः । मद्गतप्राणा इति कर्मेन्द्रियव्यापारो भगवत्येव
युक्तः । मद्गतत्वेन निर्दोषत्वम् । पायोर्मलांशत्यागेनेति प्राणस्य हि क्रियाशक्तिरिति वाक्यात् ।
एवं च निरोधलक्षणोक्तो निरोधो मर्यादामार्गीयसर्वात्मभावरूपः प्रकारः । 'बोधयन्तः परस्परम्' इति
समानशीलैरेव सङ्गोप्युक्तः 'कथयन्तश्च मां नित्यम्' इति श्रीभागवतश्रवणं कीर्तनमप्युक्तम् । एवं
सेवाकथालक्षणा भक्तिः सिद्धा । सैव फलरूपा जातेति 'तुष्यन्ति च रमन्ति च' इत्युक्तमिति ।
सेवाप्रकरणे तु 'यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः तत्तन्निवेदयेन्मह्यम्' इति दास्यमुक्तम् ।
टिप्पण्यां दास्यमुक्तम् । पुरुषोत्तमप्रतिष्ठायां तु श्रीभागवतभक्तिवर्द्धिनीनवरत्नाद्युक्तप्रकारेणेत्युक्तम् ।
पुरुषोत्तमसहस्रनामस्तोत्रे तु 'लघुखमार्गवक्ता च' इत्येकादशस्कन्धनामसु पठितम् । भक्तिरत्ने तदेवोक्तं
टीकायाम् । सिद्धान्तमुक्तावल्याम् ।
'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ।
आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत्' ॥
इति भावनोक्ता श्रीहरिधनैः सैव प्रपञ्चिता । शृङ्खला तु संप्रदायप्रदीपे श्रीकृष्णोक्त
एवेत्यादिनोक्ता । प्रथमस्कन्धे द्वितीयेऽध्याये शृङ्खलोक्ता । सेवाप्रकरणे उक्ता एकादशे योगेश्वर-
वाक्यैरुक्ता अप्रतीकालम्बनसूत्रे वक्ष्यामः सप्रपञ्चप्रकारम् । एवं प्रकारेण ब्रह्म सेवमानस्य
यथाक्रतोर्ब्रह्म भजनीयं यदा तदा श्रीमदाचार्य्योक्तपूर्वोक्तरीत्या सङ्गरूवाक्यात् आत्मसमर्पणं कृत्वा
सेवाकथाभ्यामेव भजनं कुर्वतः । एतमितिपेदेनोक्तेयं प्राणशरीरो हि प्राप्तव्यः तस्य भजनीयस्य
चैक्यरूप्यमस्त्येव । अत्र मनोमय इति वेद आत्मोक्तस्तस्याभिसन्धिवेशः स च सत्यं ज्ञानमनन्तं ब्रह्म
इत्यत्रानन्तपदार्थः अनन्ता वै वेदा इति श्रुतेः । अतो वेदं शब्दात्मकं विहाय प्राणशरीररूपार्थस्य
प्राप्तव्यत्वम् । न च शब्दार्थयोरौत्पत्तिकसंबन्धान्मनोमयस्यापि प्राप्तव्यत्वमस्त्विति शङ्क्यम् । प्राण-
शरीररूपवेदस्यास्तु प्राप्तव्यत्वं सर्वस्य वेदस्य नेति मनोमयस्य प्राप्तव्यत्वाभावात् । अक्षरे त्वेवम् ।
गणितानन्दापेक्षयाधिकानन्दाविर्भावान उत्तमः पुरुषः । विशिष्यादृश्यकत्वाधिकरणे वाच्यम् ॥ ३ ॥
फलवाक्यस्येति एतमितः प्रेत्याभिसंभवितास्मि इतिवाक्यस्येत्यर्थः । खपुष्पमितिवद् बोधकता ।
३७ तृचा ।
१४ म० ११० ६० 463
४६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ५
रूपाकथने तादृशं फलं सिद्ध्यतीति चकारार्थः अधिकरणसंपूर्णत्वद्योतकश्च ॥ ४ ॥
इति प्रथमाध्याये द्वितीयपादे प्रथमं सर्वत्र प्रसिद्धोपदेशाधिकरणम् ॥ १ ॥
शब्दविशेषात् ॥ ५ ॥ ( १।२।२ )
इदमाम्नायते । 'यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैव-
भाष्यप्रकाशः।
कतैव प्रसज्येतातस्तदपि प्राप्तत्वेनैवावगन्तव्यमित्येष चकारार्थ इत्यर्थः । एवं चात्र जगदुत्प-
त्तिकर्तृत्वनिर्वाहकाणां सत्यसंकल्पत्वादिधर्माणां ब्रह्मणि साधनेन तदसंभवः परिहृतः । प्रयो-
जनान्तरमाहुः अधिकरणेत्यादि । एतेनैव पूर्वपक्षस्योपशान्तत्वात् तथेत्यर्थः । अन्ये त्वेतदधि-
करणमष्टसूत्रमाहुः । तदप्येतेनैव दूषितम् ॥ ४ ॥
इति प्रथमं सर्वत्र प्रसिद्ध
:
"यदि स्फुरति दूषणं निपुणबुद्धयः सर्वथा
मदीयवचसि ध्रुवं तदपि युक्तिभिर्दीर्यताम् ।
विचारभरचातुरीफलमिदं हि लोके यतः
समाधिकुशलस्तद्भवतु चापि कौतूहलम् ॥ इति ।"
Now look at line 25-27:
"समाधिकुशलास्तु अनुमानस्य श्रीमदाचार्यानभि-
प्रेतत्वेन तत्प्रकाशे कुतोऽनुमानवर्णनां निपुणबुद्धयः प्रवदन्ति इति च..."
What is the phrase after 'इति च'?
Look at the verse:
"निपुणबुद्धयः" (in verse line 28)
"समाधिकुशलस्तद्भवतु चापि कौतूहलम्" (in verse line 31)
In line 25: "निपुणबुद्धयः", "समाधिकुशलास्तु"
Then: "इति च कुतूहलिनो बभूवुः ।" or "कुतूहलाद् बभूवुः"?
Wait! Look at the letters:
कु (ku)
तू (tū)
ह (ha)
ल (la)
िन (i-matra on na? or ya?)
Let's look at the letters after 'कुतूह':
ला (lā)
द् (d)
ब (ba)
भू (bhū)
४६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ५
मयमन्तरात्मन् पुरुषो हिरण्मयः' इति । तत्र संशयः । हिरण्मयः पुरुषः किं जीव
उत ब्रह्मेति । उपक्रमबलीयस्त्वे जीव, उपसंहारबलीयस्त्वे ब्रह्मेति ।
यत्रैकस्यान्यपरत्वेनैकार्थता संभवति तद्बलीयस्त्वमिति सिद्धं पूर्वतन्त्रे ।
भाष्यप्रकाशः।
त्वेनेत्युक्तपक्षस्य सारणादिति वाच्यम् । तथा सति पूर्वशेषत्वावगत्याऽधिकरणभेदस्यासङ्ग-
तत्त्वमित्याशङ्कायां संशयाकारमाहुः तत्र संशय इत्यादि । तथाच तत्र मनोमयत्वादि-
विशिष्टः पक्षोऽत्र तु हिरण्मयत्वविशिष्ट इति पक्षभेदाद् भेद इत्यर्थः । नन्वेवं सति पूर्वपादो-
क्तान्तस्तद्धर्माधिकरणेनैव गतार्थत्वेनैतत्प्रणयनवैयर्थ्यापात इत्यत आहुः उपक्रमेत्यादि । तथाच
तत्रोपक्रमस्य बलिष्ठत्वसाधनात् संशयनिरासः । प्रकृते तु तदभावादेतत्
तत्र चतुर्विधभूतनिरूपणार्थं जीवस्यैवाराग्रमात्रस्यान्तर्हृदये प्रतिपादकमिदं वचनं,
फलतो हिरण्मयत्वमिति, न त्वेतादृशाभाससमानत्वं ब्रह्मणो युक्तमतो जीव-
भाष्यप्रकाशः।
तदुपपादनाय प्रणयनमतो न वैयर्थ्यम् । तथाच तत्समानप्रकरणाभावेन तत्राक्षरणाञ्च तत्राक्ष
प्रणयनम् । प्रकृते तु स्मरणेऽपि पक्षभेदोपस्थित्या पूर्वत्र निवेशासंभवेनाधिकरणान्तरत्वाङ्गीकारं
इत्यर्थः । एवमधिकरणान्तरत्वं प्रसाध्य पूर्वपक्षमाहुः तत्रेत्यादि । जरायुजस्वेदजाण्डजो-
द्भिज्जभेदेन चतुर्विधानि यानि भूतानि जीवदेहाः । न हिंसात् सर्वा भूतानीत्यादौ तथा
सिद्धत्वात् । तेषां निरूपणार्थम् । छान्दोग्ये, त्रीण्येव तेषां बीजानीति श्रावणादत्र चतुर्थस्या-
धिकस्य कथनार्थमाराग्रमात्रस्य जीवस्यान्तर्हृदये व्रीह्यादिभिर्भूतैर्निदर्शन्तैरौपाधिकस्य परिमाणस्य
प्रतिपादकमि
४६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ५
प्रतिपादकमेवेदं वाक्यमिति प्राप्ते, उच्यते ।
शब्दविशेषात् । स हिरण्मयः पुरुषो न जीवस्य फलमपि, तत्प्राप्तेरेव
फलत्वात् । नाप्ययं नियमस्तस्यामेव मूर्त्तौ लय इति । अतः शब्देनैव विशेषस्यो-
क्तत्वान्न हिरण्मयः पुरुषो जीवः ॥ ५॥
भाष्यप्रकाशः ।
मयाधिकरणे च तत्प्राप्तेरेव फलत्वमतो जीवस्य फलमपि हिरण्मयो न भवतीति तद्विरो-
धाज्जीववाक्यत्वं न शङ्कितुं शक्यमित्यर्थः । ननु पूर्वाधिकरणे तत्क्रतुन्यायस्य सिद्धत्वात् तथो-
पासने स्वरूपसारूप्यान्यतरलाभेन भाष्येऽप्यङ्गीकाराच्च कथं न तस्य फलत्वमित्यत आहुः
नापीत्यादि । तैत्तिरीये, आदित्यो वा एष एतन्मण्डलं तपतीत्याद्यनुवाकद्वयमध्ये पूर्वस्मिन्
हिरण्मयं पुरुषं प्रस्तुत्य, द्वितीये चादित्यो वै तेज ओजो बलमित्यादिना तद्विभूतिभूता
देवताश्चोक्त्वाऽन्ते वदति । 'ब्रह्मणः सायुज्यं सलोकतामाप्नोत्येतासामेव देवतानां सायुज्यं
सार्ष्टितां समानलोकतामाप्नोति य एवं वेदेत्युपनिषत्' इति । तथाच यदि तत्क्रतुन्यायो नियतः
स्याद्धिरण्मयस्य फलत्वं युज्येतापि । न तु तथा । नचैतद्विरोधः शङ्क्यः । यथा क्रतुरित्यत्र
पुरुषविशेषणस्याधिकारस्यापि प्रकारांशे निवेशे तदभावात् ।
रश्मिः ।
व्याकर्तव्यं समानपदव्याकोपात् । साधकेति जीवसाधकब्रह्मसाधकयुक्तिसत्त्या । तत्प्राप्तेरिति
आनन्दमयमात्मानमुपसंक्रामतीति श्रुतेः । फलत्वस्य श्रौतत्वादेवंकारः । तद्विरोधात् हिरण्मय-
पदविरोधात् । चेति चकारेण 'भगवान्नेव हि फलं स यथाविर्भवेद्भुवि' इति निरोधलक्षण-
ग्रन्थोक्तस्य वाक्यस्य संग्रहः । तैत्तिरीय इति महानारायणोपनिषदि 'आदित्यो वा एष
एतन्मण्डलं तपति तत्र ता ऋचस्तदृचां मण्डलं स ऋचां लोकः, अथ य एष एतस्मिन् मण्डले-
र्चिर्दीप्यते तानि सामानि स साम्नां लोकः, अथ य एष एतस्मिन् मण्डलेर्चिषि पुरुषस्तानि
यजूंषि स यजुषां मण्डलं स यजुषां लोकः सैषा त्रय्येव विद्या तपति य एषोन्तर्रादित्ये हिरण्मयः
पुरुषः आदित्यो वै तेज ओजो बलं यशश्चक्षुः श्रोत्रमात्मा मनो मन्युर्मृत्युः सत्यो मित्रो वायुराकाशः
प्राणो लोकपालकः किं कं तत्सत्यमन्नममृतो जीवो विश्वः कतमः स्वयम्भूः प्रजापतिः संवत्सरः इति
संवत्सरोऽसावादित्यो य एष पुरुष एष भूतानामधिपतिर्ब्रह्मणैतदमृतमेष पुरुष एष भूतानामधिपति-
र्ब्रह्मणः सायुज्यं सलोकतामाप्नोत्येतासामेव देवतानां सायुज्यं सार्ष्टितां समानलोकतामाप्नोति य एवं
वेदेत्युपनिषत्' । इत्यनुवाकद्वये । तद्विभूतीति आदित्यविभूतिरूपाः । नन्वादित्यो वै तेज ओजो
इत्यादिनाऽभेदसंसर्गस्य भासनात् कथं विभूतिरूपत्वमिति चेन्न आदित्य इत्यत्र ङसः सुः सुपां
सुलुगिति सूत्रात् आदित्यस्येत्यर्थात् । अन्त इति द्वितीयानुवाकान्ते । युनक्तीति युक् सह युक्
सयुक् सयुजो भावः सायुज्यं युजिर् योगे ऋष गतौ इति हैमधातुपाठः । ऋष्टिः समाना ऋष्टिर्यस्य स
सार्ष्टिः तद्भावः । समानस्य सादेशः । समानलोकतामित्यत्र समानपदात् समानैश्वर्यादिगतिस्तामित्यर्थः ।
नन्विति सार्ष्टितासमानलोकत्तयोरपि प्राक्तिकत्वान्न तु तत्क्रतुन्यायो नियतत्वेन प्रकारेणेत्यर्थः ।
एतदिति तत्क्रतुन्यायविरोधोत्रेत्यर्थः । प्रकारांश इति थाल् प्रत्ययार्थीभूतो यः प्रकारस्तदंशे ।
तथा हि यथाक्रतुरिति पुरुषविशेषणम् । यथा येन प्रकारेण क्रतुरस्येत्यत्राधिकारप्राप्तत्वात् प्रकारस्य
१. पुष्टिमार्गसम्मतैषा । २. ब्रह्मणः। ३. लोकपालः कः ।
468
ननु हृदये विद्यमानत्वादभिमान्येव जीवो युक्त इति चेत्, तत्राह ।
स्मृतेश्च ॥ ६ ॥
भाष्यप्रकाशः।
अन्यथोक्तश्रुतिविरोधस्य दुःपरिहरत्वात् । एवं सिद्धे तन्मूर्ती लयानियमे हिरण्मयस्य
फलतया अपि प्रायिकत्वेन तद्विरोधो दुर्वार इत्युपक्रमस्थ पदवैयर्थ्यापादकतयैकार्थताविघटकत्वेन
निर्बलत्वाच्च तदनुरोधादस्य जीववाक्यत्वमित्यर्थः । एवं सिद्धान्तमभिधाय तस्य सौत्रत्वं प्रकटयन्ति
अत इत्यादि । छन्दोक्तो विशेषः शब्दविशेषस्तस्मात् । उक्तरीत्या हिरण्मयशब्देनैवाधिकारिकवि-
शेषमादाय तत्र लयानियमस्य सूचितत्वात् तथेत्यर्थः । एवं चात्राणुत्वबोधकैर्माक्षादिदृष्टान्तैरन्त-
रात्मनि वर्तमानस्य जीवत्वं प्रतीयत इति युक्त्या पूर्वाधिकरणसंगतिमाक्षिप्योपसंहारबलीयस्त्वेन
तन्निवार्य पूर्वोक्तं दृढीक्रियत इतीदं पूर्वाधिकरणस्यैव शेषः ॥ ५ ॥
स्मृतेश्च ॥ ६ ॥ इदं सूत्रमवतारयन्ति ननु हृदय इत्यादि । तथाच श्रुतेः संदिग्धत्वेऽपि
लिङ्गाज्जीववाक्यत्वं युक्तमित्यर्थः । अभिमान्येव जीव इति अभिमानी जीव एवेति योजना ।
रश्मिः ।
यादृशाधिकारप्राप्तप्रकारेणेत्यर्थात् परंपरया पुरुषविशेषणस्याधिकारस्येत्यर्थः । शमदमाद्युपेतः स्यात्तथापि
तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वादिति तृतीयाध्याये सूत्राच्छमादिमतः पुरुषस्य क्रतुरपि
शमादिकृतप्रकारेण भवति यथा मनोमयः प्राणशरीर इति मननप्रकारो मनोमयत्वं प्राणशरीरत्वं च
गार्ग्यस्य स होवाच गार्ग्यः य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपासे इति तच्छमादिकृतादित्यत्वेन
प्रकारेण ब्रह्ममननमित्यादित्यत्वं प्रकारो दृप्तबालाकिब्राह्मणे । ययाधिकारं सायुज्यादिप्राप्तेस्सत्येतः
प्रेत्य भवतीति श्रुत्योक्तेस्तत्क्रतुश्रुतिविरोधाभावात् । श्रुतिविरोधस्य ब्रह्मणः सायुज्यमित्यादिश्रुति-
विरोधस्य । तद्विरोध इति हिरण्मयस्य कथमपि जीवपरत्वासंभवेन हिरण्मयपदविरोध इत्यर्थः ।
पदेति हिरण्मयपदवैयर्थ्यापादकतयेत्यर्थः । तदनुरोधात् उपक्रमानुरोधात् । यद्यपि पक्षे संभवति
जीवस्य फलतो हिरण्मयत्वं तथापि यावद्यथाकथंचिदपि ब्रह्मप्रकरणं सिद्ध्यति तावदन्यप्रकरणत्वम-
युक्तमिति हिसन्दार्थ इत्यनुगमाधिकरणभाष्याद्ब्रह्मप्रकरणत्वमेव युक्तम् । अत इति मूर्तौ लया-
नियमात् । शब्दोक्त इति मध्यमपदलोपी समासः । उक्तमिति भाष्ये हिरण्मय इत्यायुक्तरीत्या
हिरण्मयशब्देन हिरण्मयत्वरूपो जीवाद्विशेषोऽभिधीयते । हिरण्मयत्वविशिष्टे हिरण्मये हिरण्मयपदशक्तेः ।
तेनैव शब्देनैव तात्पर्यवृत्त्याधिकारे विशेषो हिरण्मयप्राप्त्यनुकूलयज्ञवत्त्वं तमादाय तत्र मूर्तौ ।
तथेति । न हिरण्मयपुरुषो जीवत्वेन प्रकारेण विशिष्टो जीवः । न च तात्पर्यवृत्तौ किं गमकमिति
वाच्यम् । यथा क्रतुरितिश्रुतौ यत्प्रकारकः क्रतुरिति क्रतौ प्रकारसामान्यस्यैव गमकत्वात् । हिरण्मयत्व-
प्रकारकमननस्य हिरण्मयप्राप्तीच्छोरधिकारकृतत्वात् । अधिकरणयोः शेषशेषिभावमाहुः एवं चेति ।
पूर्वेति पूर्वाधिकरणसंगतिराक्षेपरूपा तामाक्षिप्य पूर्वाधिकरणे जीवाक्षेपस्य पूर्वपक्षीकृतस्य वारणे-
ऽप्यत्रोपक्रमबलीयस्त्वमादाय जीववाक्यत्ववदुपक्रमगतसर्वपदेन जडस्योक्तावपि मनोमयत्वादीनां
जीवेष्वसंभवादुपक्रमबलीयस्त्वमादाय जीववाक्यत्वमित्याक्षिप्येत्यर्थः । तं निवार्य आक्षेपं निवार्य ।
पूर्वोक्तं ब्रह्मवाक्यत्वं दृढीक्रियते । एवं पूर्वाधिकरणेषूपसंहारोक्ताववाक्यनादरोऽयोर्जीवेष्वसंभवात्
ब्रह्मवाक्यत्वं दृढीकृतम् । शेष इति तेन प्रसङ्गसंगतिरेवेति भावः ॥ ५ ॥
स्मृतेश्च ॥ ६ ॥ श्रुतेरिति छन्दविशेषेणासंदिग्धेपि निरपेक्षस्वरूपश्रुतेर्ध्वान्तपुस्तपदैः
469
४७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ६
'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इति । ननु सर्ववेदानां यन्निः-
श्वासत्वं तस्य भगवतो वाक्यं कथं स्मृतिरिति । उच्यते । 'तं त्वौपनिषदं पुरुषं
पृच्छामि' इति श्रुतेः केवलौपनिषद्वेद्यं ब्रह्म, न प्रमाणान्तरवेद्यम् । ततश्चार्जुनस्य
शिष्यरूपेण प्रपन्नस्य पुष्टिभक्तत्वाभावाद् भगवद्वाक्ये निर्विचिकित्सविश्वा-
साभावाद् रथित्वेनैव स्थाप्यत्वान्न तादृशाय तादृशदेशकालयोरुपनिषदामवक्त-
व्यत्वाद् गुरुरूपतादृशरूपं निःश्वसितवेदोद्गमजनकं स्मृत्वा तदर्थमपि स्मृत्वा
भगवान् पुरुषोत्तमो वाक्यान्युक्तवान् स्मृतिरूपाणि ।
भाष्यप्रकाशः ।
रामानुजादयो भगवन्तं श्रीकृष्णं पुरुषोत्तमत्वेन परब्रह्मत्वेन वदन्तो गीतावाक्यान्येवात्र स्मृति-
त्वेनोदाहरन्तोऽप्येतत्स्वरूपं न विचारितवन्त इति तत्स्वरूपं तदुपन्यासादिप्रयोजनं च निर्णतुं
विषयवाक्यस्य स्मृतित्वं व्युत्पादयन्ति ननु सर्वेत्यादि । शिष्यरूपेणेति शिष्यणीयरू-
पेण । 'शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्' इति वाक्यात् । निर्विचिकित्सविश्वासाभावादिति
अपरं भवतो जन्मेत्यादिरूपात् संशयबोधकवाक्यात् तथेत्यर्थः । रथित्वेनेत्यादि । अग्रिम-
कार्यकारणार्थं साहंकारताया आवश्यकत्वाद्रथित्वेनैव स्थाप्यत्वान्न तादृशाय साहंकाराय ।
तादृशदेशकालयोरिति दारुणे देशे काले चेत्यर्थः । गुरुरूपतादृशरूपमिति यो वै वेदांश्च
रश्मिः ।
र्बहुभिरेकस्य हिरण्मयश्रुतेरकिंचित्करत्वात् संदिग्धत्वेपि लिङ्गादयमात्मन् पुरुष इति पुरुषपदसामर्थ्यात् ।
अभीति अभिमानोऽविद्या सोस्यास्तीत्यभिमानी । पुरुष इति श्रुतौ पुरि देहे शेत इति व्युत्पत्तेर्जी-
वप्रत्यायनादेवकारः । नन्वयोगव्यवच्छेदकत्वेऽनन्वयोगव्यवच्छेदेनैवकारव्याकरणे किं बीजमिति
चेन्न अयोगव्यवच्छेदाङ्गीकारे जीवन्मुक्तो व्यावर्ततातो योजना भाष्यसूचितैव । जीवान्यसामान्ये
अभिमानित्वयोगव्यवच्छेदो जीवे चाभिमानित्वं प्रतीयते इति । रामानुजेति । आदिपदेन
मध्वाचार्यो भगवन्निम्बार्कश्च । एतदिति गीतारूपम् । तदुप्येति आदिपदेन चिन्तनम् ।
व्युदिति सौत्रत्वाय व्युत्पादयन्ति । स्मेति शेषः । व्युत्पादनस्य भूतनिबन्धनपरोक्षार्थवृत्तित्वात् ।
लटो वर्तमानकाले विधानात् । भाष्ये । ननु स्मृतिपदेन मन्वादिस्मृत्युपस्थितेः सूत्रे गीतास्मृतीनां
कुत उपादानमिति प्रश्न उत्तरमाहुः तं त्विति । तथा च मन्वादिस्मृत्यवेद्यत्वात् तद्वाचकस्मृ-
तिपदप्रयोगस्य श्रीव्यासस्यानभिप्रेतत्वेनोपनिषत्तुल्ये स्मृतिपदं प्रयुक्तमिति भावः । स्मरणात्स्मृति-
रुच्यते इति स्मृतिपदप्रयोगप्रयोजकस्मरणं व्युत्पादयन्ति स्म ततश्चेति । प्रपन्नस्येति प्रपत्ति-
मार्ग प्राप्तस्य । स च
'जगन्नाथे विट्ठलेशे श्रीरङ्गे वेङ्कटे तथा ।
यत्र पूजाप्रवाहः स्यात्तत्र तिष्ठेत तत्परः' ॥ इति निबन्धोक्तः
तिष्ठेदिति प्राप्ते 'प्रकाशनस्थेयाख्यायोश्च' इति सूत्रेणात्मनेपदम् । अर्जुनस्य प्रकाशस्य
स्फुटत्वादीदृशपूजाप्रवाहे स्थितत्वान्न प्रपत्तिमार्गनिष्ठत्वमत एव गुरूपसत्त्यादिसाधनपरत्वात्
मर्यादाभक्तिनिष्ठत्वान्न पुष्टिभक्तत्वाभावः । प्रकृते । अपरमिति इदं वाक्यं प्रपत्त्या प्रवृत्तस्यार्जु-
नस्य । अग्रिमेति युद्धरूपाग्रिमकार्यकारणार्थम् । रथित्वेनेति 'ये यथा मां प्रपद्यन्ते' इति वाक्यात् ।
तादृशायेति प्रपत्त्या प्रपन्नायापीत्यर्थः । श्रुतौ प्रहिणोति हि गतिबुद्धयोः शादिः परस्मैपदी प्रकर्षेण
470
! Just अधिकारेति!
Let's check line 5 of Prakasha: सोऽधिकारविशेषदेशकाल... -> अधिकारविशेष... -> Rashmi: अधिकारेति!
Then: 'ब्राह्मणेन निष्कारणः षडङ्गो वेदो ध्येयो
Wait, ध्येयो or ज्ञेयो?
Look at line 17: 'ब्राह्मणेन निष्कारणः षडङ्गो वेदो ध्येयो
Line 18: ज्ञेयश्च' इति श्रुतौ ब्राह्मणोऽधिकारी स्वाध्यायोऽध्येतव्य इति देशकालादिविशेषो हि त्रिषु वर्णेषु ब्राह्म-
Ah! ध्येयो ज्ञेयश्च'!
Wait, the Mahabhashya quote is "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च". Here it is printed:
'ब्राह्मणेन निष्कारणः षडङ्गो वेदो ध्येयो
ज्ञेयश्च' इति श्रुतौ -> yes!
- Line 18:
ज्ञेयश्च' इति श्रुतौ ब्राह्मणोऽधिकारी स्वाध्यायोऽध्येतव्य इति देशकालादिविशेषो हि त्रिषु वर्णेषु ब्राह्म-
Let's verify line 18:
`ज्ञेयश्च' इति श्रुतौ ब्राह्मणोऽधिकारी स्वाध्यायोऽध्ये
४७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० २ अ० १ सू० ६
ततो ब्रह्मविचारे तान्यप्युदाहृत्य चिन्त्यन्ते । पुनश्च भगवाँस्तदधिकारेण
ब्रह्मविद्यां निरूप्य स्वकृपालुतया, सर्वगुह्यतममित्यादिना भक्तिप्रपत्ती एवोक्त-
वान् । अतोऽङ्गत्वेन पूर्वं सर्वनिर्णया उक्ता इत्यध्यवसेयम् । तथैवार्जुनविज्ञानात्,
भाष्यप्रकाशः।
रूपभेदस्य शीघ्रं बुद्धावारोहान्मर्यादाप्रतिपादकं वेदवदक्षरात्मकं रूपं वेदार्थं तत्तात्पर्यं च स्मृत्वा
तत उत्तमोऽपि भगवाँस्तत्सदृशवाक्यान्युक्तवानतः स्मृतिरूपत्वं तेषामुपपन्नमिति । एवं स्वरूपं
विचार्योपन्यासप्रयोजनमाहुः तत इत्यादि । वेदान्तार्थनिश्चायकत्वात् तद्विचारोऽपि युक्त
एवेति तान्यपि चिन्त्यन्त इत्यर्थः । नन्वेकार्थत्वं सामानाधिकरण्यप्रयोजकम् । तच्चिह न
दृश्यते । वेदे मुख्यतया ज्ञानविज्ञानयोस्तत्र च तथा भक्तिप्रपत्त्योः प्रतिपादनेनार्थभेदादित्यत
आहुः पुनरित्यादि । तदधिकारेणेति भक्तिघटितेनाधिकारेण । तथाचाधिकारभेदस्य वेदेऽपि
रश्मिः।
वेदार्थमिति सरस्वतीमाविवासेमधीतिमिरिति श्रुत्युक्ताधीतिभिर्विविधोपचारैः सरस्वतीं परिचरेमेति
दुर्गाचार्या निरुक्तटीकायां वेदार्थमाहुः वेदार्थः सुपर्णारूढः । सुपर्णः काल इति तृतीयसुबोधिन्यामस्ति
तर्हि वेदे गूढे भक्तिप्रपत्ती अत्र स्मृतिषु स्फुटे कुत उच्येते अत आहुस्तात्पर्यं चेति । ततः ऋषिम्य
उत्तमः । तादृशानि स्मृतिरूपाणि 'स्मरणात्स्मृतिरुच्यते' इति वाक्यात् स्मृतिरूपत्वम् । वेदान्तेति ।
ननु किं प्रकारकः क्रतुरत्र निश्चितेषु ऋतुषु हिरण्मयविषयको हृदि कार्य इत्यत आहुः वेदान्तेति ।
तदुक्तं वेदेषु संदेहे गीता निर्णायिका इति । वेदाः श्रीकृष्णवाक्यानीत्यस्य निबन्धस्य टीकायाम् ।
तानीति प्रसङ्गात्सर्वापि गीता चिन्त्यते इति बहुवचनान्तानीति । सर्वे क्रतवो निश्चिताः परं खमेते
यः स वक्ष्यतेऽत्रैवाग्रे । एकार्थत्वं वेदान्तगीतयोः । सामानाधिकरण्यं भिन्नप्रवृत्तिनिमित्तत्वे सति
एकार्थबोधकत्वं तस्य प्रयोजकं पर्यायत्वं कारणम् । इहेति वेदान्तगीतयोः । वेद इति क्रिया-
प्रतिपादनेपि वेदे 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति श्रुत्या ज्ञानेच्छोत्पादनान्न मुख्यत-
या प्रतिपादनं किं तु ज्ञानस्य सत्यं ज्ञानमिति श्रुतेस्तदपि तद्विषयकं तरति शोकमात्मविदिति सर्वा-
त्मभावप्रकरणे छान्दोग्यश्रुतेः अभेदज्ञानं च 'तत्त्वमसि' इति श्रुतेः माहात्म्यज्ञानं च 'यतो वा इमानि
भूतानि जायन्ते' इति श्रुतेर्भक्तनिष्ठं च । विज्ञानस्य 'सत्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतेर्मु-
ख्यतया प्रतिपादनं विज्ञानं जीवोपि 'विज्ञानं यज्ञं तनुते' इति श्रुतेः । अत्र गीतायां सप्तमेऽध्याये
ज्ञानविज्ञानाख्ये
'भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत्' ॥
इत्यत्र प्रकृतिद्वयज्ञानं विज्ञानपदवाच्यम् । ज्ञानं तु 'अहं कृत्स्नस्य जगतः' इत्याद्युक्तं ज्ञानि-
भक्तनिष्ठम् । 'तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते' इति वाक्याद् भगवद्विषयकम् । अत्रैवाग्रे
'चतुर्विधा भजन्ते माम्' इत्यादिना भक्तिः ।
'बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः' ॥
472
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७३
भाष्यप्रकाशः ।
सिद्धत्वाद् वेदोऽपीदमेव द्वयं तादृशाधिकार्यर्थं निरूपयति । अत एव ब्रह्मवाक्येषु सुखादि-
रश्मिः ।
इत्यत्र 'वासुदेवः सर्वमिति' 'ज्ञानवान् मां प्रपद्यते' इति प्रपत्तिः । एतेन प्रपञ्चावव्यभेदज्ञानं
सगुणप्रपञ्चनिवृत्तये व्याख्यातम् । तेन वासुदेवः सर्वमिति प्रपद्यते इति नान्वयः । ननु तथेत्यनेन
मुख्यतयेत्यर्थकेन भक्तिप्रपत्त्योर्मुख्यतया प्रतिपादनोक्तेर्ज्ञानविज्ञानयोगाध्याये ज्ञानविज्ञानयोर्मुख्यतया
प्रतिपादनं न भक्तिज्ञानयोरिति चेत्सत्यम् । मुख्यतया शेषतया प्रतिपादनसत्त्वात् । एकभक्तिर्विशिष्यते
इति वाक्याज्ज्ञानवान् मां प्रपद्यत इति वाक्याच्च । अन्यच्च । उपक्रमोपसंहाराभ्यामर्थो निर्णीतो
भाष्ये पूर्वतन्त्रोक्तोपक्रमोपसंहारयोः पूर्वसूत्र उक्तत्वात् । अत्रोपक्रमे त्वां प्रपन्नमिति प्रपत्तियुक्तत्व-
कथनेनाधिकारिणं प्रति उपसंहारे
'मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः' ॥
इति श्लोकद्वयेन भक्तिप्रपत्ती उक्ते । अत्र मन्मना भवेति मानसी सेवा मद्भक्त इत्यनेन तनुज-
वित्तजसेवे 'यथा मय्येश्वरे मनः' इति वाक्यात् । एतच्च भक्तियोगारूढस्याध्यक्ष 'मय्यावेश्य मनः'इत्यत्रापि
मद्याजी कामनायां सत्यां ज्ञेयः । मुख्यस्यार्हणकर्ता वा वेदोपयोग उक्तः । वेदे ह्येव सुमतीत्यादिषु
सेवाप्रकारसत्त्वात् महीधर्यां स्पष्टमिदम् । मां नमस्कुर्विति वन्दनं न पूजायामन्तर्भवति । एकाद-
शसुबोधिन्याः । अतोत्र पृथगुक्तम् । सेवायाः प्रकाराय सिद्धान्तमुक्तावल्याम् 'तस्माच्छ्रीकृष्ण' इत्य-
नेन स्मरणमुक्तम् । प्रकाराणां बाहुल्यादधिकारिणां च । तथापि फलाव्यभिचारिसाधनं कर्तव्यमिति
सुबोधिन्यामुक्तत्वादाचारसंप्राप्तं कर्तव्यम् । इत्येवं मुख्यतया प्रतिपादनमेव हि भक्तिप्रपत्त्योः ।
पुनरित्यादीति पन स्तुतौ बहुलकादरः । अस्य उकारः 'पुनरप्रथमे' इत्यमरः । तृतीयाया लुक्
अप्रथमेन भक्तिघटितेनाधिकारेणेत्यर्थः । प्रथमाधिकारेण तु शोकापनोदनवान् स चकारेण समु-
चितः अतोपि तृतीयाया लुक् प्रथमाधिकारेणेत्यर्थः । तथाहि । भाष्ये प्रपत्तिरधिकारिशरीरेति
प्रपन्नस्येत्यत्राधिकारो योग्यता स प्रपत्तिघटितो जातोऽतो मुमुक्षुर्वे शरणमनुव्रजेदिति श्रुत्या प्रपन्नस्य
मुमुक्षुत्वसत्त्वात् अर्जुनाधिकारो मोक्षयोग्यता तेन ब्रह्मविद्या गीताशास्त्रं इति श्रीमद्भगवद्गीतासूप-
निषत्सु ब्रह्मविद्यायामिति कथनात् । निरूप्येत्यन्वयः । ननु प्रथममर्जुनाधिकारेण ब्रह्मविद्या
निरूपिता भक्तिप्रपत्त्योर्निरूपणे को हेतुरित्याकाङ्क्षायामाहुः स्वेति । अप्रथमेन भक्तिघटितेनाधिकारेण
स्वेत्यादिः । ब्रह्मविद्यायां साधनचतुष्टयं वैराग्यादिमतोऽधिकाराद्भक्तिघटितोधिकारो नान्त्रेति ।
स्वस्य कृपालुतयेति हेतौ तृतीया भक्तिरूपव्यापारमन्तरेण स्वकृपालुतयाप्याजामिलवन्मोचनसंभवात् न
करणे तृतीया व्यापारनियतत्त्वात्तस्याः । कृपालुत्वं तु 'कृष्णायाऽक्लिष्टकारिणे' इति गोपालतापनीयश्रुतेः ।
'सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति' इति पञ्चमाध्याये । सिद्धत्वादिति पूर्वतन्त्रे षष्ठाध्याये
वेदोक्तकर्माधिकारिणां 'शान्तो दान्त उपरतस्तितिक्षुः' इति श्रुतौ वेदान्तोक्ताधिकारिणां च सिद्धत्वात् ।
द्वयमिति भक्तिप्रपत्तिरूपार्थद्वयम् । तादृशेति भक्तिघटिताधिकार्यर्थम् । अत एवेति द्वयनिरू-
473
माहुः
- चकारादित्यादि ।
- ननु भवत्वत्रैवं,
- तथापि क्वचित् क्वचिद् व्यास-
Matches completely!
Line 6:
चरणैः पुराणवाक्यान्यप्युदाहृत्य चिन्त्यन्ते, तत्र को हेतुरित्याकाङ्क्षायामाहुः व्यासस्यापी-
Check:
- चरणैः पुराणवाक्यान्यप्युदाहृत्य चिन्त्यन्ते,
- तत्र को हेतुरित्याकाङ्क्षायामाहुः (आकाङ्क्षायामाहुः - wait, is it ङ्क्षा or ङ्क्ष? आकाङ्क्षायामाहुः)
- व्यासस्यापी-
Matches completely!
Line 7:
त्यादि । बुद्धादिवारणाय, ज्ञानांशत्वादिति । तथाचोक्तस्मृत्या हृदयस्य भगवदाधारत्वेन निर्णीत-
Check:
- त्यादि ।
- बुद्धादिवारणाय,
- ज्ञानांशत्वादिति ।
- तथाचोक्तस्मृत्या
- हृदयस्य भगवदाधारत्वेन
- निर्णीत-
Matches completely!
Line 8:
त्वाच्च तद्बलेन ब्रह्मवाक्यत्वपर्यवसानं युज्यत इत्यर्थः ॥ ६ ॥
Check:
- त्वाच्च
- तद्बलेन
- ब्रह्मवाक्यत्वपर्यवसानं
- युज्य
उपक्रमबलीयस्त्वमाशङ्क्य परिहरति ।
अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं
व्योमवच्च ॥ ७ ॥
ननु व्यापकस्येश्वरस्य हृदयदेशस्थितिरयुक्ता, व्रीह्यादिरूपत्वं च । अतोऽ-
र्भकमल्पकमोको हृदयस्थानं यस्य तत्त्वाद् व्रीह्यादितुल्यत्वान्न परमात्मा
वाक्यार्थ इति चेन्न । निचाय्यत्वात् । पूर्वं प्रथमदूषणं परिहरति । हृदये ज्ञातुं
शक्यत इति तदायतनत्वेन प्रतिपाद्यते ।
निदिध्यासनानन्तरं हि साक्षात्कारस्तदन्तःकरण एवेति निचाय्यत्वम् ।
अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
इदं सूत्रमवतारयन्ति उपक्रमेत्यादि । असंजातविरोधत्वेन तथाऽऽशङ्क्येत्यर्थः । सूत्रं
व्याकुर्वन्त आशङ्कांशं व्युत्पादयन्ति नन्वित्यादि । तथाचेश्वरधर्मविरुद्धस्य जीवधर्मस्य बोधनात्
स्मृतिरयोग्यत्वादोषदुष्टेति न सा निर्णायिकेत्यर्थः । समाधानांशं व्याकुर्वन्ति पूर्वमित्यादि ।
तदिति हृदयम् । तथाच वृत्तिलाभस्थानत्वादायतनत्वव्यपदेशः । अत्रान्ये दृष्टान्तमपि वदन्ति ।
यथा, सर्वलोकपतिरप्ययोध्यापतिरिति । कथं वृत्तिलाभस्थानत्वमित्यत आहुः निदिध्यास-
नेत्यादि । हिर्हेतौ । तदन्तःकरण इति जीवान्तःकरणे । तथाच 'मनसैवानुद्रष्टव्यः' इति-
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
तथेति प्रथमाया 'अव्ययादाप्सुपः' इति सूत्रेण लुक्, उपक्रमबलीयस्त्वम् । स्मृतिरिति 'ईश्वरः
सर्वभूतानाम्' इत्यादिः । योग्यतेति अर्थावबोधे योग्यता सा दोषस्तेन दुष्टा । भाष्ये । व्रीह्या-
दीति व्रीह्यादिभिर्विशेषेणापहीनं तौल्यमीश्वराय दिश्यते दीयते इति तद्व्यपदेशस्तत्तौल्यं तस्मात्
व्रीह्यादिजडतौल्यं चेतनतौल्यादीनम् । दिश अतिसर्जनेऽतिसर्जनं दानं छन्दोवत्सूत्राणि भव-
न्तीत्यतिदेशादेवं व्याख्यानम् । अन्यत्र व्यपदेशः कथनं 'उपसर्गेण धात्वर्थः' इति सिद्धान्तकौमुद्या
तिङन्तस । प्रकृते । तदिति तदित्यस्य हृदयमित्यर्थ इत्यर्थः । तथा चेति ईश्वरस्य वृत्तिर्वर्तनम् तस्या
लाभस्य स्थानं तत्त्वात् । अन्य इति शंकराचार्या एव । निदिध्यासनेति 'आत्मा वा अरे द्रष्टव्यः
श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यत्र श्रुतौ पाठक्रममनादृत्य निदिध्यासनानन्तरमित्यादिः ।
हिरिति शब्दानुकरणत्वान्न विभक्तेर्लुक् । प्रतिपाद्यत इति पूर्वोक्तप्रतिपादने हेतुः । जीवेति ।
निदिध्यासनं तैलधारावदविच्छिन्नं ध्यानं परेषामस्माकं तु ह्यसंप्रज्ञातसमाधिरिति पादोपारम्भे उक्तम् ।
अतस्तन्निदिध्यासनं जीवान्तःकरण इत्यर्थः । न तच्छब्दार्थो जीवः । तत्रैव मनसेवेत्यर्थः । निचा-
य्यत्वम् । अत्र 'पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु' इति पाणिनीयसूत्रात् ण्यत्
छन्दोवत्सूत्राणि भवन्तीति महाभाष्यात् आयादेशः धात्वादेः कुत्वाभावो वैयासकसूत्रेण क्रियते
निचाय्यो जगन्निवासो भगवान् निधीयतेऽस्मिन्जगदिति व्युत्पत्तेस्तस्य भावः तत्तन्मावश्यके ण्यः इति ण्यै-
त्वायादेशो दुर्लभः सौत्रो वा इति पाणिनीयम् । अतो द्रष्टव्यत्वम् । व्यापकरूपं नितरां चाय्यमवयवैः
संयोज्यं मनस्येव 'स मानसीन आत्मा जनानाम्' इति श्रुतेः । बुद्धेभ्यो विचिनोति फलनीलम्
४७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ७
भक्तौ तु बहिरपीति विशेषः । द्वितीयं परिहरति । एवं व्योमवत् । एवं व्रीह्या-
दितुल्यतया यत्प्रतिपादनं चतुर्विधभूतान्तरत्वख्यापनाय । यथा चत्वार उपरवाः
प्रादेशमात्रा इति तथा तद्वद्धृद्याकाशे प्रकटस्य सचिदानन्दस्वरूपसर्वतःपाणिपा-
दान्तस्य तत्स्वरूपमिति ।
भाष्यप्रकाशः ।
श्रुतेस्तत्रैव निचाय्यत्वमिति तस्य प्रशंसया स्थानत्वव्यपदेशोऽतो न स्मृतेरयोग्यतादोषघटितत्व-
मित्यर्थः । ननु यदि हृदयमेव दृष्टिलाभस्थानं, नेतरत् तदा तस्य व्यापकतापि दुर्घटा । प्रत्य-
क्षापेक्षया शब्दस्य दुर्बलत्वादित्यत आहुः भक्तौ त्वित्यादि । तथाच साधनविशेषेण बहिरपि
निचायनान्न शब्दस्य नैर्बल्यमित्यर्थः । द्वितीयं परिहरतीति । ननु मास्तु स्थानविरोधस्तथापि
परिमाणविरोधस्तु स्यादेवेत्यतो द्वितीयं परिमाणविरोधरूपं दूषणं परिहरतीत्यर्थः । व्योमव-
दिति दृष्टान्तं विवृण्वन्ति यथेत्यादि । उपरवा नाम हविर्धाने खाता बिलविशेषाश्चत्वारः ।
‘दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽर्धं चतुर उपरवानवान्तरदेशेषु प्रादेशान्तरालान् करोति’ इति
कल्पे विहिताः । तैर्बिलैर्यथाकाशस्य प्रादेशमात्रं स्वरूपमभिव्यक्तीक्रियते, किमत्र भद्रमित्या-
दिमन्त्रैरध्वर्युयजमानयोः परस्परहस्तग्रहणाय । तथात्र व्रीह्यादितुल्यतया प्रतिपादनं चतुर्विध-
भूतहृदयाकाशे प्रकटस्योक्तविधस्य ब्रह्मण एव तत्स्वरूपमिति बोधनाय । तैत्तिरीये, ‘अतः परं
नान्यदणीयस५ हि परात् परं यन्महतो महान्तम्’ इत्येकस्यैव नानापरिमाणभावात् । तथाच
रश्मिः ।
विभागानुकूलो व्यापारश्चिनोतेरर्थः । अस्मिन् पक्षे व्यापकं रूपं हृदा विभज्य द्रष्टव्यम् । घटेना-
काशं विभज्येव । तस्य प्रशंसयेति तस्य हृदयस्य प्रशंसया ईदृग् हृदयं यत्रात्मा भातीति किं
चात्मलाभस्थानमिति प्रशंसा तस्य ब्रह्मण इति नार्थः । हृदयस्य स्थानत्वव्यपदेश इत्यत्रान्वये
हृदयाध्याहारापत्तेः । शाब्दस्येति ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यत्र ब्रह्मशब्दस्य । भक्तौ त्विति
तदुक्तम् ‘अपि संराधन’ सूत्रे तृतीयस्य द्वितीयपादे । निचायनादिति निचायनं विभजनं तस्मात्
सर्वाङ्घ्रिभजनं कृत्वा दर्शनात् निचायनावृद्देश्यस्य बहिरपि संयोजनात् नीचीयतेऽस्मिन् धान्या-
दिरिति निकाय्यपदव्युत्पत्तेः । नैर्बल्यमिति प्रत्यक्षेणापि संराधनसूत्रोक्तेनाप्युपष्टम्भादिति भावः ।
व्योमवदिति एवं व्योमवदिति भाष्यम् । तत्रैवं पूर्वपरामर्शे व्योमवदिति षष्ठ्यन्ताद्वतिः ।
पूर्वं तु व्रीहिर्वा यवो वेति व्रीह्यादितुल्यतया परिमाणप्रतिपादनं तच्चतुर्विधभूतान्तरत्वस्य वृद्धि-
ह्राससूत्रोक्तस्य स्थापनाय चतुर्विधभूतानि जरायुजस्वेदजाण्डजोद्भिज्जानि । एवमेवं पदं भाष्ये
व्याकृतं तत्र दृष्टान्तं व्योमवदिति दृष्टान्तमित्यर्थः संवेति शेषः । विवरणस्य भूतत्वात् । हविरिति
हविर्धानमण्डपे । हविरिति हविर्धीयतेऽस्मिन्निति हविर्धानं शकटं तच्च हविर्धानमण्डपे दक्षिण-
मुत्तरं चेति तत्र दक्षिणस्य शकटस्याधस्तादित्यर्थः । तदुक्तं पूर्वतन्त्रे द्वादशेऽध्याये सप्तमाधिकरणे ‘हवि-
र्धाने मण्डपे हविर्धानाख्ये शकटे स्थापित’ इति । भद्रं शकटं लक्षीकृत्य पुरोग्रे अवान्तरदेशेष्ववका-
शप्रदेशेषु प्रादेशान्तरालान् प्रादेशो वितस्तिभेदः । कल्पे कल्पसूत्रे । उक्तेति भाष्योक्तविधस्य
न्यायकस्य । नानेति ‘समो मशकेन समो नागेन’ इत्यादिश्रुत्यैकार्थतया नानापरिमाणभावात्
476
यहाँ दी गई पृष्ठ-छवि का शुद्ध देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । \hfill ४७७
पूर्वपक्षसिद्धान्तयोश्चकारद्वयमेतादृशवाक्यान्तरे पूर्वपक्षसिद्धान्तयोराधि-
क्येोपपत्तिसमुच्चयार्थम् । तेन, अत एव प्राण इतिवदधिकरणान्तरमपि सूचि-
तमिति ॥ ७ ॥
भाष्यप्रकाशः।
न परिमाणविरोधोऽपीत्यर्थः । एवं समाधानांशं व्याकृत्य चकारप्रयोजनमाहुः पूर्वपक्षे-
त्यादि । तथाचाधिक्यं पूर्वाधिकरणापेक्षया वैलक्षण्यं तत्र या उपपत्तिस्तयोरुक्तयोः स्फोरणा-
र्थमित्यर्थः । तत्सूचितमर्थमाहुः तेनेत्यादि । तत्रेदमूदाह्रियते । तैत्तिरीये महानारायणोपनि-
षद्याम्नायते । 'आदित्यो वा एष एतन्मण्डलं तपति । तत्र ता ऋचस्तदृचां मण्डलं स ऋचां
लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोकोऽथ य एष एत-
स्मिन् मण्डलेऽर्चिषि पुरुषस्तानि यजूंषि स यजुषां लोकः सैषा त्रय्येव विद्या तपति य एषो-
ऽन्तरादित्ये हिरण्मयः पुरुषः' इति । अत्र संशयः—हिरण्मयः पुरुषः किं जीवो ब्रह्म वेति ।
तद्बीजं तु विधेयत्वानिर्देशः । तत्रादित्यो वेत्युपक्रम आदित्यस्य मण्डलतप्ताकत्वमुक्त्वोपसं-
हारे तत्तापकत्वं त्रय्यामुपसंहृतम् । तेनादित्यह्यधीश्वरः सिद्धः । शरीरस्य चान्तस्तदभिमा-
न्येव युक्तः । मण्डलस्य हृदयापेक्षया महत्त्वेऽपि परममहत्परिमाणापेक्षयाल्पत्वेन तत्र जीव-
रश्मिः ।
चकारेति चकारयोः प्रयोजनम् । पूर्वपक्षेत्यादीति चकारद्वयं पुनरग्रे प्राथम्यार्थकं तत् स्वल्पाक्षर-
मिति सूत्रलक्षणविरुद्धमतश्चकारद्वयं व्यर्थं सत्किञ्चिज्ज्ञापयति एतादृशवाक्यान्तरे पूर्वपक्षसिद्धान्तयो-
राधिक्ये वैलक्षण्ये या उपपत्तिस्तस्याः समुच्चयं ज्ञापकसिद्धं फलम् । ॰॰॰॰॰भाष्यम् । पूर्वाधिकरणेति
अन्तस्तद्धर्मोपदेशाधिकरणापेक्षया न तु प्रकृताधिकरणापेक्षया एतदधिकरणापेक्षयेति संस्कृतात्पतेः ।
तत्रेति वैलक्षण्य इत्यर्थः । न तु पूर्वाधिकरण इत्यर्थः । त्यदादीनामव्यवहितपूर्वपरामर्शित्वात् ।
तयोरुपपत्तिवैलक्षण्ययोः । अत्र भाष्ये पूर्वपक्षसिद्धान्तयोरिति प्रयोगस्तत्र यद्यपि पूर्वं सिद्धान्तपदमपेक्षितं
'अल्पाच्तरं पूर्वम्' इति पाणिनिसूत्रात् तथापि राजदन्तादेराकृतिगणत्वात् 'राजदन्तादिषु परम्' इति
सूत्रेण पूर्वप्रयोगार्हस्य परनिपातः । तत्सूचितमिति पूर्वाधिकरणापेक्षया उपपत्तिवैलक्षण्ययोः
स्फोरणात् सूचितम् । तेनेत्यादीति उपपत्तिवैलक्षण्ययोः स्फोरणेन । यथा 'अत एव प्राणः' इत्य-
धिकरणे सत्यपि 'प्राणस्तथानुगमात्' इत्यधिकरणान्तरम् । पूर्वोक्तस्य सर्वस्याप्यर्थस्य निगमनान्नात्र
व्यासघातम् । तद्वत् सप्तम्यन्ताद्धेतिः । 'अन्तस्तद्धर्मोपदेशात्' इत्यधिकरणे सत्यपि शब्दविशेषात्
इत्यधिकरणान्तरमपीति सूचितमित्यर्थः । तत्रेदमिति तत्र किमेतादृशवाक्यान्तरं की पूर्वपक्षसिद्धान्तौ
किमाधिक्यं कोपपत्तिरित्याकाङ्क्षायामिदं वक्ष्यमाणमुदाह्रियते इत्यर्थः । विधेयत्वेति ब्रह्मजीव-
योर्विधेयत्वानिर्देशः । 'हिरण्मयः पुरुष' इत्यत्र पदद्वयमपि ब्रह्मजीवसाधारणमिति भावः । त्रय्या-
मिति 'त्रय्येव विद्या तपति' इत्येवकारेणादित्यव्यवच्छेदात् । तेनेति उपक्रमोपसंहाराभ्यामेकार्थ-
प्रतिपादननियमेन त्रय्यादित्ययोश्च सामानाधिकरण्यनियमेन च सिद्ध इति । यद्यपि त्रयी वेदः स
चात्मा प्रातिशाख्ये उक्तस्तथाप्यत्र विद्वांस्तां प्रतिपाद्यप्रतिपादकभावसत्त्वात्सामानाधिकरण्यासम्भवः तथा-
चेदमुपक्रमोपसंहारयोरेकार्थपरत्वमिति भावः । स्मृतेश्चेति सूत्रम् । ननु न्वादिले विद्यमानत्वाद्रादित्या-
भिमानो युक्त इत्याहुः स्मृतेश्चेत्यवतार्य 'ज्योतिषां रविरंशुमान्' इति स्मृतेरित्यर्थमित्वा रवावादित्ये
द्वातस्य विद्यमानत्वमवेत्यनेनादित्ये स्थितिरित्यादित्ये विद्यमानत्वं नाभिमानिप्रयोजकमित्येवं सह्यार्थ-
कास्तदन्तास्तस्यात्कर्मलोकस्तदङ्गत्वेनार्थनाम्। शरीरस्येति । हृदयेति आदिपदेन भगः । मनुष्याणामिति मनु
\hfill 477 \hfill
४७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ७
भाष्यप्रकाशः ।
सैव मानात् । पुरुषपदेन पूर्वोक्तार्चिर्गतयजुःपुरुषस्यैव व्यपदेशाच्च । नच हिरण्मयत्वविरोधः ।
तस्योपासनाफलत्वायानुवादात् । नचात्रोपासनाबोधकपदाभावान्नैवमिति शङ्क्यम् । अत्रापेक्षि-
तगुणान्तरबोधके, ‘आदित्यो वै तेज ओजः’ इत्यव्यवहितोत्तरानुवाके, य एवं वेदेत्युपसंहारेण
तस्या उक्तत्वात् । अतो नेदं ब्रह्मवाक्यमिति सूत्रांशेनाशङ्कयांशान्तरेण सिद्धान्तमाह न,
निचाय्यत्यादि । यथा हृदये निचाय्य एवमादित्येऽपि । स यश्चायं पुरुषे यश्चासावादित्ये
स एक इति श्रुत्यन्तरात् । नच तत्र जीवो वक्तुं युक्तः । तदग्रे, स य एवंविदित्यादिना विदो
जीवस्य वेद्याद् भेदेन निर्देशात् ।
‘अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः ।
एकस्तद्वेद
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७९
संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
बाधकमाशङ्क्य परिहरति । यदि सर्वेषां हृदये भगवाञ्जीववत् तिष्ठेत् तदा
जीवस्येव तस्यापि सुखदुःखसाक्षात्कारस्तत्साधनादिपरिग्रहश्च प्राप्नोतीति चेन्न ।
वैशेष्यात् । विशेषस्य भावो वैशेष्यं तस्मात् । सर्वरूपत्वमानन्दरूपत्वं स्वकर्तृत्वं
विशेषः । तद्भावो ब्रह्मणि वर्तते, न जीवे इति जीवस्यैव भोगो, न ब्रह्मण इति ।
वैशेष्यपदादयमर्थः सूचितः । अपेक्षित एव भोगो, नानपेक्षित इति । न तु तस्य
भाष्यप्रकाशः ।
संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥ बाधकमिति जीवतुल्यतापत्तिरूपं
बाधकम् । सम्यग् अभिनिवेशेन भोगः संभोगः, सम्यग्भोगो यस्मादिति वा संभोगः । तयोः
प्राप्तिर्जीवतौल्यमापादयतीति तदाशङ्क्य परिहरतीत्यर्थः । अग्रिमाधिकरणविरोधादिति ।
अग्रिमाधिकरणत्रयविषयवाक्येषु भोगप्रतिपादनात् तदनङ्गीकारे तद्विरोधादित्यर्थः। बहुव्रीहिविग्रह
मङ्गीकृत्याहुः तत्साधनादिपरिग्रहश्चेति । अपेक्षित एवेत्यादिनियमे दृष्टान्तमुखेन मानमाहुः
रश्मिः ।
पवित्रयुक्तत्वेन ब्रह्मधर्मस्य वैलक्षण्यं सिद्धान्ते । एतादृशवाक्यान्तरे तूपपत्तावुपक्रमस्यापि सत्त्वा-
द्ब्रह्मधर्मस्य वैलक्षण्यम् । पूर्वपक्षे 'अथ य एषोन्तरादित्ये हिरण्मयः पुरुषः' ब्रह्मशरीरं पूर्वाधिकरणे ।
अत्राधिकरण उपक्रमेण जीवस्यैवाङ्गुष्ठमात्रस्यान्तर्हृदये प्रतिपादकमिदं वचनमित्युपपत्तिः । अतो
जीवप्रतिपादकमेवेदं वाक्यमिति वैलक्षण्यम् । एतादृशवाक्यान्तरे तु पूर्वपक्षे त्रयीशरीरादित्यस्यो-
भिमानो जीवो हिरण्मयः पुरुष इत्युपपत्तिः । अभिमानिप्रतिपादकमिति वैलक्षण्यम् । न च शरीरस्य
चान्तस्तदभिमान्येव युक्त इति अर्भकौकस्त्वसूत्राशङ्काग्रन्थो न शब्दविशेषादिति सूत्रे पूर्वपक्षग्रन्थ
इति चेन्न शब्दविशेषसूत्रपूर्वपक्षग्रन्थस्यार्भकौकस्त्वसूत्रोक्तशङ्काग्रन्थेनुवादाङ्गीकारादतिरिक्तपूर्वपक्षाङ्गीकारे
गौरवात् । तथाच भाष्यं पूर्वपक्षसिद्धान्तयोरित्यर्भकौकस्त्वसूत्रस्य । न चाधिकरणयोर्विषयवाक्या-
वधारणे विनिगमनाविरह इति वाच्यम् । पूर्वाधिकरणेन्तःपदात् तद्घटितश्रुतेर्द्वागुपस्थितेरय
य एषोन्तरादित्य इत्यस्याः श्रुतेर्विषयवाक्यत्वावधारणं शब्दविशेषादित्यधिकरणे तु अन्तःपदाभावा-
दपहतपाप्मपदघटितश्रुतेः पूर्वाधिकरण एव गतत्वात् हिरण्मयशब्दविशेषघटितश्रुतेरवधारणम् ॥ ७ ॥
संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥ तत्साधनेत्यादि । वक्ष्यमाणभाष्या-
दाहुः सम्यग्भोग इति । वेति विकल्पे । सुखदुःखसाक्षात्कारस्तत्साधनादिपरिग्रहश्चेति भाष्यात् ।
भाष्ये चकारः पुनरर्थे न तु समुच्चये । तत्साधनेति सुखदुःखसाधनानि चक्षुरादीनि आदि-
पदेन तद्विषयाश्च तेषां तत्साधनत्वेन परिग्रहः । व्यापकस्येन्द्रियसंबन्धसत्त्वात् । तथा चानभिनि-
र्वेशवादः । भाष्ये । विशेष इति सर्वरूपत्वं सर्वानुकारित्वेन सर्वेषु रूपाण्यस्येति स्वमात्मा तस्य
कर्तृत्वं 'स आत्मानं स्वयमकुरुत' इति श्रुतेः तस्य भावः सत्ता स ब्रह्मणि वर्तते अन्यथा सर्वेषु रूपाणि
न स्युः आनन्दाश्च सर्वेषु न भवेयुः सर्वाणि रूपाणि न स्युः 'योऽन्यथा सन्तमात्मानमन्यथा प्रति-
पद्यते' इति श्रुतेः । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेः जीवासक्त्यकिं-
चित्त्वात् । न च विशेषादित्येव सूत्रे हेतुरस्तु सत्ताभावे 'नासतो विद्यते भावः' इति स्मृतेः ।
कार्यरूपाणि कार्यानन्दाः कार्यं च न स्यात् । अत एव कार्ये व्यष्टौ न व्याख्यातः न च
६१ ब्र० सू० २० 479
४८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ८
रश्मिः ।
प्रकृतिजन्यबोधे प्रकारो भावः इति वृत्तिस्थानापन्नग्रन्थातिक्रमः शङ्क्यः । सत्ताया एव प्रकृतिजन्यबोधे
प्रकारत्वात् । न च विशेषत्वघटत्वादीनां प्रकृतिजन्यबोधे प्रकारत्वं न सत्ताया इति वाच्यम् । भावे
त्वतलोर्विधानाद्विशेषत्वघटत्वादीनां विशेषघटादिसत्तानतिरेकात् । अनवच्छिन्नत्वं विशेष इति न
ध्याकृतम् । मायिनं तु महेश्वरमिति श्रुतेः, 'विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम्' इति वाक्याच्च
मायानवच्छिन्नत्वाभावात् । 'इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतौ मायेन्द्रियाणि इति
निबन्धेस्ति । न चेन्द्रियानवच्छिन्नत्वं विशेषः प्रकृतेस्त्विति शङ्क्यम् । चक्षुषश्चक्षुरित्यादिश्रुतेः ।
अत्र चक्षुराद्यभिन्नं ब्रह्मेति प्रथतया प्रतिपादनादनवच्छिन्नत्वं सुस्थिरमिति शङ्क्यम् । कर्णशष्कु-
ल