अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 564, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७३
भाष्यप्रकाशः ।
सिद्धत्वाद् वेदोऽपीदमेव द्वयं तादृशाधिकार्यर्थं निरूपयति । अत एव ब्रह्मवाक्येषु सुखादि-
रश्मिः ।
इत्यत्र 'वासुदेवः सर्वमिति' 'ज्ञानवान् मां प्रपद्यते' इति प्रपत्तिः । एतेन प्रपञ्चावव्यभेदज्ञानं
सगुणप्रपञ्चनिवृत्तये व्याख्यातम् । तेन वासुदेवः सर्वमिति प्रपद्यते इति नान्वयः । ननु तथेत्यनेन
मुख्यतयेत्यर्थकेन भक्तिप्रपत्त्योर्मुख्यतया प्रतिपादनोक्तेर्ज्ञानविज्ञानयोगाध्याये ज्ञानविज्ञानयोर्मुख्यतया
प्रतिपादनं न भक्तिज्ञानयोरिति चेत्सत्यम् । मुख्यतया शेषतया प्रतिपादनसत्त्वात् । एकभक्तिर्विशिष्यते
इति वाक्याज्ज्ञानवान् मां प्रपद्यत इति वाक्याच्च । अन्यच्च । उपक्रमोपसंहाराभ्यामर्थो निर्णीतो
भाष्ये पूर्वतन्त्रोक्तोपक्रमोपसंहारयोः पूर्वसूत्र उक्तत्वात् । अत्रोपक्रमे त्वां प्रपन्नमिति प्रपत्तियुक्तत्व-
कथनेनाधिकारिणं प्रति उपसंहारे
'मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः' ॥
इति श्लोकद्वयेन भक्तिप्रपत्ती उक्ते । अत्र मन्मना भवेति मानसी सेवा मद्भक्त इत्यनेन तनुज-
वित्तजसेवे 'यथा मय्येश्वरे मनः' इति वाक्यात् । एतच्च भक्तियोगारूढस्याध्यक्ष 'मय्यावेश्य मनः'इत्यत्रापि
मद्याजी कामनायां सत्यां ज्ञेयः । मुख्यस्यार्हणकर्ता वा वेदोपयोग उक्तः । वेदे ह्येव सुमतीत्यादिषु
सेवाप्रकारसत्त्वात् महीधर्यां स्पष्टमिदम् । मां नमस्कुर्विति वन्दनं न पूजायामन्तर्भवति । एकाद-
शसुबोधिन्याः । अतोत्र पृथगुक्तम् । सेवायाः प्रकाराय सिद्धान्तमुक्तावल्याम् 'तस्माच्छ्रीकृष्ण' इत्य-
नेन स्मरणमुक्तम् । प्रकाराणां बाहुल्यादधिकारिणां च । तथापि फलाव्यभिचारिसाधनं कर्तव्यमिति
सुबोधिन्यामुक्तत्वादाचारसंप्राप्तं कर्तव्यम् । इत्येवं मुख्यतया प्रतिपादनमेव हि भक्तिप्रपत्त्योः ।
पुनरित्यादीति पन स्तुतौ बहुलकादरः । अस्य उकारः 'पुनरप्रथमे' इत्यमरः । तृतीयाया लुक्
अप्रथमेन भक्तिघटितेनाधिकारेणेत्यर्थः । प्रथमाधिकारेण तु शोकापनोदनवान् स चकारेण समु-
चितः अतोपि तृतीयाया लुक् प्रथमाधिकारेणेत्यर्थः । तथाहि । भाष्ये प्रपत्तिरधिकारिशरीरेति
प्रपन्नस्येत्यत्राधिकारो योग्यता स प्रपत्तिघटितो जातोऽतो मुमुक्षुर्वे शरणमनुव्रजेदिति श्रुत्या प्रपन्नस्य
मुमुक्षुत्वसत्त्वात् अर्जुनाधिकारो मोक्षयोग्यता तेन ब्रह्मविद्या गीताशास्त्रं इति श्रीमद्भगवद्गीतासूप-
निषत्सु ब्रह्मविद्यायामिति कथनात् । निरूप्येत्यन्वयः । ननु प्रथममर्जुनाधिकारेण ब्रह्मविद्या
निरूपिता भक्तिप्रपत्त्योर्निरूपणे को हेतुरित्याकाङ्क्षायामाहुः स्वेति । अप्रथमेन भक्तिघटितेनाधिकारेण
स्वेत्यादिः । ब्रह्मविद्यायां साधनचतुष्टयं वैराग्यादिमतोऽधिकाराद्भक्तिघटितोधिकारो नान्त्रेति ।
स्वस्य कृपालुतयेति हेतौ तृतीया भक्तिरूपव्यापारमन्तरेण स्वकृपालुतयाप्याजामिलवन्मोचनसंभवात् न
करणे तृतीया व्यापारनियतत्त्वात्तस्याः । कृपालुत्वं तु 'कृष्णायाऽक्लिष्टकारिणे' इति गोपालतापनीयश्रुतेः ।
'सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति' इति पञ्चमाध्याये । सिद्धत्वादिति पूर्वतन्त्रे षष्ठाध्याये
वेदोक्तकर्माधिकारिणां 'शान्तो दान्त उपरतस्तितिक्षुः' इति श्रुतौ वेदान्तोक्ताधिकारिणां च सिद्धत्वात् ।
द्वयमिति भक्तिप्रपत्तिरूपार्थद्वयम् । तादृशेति भक्तिघटिताधिकार्यर्थम् । अत एवेति द्वयनिरू-
473