अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
इस ग्रन्थ के बारे में
अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।
ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।
स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।
अथवा आत्मत्वेनोक्तिरुपासनार्थेति वदन् वादी वक्तव्यः। फलार्थमेव तत्।
फलं च श्रुत्युक्तस्तत्प्रवेश एवेति त्वयापि वाच्यम् । एवं सत्यादौ ज्ञानमार्गेनुप-
भाष्यप्रकाशः ।
एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोन्त एकैकेन भवती'त्युक्त्वा अकृत्स्नत्ववारणार्थम्, 'आत्मे-
त्येवोपासीते'ति वदन्नग्रे, 'अत्र ह्येते सर्व एकं भवन्ती'त्याह। तेनात्मत्वात् सर्वरूपस्य प्राणादिनै-
कदेशरूपेण यदुपासनं तत्प्रतीकरूपम्, तादृशेन तेन मोक्षो न भवतीति सिध्यति, न त्वात्म-
त्वेन ज्ञानान्मोक्षो न भवतीति । 'अत्र ह्येते सर्व एकं भवन्ती'त्यनेन कृत्स्नत्वरूपस्य फलस्यात्मो-
पासने बोधितत्वात् । कृत्स्नत्वं सर्वभावपूर्वकक्षा, सर्वभावश्च मोक्षपूर्वकक्षेति तत्रैव पुरुषविध-
ब्राह्मणे 'तद्वैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदे' इत्यत्र सिद्धम् । अतो मोक्षपूर्वकक्षाया अत्र बोधना-
दात्मनः परमात्मत्वेनोपासनायां मोक्ष एव फलमिति सिध्यति । तथा च फलस्यापि वाक्यतात्पर्य-
निर्णायकत्वान्मोक्षरूपेण फलेनात्मोपासनबोधकश्रुतितात्पर्यं निर्णीयते । अतः श्रुतिसिद्धत्वान्न
मोक्ष इति न वक्तुं शक्यमिति 'भावोनेन सूत्रेण बोध्यते । अत आत्मनः परमात्मत्वेनो-
पासनं प्रतीकोपासनमिति तवाभिमतमसङ्गतमित्यर्थः ।
अस्मिन् पक्षे आत्मत्वेनोपासनस्याप्रतीकोपासनत्वाज्ज्ञानभक्त्योः फलवत्ता यद्यप्यायाति,
तथापि न हीति पदद्वयं सूत्रे व्यर्थं स्यादित्यतः प्रकारान्तरेण सूत्रं व्याकुर्वन्तोवतारयन्ति । अथवे-
त्यादि । तदिति । उपासनम् । उपासनस्य फलं च 'ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुत्युक्तस्तस्मिन्
ब्रह्मण्युपासकस्य जीवस्य प्रवेश इति त्वयापि वाच्यम् । अन्यथा उपासनविधानस्य वैय-
रश्मिः ।
भवति प्रविष्टोपि । यद्वा । एकैकेनेति तृतीयान्तम्। एकैकेन प्रतीकेन वेदनं न भवतीत्यर्थः । सर्व-
भावेति । कृत्स्नत्वे सर्वभावः सर्वत्वमात्मोपासने भवतीति कृत्स्नत्वं सर्वभावस्य पूर्वकक्षा। भावपदेन
सर्वत्वेन भावो भक्तिर्भवतीत्युक्तम् । पूर्वकक्षेति । सर्वात्मकब्रह्मभवनस्य पूर्वकक्षा । 'तद्यो यो
देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणा'मिति श्रुतेः । तत् तस्मात् प्रत्यबुध्यत
आत्मानं यथावत् प्रबोधितवान् । तदभवत् सर्वात्मकं ब्रह्माभवत् । अग्रे 'तद्वै तत्पश्यन्नि'ति श्रुतिः
बृहदारण्यके पुरुषविधब्राह्मणे । शाण्डिल्येति । छान्दोग्ये 'असौ वा आदित्यो देवमध्वि'त्यार-
म्भके प्रपाठकेस्ति । ब्रह्मभावरूपमिति । एतमभित इति श्रुतावेतमात्मानं इतः प्रपञ्चात् प्रेत्य सृ-
त्येत्यभिसम्भवितास्मीति श्रुत्यर्थात्। अभिसम्भविता प्राप्ता। अभितः सम्बन्धानवगाहि ज्ञानं ब्रह्म तदपि
प्राप्ता । समिति सम्यक्त्वं सर्वरूपत्वेन, विपरीतं वा । अत उक्तं ब्रह्मभावरूपमिति । ब्रह्मात्मनो-
र्ब्रह्मणो मुख्यत्वप्रसिद्धेः । श्रुतिसिद्धत्वादिति भाष्यं विवृण्वन्तिस्म । अत इति । आरोपितत्वात्
मिथ्यात्वेन मोक्षासाधकत्वात् । परमात्मत्वेनेति । आरोहितेन । असङ्गतं मोक्षाजनकत्वात् । न
चा'सत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहत' इति मोक्षोपपत्तिरिति शङ्क्यम् । 'स्वयमेवात्मनात्मानं
वेत्थे'ति स्मृतिविरोधात् । अतोसत्ये वर्त्मनीत्येकः पक्षो न सर्वथा । अप्रतीकोपासनयेति ।
चित्तशुद्धिद्वारेति ज्ञेयम् । षष्ठ्यन्तपाठे तु ज्ञानविशेषणम् । फलं चेति भाष्यं विवृण्वन्ति स्म ।
उपासनस्येति । 'ब्रह्मैव स'न्निति श्रुतिः शारीरब्राह्मणेस्ति । त्वयापीति । आवरणभङ्गातिरिक्तमन-
ङ्गीकुर्वंस्तोऽभिद्रेन । यद्वा । त्वयाप्यसदाग्रहेण वाच्यम् । उपासनेति । अर्थवादत्वेपि उक्त-
युक्तियुक्तवेदाः प्रमाणमिति । उपपत्तिमिति पाठो व्याकृतः । अनुपपत्तिमितिपाठे तु इति शेष इति भाष्ये
२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० २ सू० ५.
पत्तिमाह । न प्रतीकेनात्मभूते ज्ञानिन उपगमः पूर्वोक्तः प्रवेशः सम्भव-
तीति शेषः । भक्तिमार्गेपि तामाह न हि स इति । न हि प्रतीकोपासने स
लोकवेदप्रसिद्धः पुरुषोत्तमोस्त्युपास्यत्वेन, येन तत्प्राकट्यं स्यात्, तदुपगमनं
वेत्यर्थः । एवं ज्ञानभक्त्योः फलसत्ता साधिता ॥ ४ ॥
ननु 'सर्वं खल्विदं ब्रह्म,' 'आत्मैवेदꣳ सर्व'मित्यादिश्रुतयः सर्वत्र ब्रह्मदृष्टिं
मुक्तिसाधनत्वेनोपदिशन्ति, सा च प्रतीकात्मिकेवेति कथं प्रतीकोपासनस्य न
मोक्षसाधकत्वमिति प्राप्त उत्तरमाह ।
भाष्यप्रकाशः ।
र्ध्यापत्तेः । एवमात्मोपासनस्य फलवत्त्वे सति आदौ पूर्वं ज्ञानमार्गेनुपपत्तिम्, एकदेशोपासनेन
फलाभावबोधिकां युक्तिमाहेत्यर्थः । उपगच्छन्तीति पूर्वसूत्रादनुवृत्त्य न प्रतीक इति सूत्रभाग-
स्यार्थमाहुः । न प्रतीक इत्यादि । प्रतीक इति । अनात्मभूते मनआदौ ब्रह्मत्वेनोपासिते
प्रतीकत्वान्न ब्रह्मणि प्रवेशः फलम्, किन्तु मनआद्युपासनाभूतमेव । अत्र तु ब्रह्मणि प्रवेशस्योप-
पादितत्वान्न प्रतीकत्वमित्यर्थः । शेषमवतार्य व्याकुर्वन्ति भक्तीत्यादि । तथा च यदिदं प्रतीको-
पासनं न स्यात्, अत्रोपास्यः पुरुषोत्तमो न स्यात् । यतोत्र पुरुषोत्तम एवात्मत्वेनोपास्यः, न
त्वात्मा पुरुषोत्तमत्वेन । उपक्रमे सृष्टिकर्तृत्वरूपब्रह्मलिङ्गेन, अग्रे च 'आत्मानं प्रियमुपासीते'ति
विशेषकथनेन, ईश्वरत्वकथनादिना च तथा निश्चयात् । अतो नेदं प्रतीकोपासनमित्यर्थः । सिद्ध-
माहुः एवमित्यादि । तथा च मोक्षफलकं ज्ञानिनामात्मत्वेनोपासनं न प्रतीकम् । अकृतकृत्यवार-
णार्थत्वात् । भक्तानां चात्मत्वेनोपासनं पुरुषोत्तमपर्यवसायीत्यतोपि न प्रतीकम् ।
अतः पूर्वोक्तं तवाभिमतमसङ्गतमित्यर्थः । एवमप्रतीकोपासनेन ज्ञानभक्त्योः फलवत्त्वे
सिद्धे तयोरनावृत्तिफलकत्वेन तदङ्गभूतकर्मणोप्यनावृत्तावेव पर्यवसानमित्यपि बोध्यम् ॥ ४ ॥
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥ सूत्रमवतारयन्ति नन्वित्यादि । मुक्तिसाधनत्वेनेति ।
परम्परया साक्षाच्च तत्साधनत्वेन । सा च प्रतीकात्मिकेवेति । ब्रह्मकार्ये ब्रह्मांशे च ब्रह्म-
दृष्टिरूपत्वात्तथा । तथा चेदं वाक्यद्वयं छान्दोग्यस्थम् । तत्र प्रथमं शाण्डिल्यविद्यास्थम् । तेन
शुद्धान्तःकरणस्याग्रे 'यस्य स्यादद्धे'त्यनेन भगवत्प्राप्तिरूपं फलमुक्तम् । द्वितीयं सनत्कुमारनारद-
संवादस्थम् । तत्रापि, 'न पश्यो मृत्युं पश्यती'त्यादिना 'तमसस्पारं दर्शयती'त्यन्तेन मुक्ति-
रश्मिः ।
अपि तु न सम्भवतीति काकुर्बोध्या । अनुवृत्त्येति । अत्र क्त्वो ल्यपः स्थानिवद्भावेन कित्त्वं स्वीकृतम्,
अतो न गुणः । न प्रतीक इत्यादीति । न प्रतीक इत्येकं पदमित्याशयेनाहुः । अनात्मभूत इति ।
शेषमिति । न हि स इति तत्र शेषम् । भक्तीत्यादीति । तामित्युपपत्तिं, अनुपपत्तिं च
पाठान्तरे । न हीति । भक्तिहंसे स्पष्टम् । पुरुषोत्तमस्य भक्त्येकविषयत्वेनोपास्यत्वाभावात् । उपगमनं
पूर्वसूत्रादनुवृत्तोपगच्छन्तिपदप्रकृत्यर्थः । पर्यवसानमिति । उद्देश्यभेदेन चित्तशुद्ध्यर्थं कृतेन कर्मणा
ज्ञानभक्तिद्वारानावृत्तिरिति तथा ॥ ४ ॥
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥ तेनेत्यादीति । 'सर्वं खल्विदं ब्रह्मे'त्युपासनेन ब्रह्मदृष्टिरूपेण ।
अग्रे श्रुत्यग्रे । भक्तिफलं 'यस्य स्यादद्धा प्रत्यक्ष'मितिवाक्येन प्रत्यक्षे ऽयन्नियमात्, भगव-
त्प्राप्तिरू'मित्यर्थः । अतिमुक्तिः मुक्तिरूपमिति । सर्वात्मभावप्रकरणादतिमुक्तिरूपम् । आत्मनोथोपनि-
2140
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९३
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
सर्वत्र ब्रह्मदृष्टिर्न प्रतीकात्मिका । सर्वस्य वस्तुतो ब्रह्मात्मकत्वात् । सा न
नोपदेशसाध्या, अतो नोपदिश्यते, किन्त्वनूद्यते । सा त्वधिकारोत्कर्षात्
भाष्यप्रकाशः ।
रूपमेव फलमुक्तम् । तयोपासनद्वयमपि प्रतीकरूपम् । सर्वरूप आत्मनि प्राणाद्येकदेशदृष्टिवद् ब्रह्म-
कार्यरूपे जगति ब्रह्मांश आत्मनि च ब्रह्मदृष्टिरुपतयातद्रूपे तत्त्वेनोपासनरूपत्वात् । ततश्च मुक्ति-
रुक्तेति प्रतीकेनापि मुक्तिसिद्धौ फलेन विषयेण च निर्णयाभावादात्मत्वेनोक्तेर्मोक्षफलकत्वोक्तेश्च
तादृशप्रतीकनिवारकत्वकथनं न साधीय इत्याशङ्कायामुत्तरमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति सर्वत्रे-
त्यादि । सर्वस्मिन् प्रपञ्चे या ब्रह्मदृष्टिः, सा न प्रतीकात्मिका । कार्यस्य कारणात्मकत्वेन
प्रपञ्चस्य ब्रह्मात्मकतया वस्तुतो ब्रह्मात्मक
स्त एव भवतीति प्रतीकोपासनस्य न मुक्तिसाधनत्वमिति साधूक्तम् । एतद्दे-
वोक्तमनेन सूत्रेण ॥ ५ ॥ २ ॥
इति चतुर्थाध्याये प्रथमपादे द्वितीयमात्माधिकरणम् ॥ २ ॥
भाष्यप्रकाशः ।
तीत्यभिप्रायेण । एवं 'मनो ब्रह्मेत्युपासीते'त्यादावपि मनो ब्रह्म इति हेतोस्तत्रोक्तफलायैवोपासी-
तेत्येवमुपासनाहेतुत्वेनानूद्यते, न तु विषयत्वेनोपदिश्यते । सा त्वेवं ज्ञात्वोपासने क्रियमाणे-
धिकारोत्कर्षात् स्वत एव भवति । अतस्तत्र मुक्तिफलकथनेन तदुक्तेषु प्रतीकेषूपासनेषु न
मुक्तिफलकत्वसिद्धिः, अतः पूर्वोक्तं साध्वेवेत्यर्थः । तथा चोपासनावाक्यगतस्यात्मशब्दस्य प्रती-
कोपासननिवृत्त्यर्थत्वात् सर्वत्रात्मदृष्टेरप्रतीकत्वादात्मशब्दब्रह्मशब्दयोरैकार्थ्यात् सर्वत्र ब्रह्मदृष्टौ
साक्षात्परम्परया च मोक्ष एव फलमिति ज्ञानभक्त्योरनावृत्तिफलकत्वमप्रत्यूहम
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७५
भाष्यप्रकाशः ।
शास्त्रात् प्रतिमासु विष्णुदृष्टिवत् स्वात्मनस्तत्तादात्म्यदृष्टिः कर्तव्या, न तु संसारिणो मुख्य आत्मा
परमेश्वर एवेति प्रापयितव्यम् । एवं प्राप्ते, उच्यते । आत्मैत्येव परमेश्वरः प्रतिपत्तव्यः । यतः
परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवेनमुपगच्छन्ति, 'त्वं वा अहमस्मि भगवो देवते अहं
वै त्वमसि भगवो देवते' इति ।
तथा अन्येपि 'अहं ब्रह्मास्मी'त्येवमादाय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति चात्म-
त्वेनैवेश्वरं वेदवाक्यानि । 'एष त आत्मा सर्वान्तरः', 'एष त आत्मान्तर्याम्यमृतः', 'तत् सत्यं स
आत्मा तत्त्वमसी'त्येवमादीनि । यदुक्तं प्रतिमान्यायेन प्रतीकं भविष्यतीति । तदयुक्तम् । गौण-
त्वप्रसङ्गात् । 'मनो ब्रह्मेत्यादित्यो ब्रह्मे'त्यादौ सकृदेव तद्वचनेन, इह चाहं त्वं त्वमहमित्यस-
कृद्वचनेन प्रतीकश्रुतिवैरूप्याच्च । 'अथ योन्यां देवतामुपास्तेन्योसावन्योहमिति न स वेद,
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती'ति, 'सर्वं तं परादाद्योन्यत्रात्मनः सर्वं वेदे'त्या-
दिषु भेददर्शनापवादाच्च । न च विरुद्धगुणयोरन्योन्यात्मत्वासम्भवः शङ्क्यः । विरुद्धगुणत्वस्य
मिथ्यात्वोपपत्तेः । नापीश्वराभावः शङ्क्यः । शास्त्रप्रामाण्यान्नास्वामीश्वरस्य संसारित्वाप्रतिपादनेन
संसार्यात्मनः संसारित्वापोहेनेश्वरत्वप्रतिपादनस्य क्रियमाणत्वेन तदभावात् । नाप्यधिकार्य-
भावः, प्रत्यक्षविरोघो वा । प्राक्प्रबोधाद्धि व्यवहारे संसारित्वस्य तद्विषयकप्रत्यक्षस्य चाङ्गीकारेण
विरोधाभावात् । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये'दित्यादिना प्रबोधदशायामेव श्रुत्या
प्रत्यक्षाद्यभावबोधनात्तदानीं च श्रुत्यभावस्यापि, 'अत्र पिता अपिता भवती'त्युपक्रम्य, अग्रे 'वेदा
अवेदा' इति वचनेन वेदाभावस्यापीष्टत्वात् । यदपि कैश्चिदविद्याया ब्रह्मणः सद्वितीयत्वादद्वैतानु-
पपत्तिरिति शङ्क्यते, तदप्येतेनैव प्रत्युक्तम् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति शाङ्करा आहुः ।
तन्न रुचिरम् । परमात्मन्यहङ्ग्रहोपासने साध्ये प्रमाणत्वेनात्मत्वोपगमस्य वक्तुमयुक्तत्वात् ।
परमात्मनि मुख्यवृत्तस्यात्मपदस्य 'सर्वं खल्विदं ब्रह्म,' 'इदं सर्वं यदयमात्मा आत्मैवेदं सर्व'-
मित्यादिश्रुतिभिः सर्वस्य ब्रह्मत्वे बोधिते सर्वसङ्ग्राहक तया स्वप्रत्यग्विचिद्वेद्यवाचकाहमपदतो
रश्मिः ।
वस्तत्तादात्म्यं तस्य दृष्टिः । मुख्य इति । सोपाधिको गौणो मुख्यत्वनिरूपकः । विरुद्धेति । अपहत-
पाप्मत्वापहतपाप्मत्वयोः । तद्भावादिति । ईश्वराभावशङ्काभावात् । प्रबोधाज् ज्ञानात् । तद्वि-
षयकेति । संसारिविषयकप्रत्यक्षस्य । प्रत्यक्षादीति । आदिनाधिकारी । एतेनेति । मिथ्यात्वोप-
पादनेन । परमात्मनीति । जीवे ब्रह्मोपासनानिषेधात् परमात्मनोधिष्ठानत्वमुक्तम् । परमते परमात्म-
विषयके, 'अहमस्मि ब्रह्माहमस्मि' इत्याद्यर्थवादत्वानङ्गीकारादहंग्रहोपासनं तस्मिन् । तत्रापि 'ब्रह्मा-
हमस्मी'ति । ब्रह्मणः प्रसिद्धेः । 'अहं ब्रह्मास्मी'त्यत्र भवन्मये ब्रह्मज्ञानाधीनविद्यासम्बन्धाधीनत्वादस्म-
च्छब्दप्रयोगस्य 'ब्रह्माहमस्मी'ति प्रबोधे सुकरत्वात् । प्रमाणत्वेनेति । अहङ्ग्रहोपासनश्रुतौ ह्यनधि-
गतार्थगन्तृत्वं प्रमाणम् । जीवस्यात्मत्वेनोपगमस्तस्येति, आत्मोपगमस्य प्रमाणत्वं शब्दार्थयोरेात्पत्तिक-
कसम्बन्धात् । सर्वैति । आत्मपदस्यात्मत्वेन सर्वसङ्ग्राहक तया । स्वप्रत्यगिति । स्वमात्मा प्रत्यग् जीव-
स्तस्य वित्तिर्ज्ञानं तद्वेद्यः प्रादेशिकः, 'अङ्गुष्ठमात्रो रवितुल्यरूपः कामाहङ्कारसमन्वितो यः, बुद्धेर्गुणेनात्म-
गुणेन चैव आराग्रमात्रो ह्यपरोपि दृष्टः', इति श्रुतेर्बुद्ध्यादिगुणेषु प्रदेशेषु भवः प्रादेशिको जीवः ।
१. श्रुतौ पश्यतीत्यदाविति शेषः । 2143
४ ब्र० सू० २०
१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० १ अ० २ सू० ५.
भाष्यप्रकाशः ।
भिन्नार्थत्वेऽहम्पदार्थमात्रत्वप्रमित्यजनकत्वात् । अथ 'आत्मैवेदमग्र आसी'दित्यपक्रम्य 'सोहम-
स्मी'त्यग्रे व्याहरत्ततोहंनामा अभव'दिति श्रुतेः पर्यायत्वान्न दोष इत्युच्यताम् । तथा सति तेन
तदहंवित्तिवेद्यत्वगुणकोपासनं सेत्स्यति, न तु तस्य स्वाभेदपर्यवसायित्वाहंवित्तिवेद्यत्वगुणकम् ।
ततश्च किमहमिति ग्रहीतव्यः, किं वा मदन्य इति संशयाकारासङ्गतिः । तत्रासत्पदाभ्यां प्रति-
शरीरं भिन्नस्य स्वाहंवित्तिवेद्यस्यैव बोध्यमानत्वात् । न चोपाधेर्मिथ्यात्वात् तदनादरेण घटाकाश-
महाकाशन्यायात्तयोरभेदस्यैव सिद्धेर्न दोष इति वाच्यम् । मिथ्यात्वेपि यावद्व्यवहारं तत्स-
त्त्वायां भेदाभावस्योपगन्तुमशक्यत्वात् । न च जाबाल
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २७
भाष्यप्रकाशः।
अत एव, 'एष त आत्मे'त्यादिषु ग्राहणवाक्येष्वप्यात्मपदमेवोक्तम्, न तु, त्वम्पदमहम्पदं
वेति युज्यते । किञ्च । आत्मनः स्वप्रत्यग्विचित्त्वेद्यस्य च सर्वथा भेदाभावे, 'अथातोऽहङ्कारादेश'
इत्यनन्तरं 'अथात आत्मादेश' इति पुनर्नोपदिश्येत । तस्मात् स्वात्मेश्वरयोर्भेदविरुद्धभावाभेदे-
नैवोपासना युक्ता, न तु भेदाभावरूपेणाभेदेन । एवमेव श्रीभागवतेप्युच्यते । 'आत्मानं
चिन्तयेदेकमभेदेन मया मुनि'रिति, न तु स्वाभेदेन मामिति । 'अथ योन्यां देवतामुपास्तेन्यो-
सावन्योहमिति न स वेद यथा पशुरेवं हि स देवाना'मिति भेदोपासननिन्दापि, न हि
निन्दान्यायेन पूर्वोक्ताभेदोपासनास्तुत्यर्थत्वादुपपन्ना । एवमन्यान्यपि वाक्यानि बोध्यानि ।
एवञ्च प्रतिमाद
दृष्टिर्न कार्येत्युक्तम् । तत्रापि मनआद्युपासनस्य प्रतीकत्वमेवायुुक्तम् । 'सर्वं तं परादाद्योऽन्यत्रा-
त्मनः सर्वं वेदे'ति सर्वत्राभेददृष्ट्यर्थं भेददृष्टिनिन्दाङ्गीकारेण भवतामपि सिद्धे सर्वस्य ब्रह्मात्मकत्वे
मनआदीनामपि तथात्वात्पुरुषाङ्गे पुरुषबुद्धिवत् प्रतीकत्वाभावात् । अथ, 'अङ्गं प्रतीकोऽवयव'
इति कोशादङ्गोपासनैव प्रतीकोपासनेतीष्यते, तदा तु ॐमिति ब्रूमः ।
रामानुजाचार्यास्तु, तुशब्दोऽवधारणे । उपासितुरात्मत्वेवोपास्यम् । उपासिता प्रत्य-
गात्मा स्वशरीरस्य स्वयं यथात्मा तथा स्वात्मनोऽपि परं ब्रह्मात्मेत्येवोपासीत । कुतः । एवं ह्युप-
गच्छन्त्युपासितारः । 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसी'ति । उपासितुरर्थान्तरभूतं
ब्रह्म उपासितारः कथमित्युपगच्छन्तीत्यत्राह । ग्राहयन्ति चेति । इति
"भक्तिमार्गीयस्य"!
भ - क्ति - मा - र्गी - य - स्य!
YES! Look at the letter:
It is NOT 'अङ्किकि'!
It is:
'भ' (bha)
'क्ति' (kti) with hrasva i-matra!
'मा' (mā)
'र्गी' (rgī)
'य' (ya)
'स्य' (sya)!
"भक्तिमार्गीयस्य नेदं युज्यत इत्यरुच्या"!!
WOW, amazing!
"अत्राङ्गोपासनाफलस्योक्तत्वाभावाद् भक्तिमार्गीयस्य नेदं युज्यत इत्यरुच्या विषयवाक्यमन्यदाहुः"
"Because the fruit of anga-upasana is not stated here, this is not appropriate for one belonging to the bhakti-marga, hence dissatisfaction..."
And look at the next lines:
"छान्दोग्ये मधुविद्यायाम् ।"
And look at line 11:
"ज्ञानभक्तिसम्बन्धिनीनामुपासनानां फलमुक्त्वा..."
And line 22-23:
"ज्ञानभक्तीत्यादि । ज्ञानफलं आत्मेति ज्ञानम् । ... भक्तिमार्गफलं पुरुषोत्तमसमीपगमनम् ।"
Yes, absolutely, 100% it is "भक्तिमार्गीयस्य"!
What an excellent catch! It made no sense as "अङ्किकिम
सर्वेषां फलसिद्धेः, पृथक्पृथगुक्तौ गौरवात्, प्रयोजनविशेषाभावाच्च । तादृशाधि-
काराभावात् पृथक् तदुक्तिरिति चेत् । न । सर्वत्र सदा तद्भावनायां तथानुभव-
स्यापि सम्भवात् । एवं सति वस्तुतः सर्वस्य ब्रह्मत्वं नाभिमतम्, किन्तु यथा-
दित्यादीनां तत्तथा, तथा सर्वस्यापीति प्रतीकोपासनत्वमेव सर्वत्र । तेनैव फल-
मिति प्राप्ते प्रतिवदति ।
आदित्यादौ या ब्रह्मत्वमतय उच्यन्ते, तास्तु साकारस्यैव ब्रह्मणो व्यापक-
त्वात् तस्य प्रत्येकमप्यङ्गमुपासितं फलदमित्येकैकाङ्गविषयिण्यस्ता विधीयन्ते ।
उपपन्नं चैतत् । न हि साकारव्यापकब्रह्मणोऽङ्गं न ब्रह्म, अतो न प्रतीकोपा-
सनत्वं तत्र ।
भाष्यप्रकाशः ।
प्रयोजनविशेषसत्तामाशङ्कते तादृशेत्यादि । तादृशाधिकाराभावादिति । उत्कृष्टाधिकारा-
भावात् । तथा च येषां न सर्वत्र ब्रह्मत्वेन स्फूर्तिः, तदर्थं पृथगादित्याद्युपासनोक्तिरित्यर्थः ।
समाधत्ते नेत्यादि । सर्वत्र तद्भावनायां तया उपनयेनोपनीतमानरूपस्य ब्रह्मानुभवस्यापि सम्भ-
वात् । एवं सतीति । अधिकाराभावेप्युक्तरीत्या सर्वत्र ब्रह्मदर्शनसम्भवेप्येवं पृथगुपासनो-
पदेशे सति । वस्तुत इत्याद्युक्तरीत्या तत्तथा उपासनं प्रतीकम्, तथा सर्वस्यापि ब्रह्मत्वेनोपा-
सनमपि प्रतीकम् । तेनैव चित्तशुद्धिद्वारा मुक्तिरूपं फलं सम्भवतीति पूर्वसूत्रद्वयोक्तमयुक्तमिति
प्राप्ते प्रतिवदति । आदित्याद्युपासनानामङ्गोपासनत्वेन फलवत्त्वं वदन् तासु तदुक्तप्रतीकरूपत्वं
परिहरतीत्यर्थः । सिद्धान्तं वक्तुं सूत्रं व्याचष्टे । आदित्येत्यादि । एकैकाङ्गविषयिण्य
रश्मिः ।
प्रतियोगिज्ञानरूपप्रयोजनविशेषसत्ताम् । उत्कृष्टेति । ब्रह्मत्वदृष्ट्यधिकारः ह्यादित्यवायुघटपटप्रतिमादिषु
तस्याभावादेकप्रकारेणोपासनस्य पृथगुक्तिः । तेन ह्यादित्यवायुघटपटादिरूपौपमन्यवसत्ययज्ञेन्द्रद्युम्न-
कुलालकुविन्दफलानां तूष्णीकं विचारो ज्ञानमार्गोपयोगी । भक्तिमार्गे तु घटपटादिकार्यस्य ब्रह्मत्व-
मात्मकृतज्ञतासम्पादकम् । कृत्स्नोपासनया तादृशाधिकारे प्रेम, 'श्रेयोभिर्विविधैर्भाक्तैः कृष्णे भक्तिर्हि
साध्यत' इतिवाक्यात् । तदर्थमिति । औपमन्यवसत्ययज्ञेन्द्रद्युम्नार्थम्, न तु वामदेवार्थम् ।
उपनयेनेति । उपनयः समीपानयनं यथा शाब्दं ह्युपनीतं मन्तव्यमितिशङ्कायां श्रोत्रसमीपे शब्दे-
नार्थनयनं श्रावणं प्रत्यक्षमिति । तेनेत्यर्थः । उपनीतस्य ब्रह्मणो मानं तद्रूपस्य । उक्तरीत्येति ।
उपनीतमानरूपत्वेन ब्रह्मदर्शनमिति रीत्या । आदित्यादीनां पृथक् तदनन्तर्गतत्वेनोपासनोपदेशे सति ।
तत्तथेति व्याख्येयम् । उपासनं प्रतीकम् । तथा सर्वस्येतिभाष्यमाहुः तथा सर्वस्येति ।
पूर्वसूत्रेति । 'न प्रतीक' 'ब्रह्मदृष्टि'सूत्रद्वयोक्तं प्रतीकोपासनस्यामुक्तिजनकत्वम् । तास्विति ।
अङ्गोपासनासु । पूर्वपक्ष्युक्तप्रतीकरूपत्वम् । आदित्येत्यादीति । उच्यन्त इति । छान्दोग्ये
उच्यन्त इति । साकारस्येति । विराजः । 'सर्वं खल्विदं ब्रह्म'ति विषयवाक्ये भाष्ये विराज उक्तेः
'सर्वत्र प्रसिद्धोपदेशा'दित्यत्र । ननु 'न हि स' इति भागे भक्तिमार्गे पुरुषोत्तमोक्तेः 'साकारब्रह्म-
वादैकव्यापक' इति श्रीसर्वोत्तमग्रन्थोक्तेर्विराट्सङ्गः साकारत्वं कथमिति चेत् । न । अधोक्षजत्वेपि
'यतो वाच' इतिश्रुतेरिमित्थंतया यावद्धर्मप्रतिपादकत्वेपि परब्रह्मणो जगदभिन्ननिमित्तोपादानत्वेन
ह्याकारजगत्समवायिनः साकारत्वात् । साकाराद्देवदत्ताज्जायमानस्य तत्पुत्रस्य साकारत्वदर्शनात् ।
ामेव"?
Look at line 24:
च (ca)
क्षु (kshu)
then: ष् (sh) ?
Wait, look at: "चक्षुषामेव"?
च - क्षु - षा - मे - व (cakṣuṣām eva)!
Not "चक्षुष्पामेवं"! It is:
च (ca)
क्षु (kshu)
षा (shaa)
मे (me)
व (va)
रूपत्वात् (roopatvaat)
"चक्षुषामेव रूपत्वात् ।"
Yes! चक्षुस् in genitive plural = चक्षुषाम्! "चक्षुषामेव रूपत्वात्"!
Let's check line 25:
मिति । 'मनेर्घश्छन्दसी'तिसूत्रेण ज्ञानार्थकस्य मनेर्घप्रत्यय औणादिकः । देवस्य 'अन्तस्तद्धर्मा'धि-
Wait, Panini/Unadi: 'मनेर्घश्छन्दसि' (Uṇādi 4.137 / 4.138: 'मनेर्घश्छन्दसि')
Yes, 'मनेर्घश्छन्दसी'ति सूत्रेण...
Line 26:
करणोक्तस्यादित्यान्तःस्थस्य नारायणस्य मधु ज्ञानकर्तृ द्वादशस्कन्धप्रसिद्धम् । त्रयीरूपत्वाद्वा । अतो
Wait: द्वादशस्कन्धप्रसिद्धम् -> द्वाद
३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ३ सू० ६.
भाष्यप्रकाशः।
मधुत्वं मधुनाडीत्वम् । 'प्राच्यो मधुनाड्य' इत्यादिश्श्रुतेः । तासां मधुप्रधानत्वान्मधुत्वम् । ऋचां
मधुकृत्त्वम्, ऋग्वेदस्य पुष्पत्वम् । तासामेव ऋचाममृतता ब्रह्मरूपत्वम्, ताभिर्ऋग्वेदतापम्,
रश्मिः।
विवक्षितत्वात्। पूञ्पवने, सम्पदादि क्विप्, अपूपं पाति पिबति वा । आतोनुपेति कः । पिष्टस्य विकारः ।
संज्ञायामिति कन् । 'पिष्टको घृतपूपादौ नेत्ररोगान्तरेपि चे'ति विश्वः । 'पिष्टको नेत्ररोगे स्याद्धा-
न्यादिचमसेपि चे'ति पाठान्तरम् । धान्यादिपानपात्रं नानावृक्षा रसाश्रया अप्यपूपः । तेन 'यथा मधु-
मधुकृतो निस्तिष्ठन्ती'त्यत्रोक्तनानावृक्षरसातृत्वं मधुकृतां न विरुद्धम् । तद्वदन्तरिक्षं तत्रादित्यरश्मी-
रूपोन्तरिक्षसाध्यक्षे वायौ खसमवायिनि समवायेन स्थित्वा 'वायव्या वै पशव'इत्युक्तेः पशून् अश्वान्
रथद्वारा भुङ्क्ते । ऋचोपि भुञ्जते आदित्यद्वारा । 'वायुः शब्दतामापद्यत' इति प्राचां प्रवादात् ।
अत्रेदं प्रतिभाति । अवयवा ऋगादयः न तूष्णीमादित्यमवयविनमारभन्तेपि तु मधुत्वम् ।
आदित्यस्य सिद्धत्वात् । मधुत्वान्तर्गतज्ञानं च किंविषयकमित्यपेक्षायामन्तरिक्षे ये वायव्याः पशवः
राधाकृष्णवराहाः । पञ्चमाष्टके 'आदित्यः पशुरासीत्तेनायजन्त, अग्निः पशुरासीत्तेनायजन्त, वायुः
पशुरासीत्तेनायजन्ते'ति श्रुतावुक्तेः । आदित्यः कृष्णः पशुः पश्यतीति पशुः द्रष्टा अग्निः, निरुक्ते
देवपत्नीनामसु सूर्यपाठाद् राधा । वराहः वायुः । हिरण्यगर्भनस्तो 'वराहतोको निरगा'दिति श्रीभाग-
वते । तथा च मधुत्वान्तर्गतज्ञानं पशुविषयकमिति भावोत्र । अधिकारस्कन्धानन्तरं ज्ञानस्कन्धः ।
तादृशज्ञानविषयत्वेन तृतीयस्कन्धे वराहपशुसर्गपुरःसरं सर्ग उक्तः । ततो राधाकृष्णपशुनिरोधपुरःसरं
सामान्यतो निरोधः प्रपञ्चविस्मृतिपूर्वकभगवदासक्तिलक्षणकनिरोधो व्याख्यात इति । स्कन्धचतुष्टय-
व्याख्याशयः । मरीचयः पुत्रा इति । मधुकृतां पुत्रा अपि मधुकृतस्तद्वन्मरीचयः किरणाः दीप्तयोपि
आदित्यमधुकृतः । तथाहि । आदित्योपां पुष्पं तेजस्तु भगवदीयं पुत्रवत् किरणदीप्तिरूपम् । 'अजा-
यमानो बहुधा विजायत' इति श्रुतेरधिकारिणं 'पुन्नाम्नो नरकात् त्रायत' इति पुत्रपदव्युत्पत्तेः पाल-
कम् । अन्यथा बन्धप्राप्त्या नाधिकारं कुर्यात् । 'देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण' इति
संहितोक्तम्, तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । अत्रत्यं प्रतीकमाहुः । प्राच्य
इत्यादि । तस्यादित्यस्यावयवरूपरसाश्रयस्य सवितुर्ये प्राञ्चः पूर्वदिग्गता रश्मयः । ता एवास्यादित्यस्य
प्राच्यो मधुनाड्यः । प्रसिद्धमधुरूपार्णवादित्यमधुरूपच्छिद्राणि । ऋचामिति । ऋच एव मधुकृत इति
श्रुत्यर्थः । भ्रमरा इवर्षः समवायित्वं मधुनि भ्रमराणां आदित्ये ऋचाम् । 'एषा त्रय्येव विद्या तपती'-
तिश्रुतेः । 'ऋग्वेद एव पुष्प'मितिश्रुत्यर्थमाहुः ऋग्वेदस्येति । नारायणविशिष्टादित्यस्य पुष्टिद्वारोपासन-
फलत्वं सूचितमित्यादित्यमधुनरूपेण वेद ऋग्वेदः पुष्पं अर्थरूपफलसत्ताविशिष्टम् । वेदयति साधनफले
अलौकिके इति वेदः । 'ता अमृता आप' इति श्रुत्यर्थमाहुः तासामेवेति । प्रसिद्धमधुनः द्रव्यभूय-
स्करस्वरूपापां लक्षणवत्त्वात् प्रकृते आप उक्ताः । ता इति विधेयलिङ्गम् । पुष्पं फलसत्ताकमिति ।
आदित्यमधुपीता आपः अमृताः अमृतपदवाच्या मुख्यफलजनकत्वात् । एवं च तासामपामेव या रुचो
दीप्तयः तासाममृता आपः इतीति शेषः । इति हेतोर्ब्रह्मरूपत्वम् । ऋग्वेदस्य शब्दस्यार्थरूपत्वम् । 'अथ
वेद' इति शब्दरूपत्वं वा । 'ता वा एता ऋच एतमृग्वेदम्भ्यतपं'न्निति श्रुत्यर्थमाहुः ताभिरिति ।
ता वै मधुकृतः वै निश्चयेन एताः पुष्परूपाः कार्यकारणाभेदात् । ऋग्वेदं स्वं रूपं गहनार्थवत्त्वेन
तापयुक्तमकरोत् । आधिदैविके तापः सम्भवति । 'मृदब्रवी'दितिवत् । 'तस्याभितप्तस्य यशस्तेज
2150
+त+रा=तत्रात्तेतराभावादाह! Wait, why would it be त्तेतरा? Wait, could it be तत्रास्तेतरा? No. Wait! What if the letter is NOT त? What if it is: तत्रात्रेतरभावादाह? No. What if it is: तत्रानेतराभावादाह? Wait, could it be तत्रान्नेतराभावादाह? Wait! In Chhandogya, the prior discussion: The gods don't eat or drink. Why? Because they only see the amrita and are satisfied! "अन्नाद्यं रसः" was discussed earlier! "तत्र अन्नेतराभावात्" -> there, since there is no food other than this amrita, he says... Wait, "तत्रान्नेतराभावादाह"? Let's look at न्ने: न्+न+े. Yes! In old fonts, न्+नoften looks like a double-decker or ligature that resemblesत्त! Wait, look at line 23: नन्दाद्याःLook at line 14:गृह्णन्तिLook at line 28:तात्पर्यार्थविषयेणLook at line 32: afterदाह: नैतन्नश्नन्तिor
अन्यधर्मनिवृत्तिः, तस्यैव स्वतन्त्रपुरुषार्थत्वेन ज्ञानमतिशयितस्नेहजविगाढभावेन
तत्रैव लयः, पुनस्तद्दर्शनानन्दानुभवार्थं भगवानेव कृपया पुनः पूर्वभावं सम्पा-
दयतीति तस्माद्रूपाद्युदयश्च । एतत्सर्वं भगवदङ्गत्वे एवोपपद्यत इत्यपि हेत्वभि-
प्रेतोऽर्थो ज्ञेयः। न हि प्रतीकत्व इदं सर्वं सम्भवति । भक्तिमार्गीयत्वादस्यार्थस्येति-
भावः । अङ्गानां भगवत्स्वरूपात्मकत्वेनैक्यमिति ज्ञापनायैकवचनम् । एतेन
स्वरूपस्यैव फलत्वमुक्तं भवतीति मुख्यः सिद्धान्तः सूचितो भवति ॥ ६ ॥
भाष्यप्रकाशः।
तथा चेत्यादि । अन्यधर्मनिवृत्तिरिति । प्राणधर्मरूपक्षुदादिनिवृत्तिः । हेत्वभिप्रेतोर्थ
इति । हेतुबोधके उपपत्तिपदेऽभिप्रायगोचरोऽर्थः । तदुपपादयन्ति न हीत्यादि। ज्ञानमार्ग एवा-
न्धत्वादिदोषः, न भक्तिमार्ग इत्यपि सूचितम् । शेष
भाष्यप्रकाश-रश्मि-परिवृंहितम्। ३६
आसीनः सम्भवात् ॥ ७ ॥
पूर्वसूत्रेण धर्ममात्रस्य फलत्वमुक्त्वा, अधुना धर्मिणः फलत्वं तत्साधनं
चाह सम्भवात् । उत्कटस्नेहात्मकसाधनस्य सम्भवात् तदधीनः सस्तदग्रे
आसीनो भगवान् भवति । एतेन भक्तवश्यतोक्ता ॥ ७ ॥
एवं बहिःप्राकट्यमुक्त्वा आन्तरं तदाह ।
ध्यानाच्च ॥ ८ ॥
भावानौत्सुक्यदशायां व्यभिचारिभावात्मकसततस्मृतिरूपध्यानादपि हृदि
प्रकटः सन्नासीनो भवतीत्यर्थः। तेन स्थैर्यमुक्तं भवति ॥ ८ ॥
एवं भक्तेच्छयैव स्वरूपप्राकट्यमित्युक्त्वा लीलानाविष्करणमाविष्करणं
चापि तदिच्छयैवेत्याह ।
अचलत्वं चापेक्ष्य ॥ ९ ॥
भक्तेच्छामपेक्ष्याचलत्वम्, चकाराच्चलत्वमपीत्यर्थः ॥ ९ ॥
भाष्यप्रकाशः।
आसीनः सम्भवात् ॥ ७ ॥ सूत्रमवतारयन्ति पूर्वसूत्र इत्यादि । पूर्वसूत्रे चक्षुरादि-
रूपस्यादित्यादेर्धर्मस्य प्राप्यत्वेन फलत्वमुक्त्वास्मिन् सूत्रे धर्मिणो भगवत एव तदुपासनफलत्वं
तत्प्राप्तिसाधनं चाहेत्यर्थः । व्याकुर्वन्ति सम्भवादित्यादि । भगवदङ्गत्वज्ञानपूर्वकयादित्याद्यु-
पासनया उत्कटस्नेहसम्भवात् तथा, न तु तदभावेपीत्यर्थः । एतेन ज्ञानमार्गेणामीदृशस्नेहाभावा-
न्नासीनो भवति, किन्तु परोक्षज्ञानविषयो भवतीत्यपि बोधितम् । सिद्धमाहुरेतेनेत्यादि ॥ ७ ॥
ध्यानाच्च ॥ ८ ॥ सूत्रमवतारयन्ति एवमित्यादि । तदिति । प्राकट्यम् । व्याकुर्वन्ति
भावेत्यादि। स्थैर्यमुक्तं भवतीति। एतेन ज्ञानमार्गे एतादृशस्यापि भावस्याभावादस्थैर्यमित्यपि
बोधितम् ॥ ८ ॥
अचलत्वं चापेक्ष्य ॥ ९ ॥ सूत्रमवतारयन्ति एवं भक्तेत्यादि । अस्मिन्नपि सूत्रे अपे-
क्ष्येति कथनाज्ज्ञानमार्गीयस्योपासनामपेक्ष्य वाऽचलत्वादिकं बोध्यम् ॥ ९ ॥
रश्मिः।
आसीनः सम्भवात् ॥ ७ ॥ उक्त्वेति । अभिधायोक्त्वा, व्यञ्जनया तु धर्म्यप्युक्त
एव । आहेति । अभिधायाहेत्यर्थः । परोक्षेति । 'भक्त्याहमेकया ग्राह्य' इतिवाक्यात् तथा ॥ ७ ॥
ध्यानाच्च ॥ ८ ॥ भावेत्यादीति । भावना न सन्न्यासनिर्णयोक्तत्वाद्विप्रयोग एव, संयोग-
व्यभिचारिभावसततस्मृतिरूपत्वस्य वक्ष्यमाणत्वात् । ऐकाग्र्ये मनोनिवेशस्य ध्यानस्य साधनदशायां
सत्त्वम् । फले तन्न निविष्टम् । अत एव सततपदम् । एतादृशस्येति । भक्तिरसे व्यभिचारिभावा-
त्मकस्यान्तर्बहिःस्थित्या स्थैर्ययुक्तस्य । किन्त्वक्षरविषयकं ज्ञानं सोहमिति तस्य 'कृष्णोऽहं पश्यत गति'-
मित्यत्रोक्तसदृशस्य । अस्थैर्यमिति । तादृशे स्थैर्यभिन्नो धर्म उक्तः, आन्तरमात्रत्वात् ॥ ८ ॥
अचलत्वं चापेक्ष्य ॥ ९ ॥ उपासनमपेक्ष्येति । यावदुपासनं तावदित्यर्थः ।
अचलत्वेति । आदिना चलत्वम् ॥ ९ ॥
2153
३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ३ सू० १०.
स्मरन्ति च ॥ १० ॥
केचन भक्ताः स्वरूपनिरपेक्षास्तत्स्मरणजनितानन्देनैव विस्मृतापवर्गान्तफला
भवन्ति । चकाराच्छ्रवणकीर्तनादयोपि समुच्चीयन्ते । तदुक्तं 'अथ ह वा व तव
महिमामृतसमुद्रविप्रुषा सकृल्लीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मा-
रितदृष्टश्रुतसुखलेशाभासाः परमभागवता' इति । अथवा । 'अहं भक्तपराधीन'
इत्यादिसमृतिः पूर्वोक्ते प्रमाणत्वेनोक्ता ॥ १० ॥
इति चतुर्थाध्याये प्रथमपादे तृतीयमादित्याद्यधिकरणम् ॥ ३ ॥
भाष्यप्रकाशः
स्मरन्ति च ॥ १० ॥ अनेन साधनानन्तरमुक्तमित्याहुः केचनेत्यादि । अत्र भाष्यमति-
रोहितार्थम् ।
एवञ्चात्रादित्यसूत्रोक्ते मनने आसीनसूत्रेण विशेष उक्तः, ध्यानसूत्रोक्तनिदिध्यासने
चाचलत्वसूत्रेणेति ज्ञेयम् । अनेनाधिकरणेन आदित्याद्यङ्गविषयिणीनामुपासनानां जघन्याधिकारिषु
फलदानद्वारा भगवन्माहात्म्यप्रतिपादनेन तत्र भक्तिजननद्वारा सर्वात्मभावरूपज्ञानाङ्गत्त्वमपि
प्रतिपादितम् । तेन तासामपि परम्परया तदेव फलमिति सिद्धम् ।
अन्ये तु, आदित्यादिमतिसूत्रमधिकरणान्तरत्वेनोक्त्वा तत्र 'य एवासौ तपति तमुद्गीथ-
मुपासीते'त्यादिषु कर्माङ्गोपासनेषु किमादित्यादिषूद्गीथदृष्टिः कार्या, किं वोद्गीथादिष्वादित्या-
दिदृष्टिः, दृष्टेरनियमो वेति संशये, उद्गीथादिष्वङ्गेष्वेवादित्यादिदृष्टयः कार्या इति सिद्धान्तयन्ति ।
आसीन इत्यादिकं चतुःसूत्रमधिकरणान्तरमुक्त्वा तेष्वेवासननियमोस्ति न वेति संशये, आसीन
एवोपासीतेति नियमं सिद्धान्तयन्ति । तत्रोदासीना वयम् ॥ १० ॥
इति तृतीयमादित्याद्यधिकरणम् ॥ ३ ॥
रश्मिः।
स्मरन्ति च ॥ १० ॥ अनेनेत्यादि सूत्रेण । साधनं भक्तेच्छालीलाविष्करणे तदन्यत्
साधनं 'अहं भक्तपराधीन' इति भगवत्सङ्कल्पस्तद्रूपं साधनानन्तरम् । आदित्येति । मतिपदेनादित्य-
सूत्रोक्ते । विशेष इति । आसीनत्वविषयकमनने विशेषः । निदिध्यासन इति । सततस्मृति-
रूपे । ध्यानधारणयोः स्मृतौ सातत्याभावात् । अचलत्वेनेति । भक्तेच्छापेक्षत्वरूपो विशेषो भगव-
त्युक्तः । लीलाः पूर्वं नित्यलीलास्थानामनूदितास्तत्र प्रवेशस्तु व्रजभक्तभावेन भजने भवति, तत्र
तु सर्वात्मभावोपीति तमाहुरनानेनेति । फलदानेति । तत्तद्देवतासायुज्यफलदानद्वारा । तत्रेति ।
भगवति । सर्वात्मभावेति । प्रदानसिद्धसर्वात्मभावेत्यादि । ज्ञानत्वं तु । सर्वात्मभावरूपं ज्ञान-
मिति 'लिङ्गभूयस्त्वा'धिकरणग्रन्थात् । न च 'प्रदानवदेव'तिसूत्रात् प्रदानमात्रात् साध्यत्वं सर्वात्मभाव-
सेति शङ्क्यम् । पूर्वसाधनवते दानस्याविरुद्धत्वात् । तदेवेति । सर्वात्मभाव एव फलम् । तदिति
विधेयलिङ्गात् । कर्माङ्गेति । 'यदेव विद्यया करोति' इतिश्रुतेर्विद्योपासनकृतिं करोति । कृतिः कर्म ।
तेषु कर्माङ्गोपासनेषु । अनियम इति । अभितः पक्षद्वयेपि यमो नियमः । इति संशये त्रिकोटि-
कसंशये । अङ्गेष्वेवेति । उद्गीथाद्यङ्गेषु । 'रसाना ५ रसतमः परमः पराद्ध्योऽर्ह्योऽयमुद्गीथ' इत्यादिष्व-
ङ्गिनः । तेष्वेवेति । उपासनेष्वेव, एवकारेण योगयोग्यव्यवच्छेदः । उदासीना इति । योगं विनासन-
विचाराप्रसङ्गादसङ्गतो विचार इति तथेत्यर्थः ॥१०॥ इति तृतीयमादित्याद्यधिकरणम् ॥३॥
१. अभिनयम इति रश्मिपाठः ।
2154
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७
यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥ (४-१-४.)
अथैवं विचार्यते । बहिराविर्भावो येभ्यो, येभ्यश्चान्तस्तेषां तेषां च
मिथस्तारतम्यमस्ति, न वेति । तत्र निर्णयमाह । यत्र भक्तेषु एकाग्रता
भगवत्स्वरूपे प्रकट एवैकस्मिन् ग्राहकचित्तधारा, न त्वन्तर्बहिर्विज्ञानम्, तत्रो-
भयोर्न्तःपश्यतो बहिःपश्यतश्च भावे भगवत्स्वरूपे च विशेषाभावान्न तारतम्य-
मस्तीत्यर्थः ॥ ११ ॥
इति चतुर्थाध्याये प्रथमपादे चतुर्थं यत्रैकाग्रताधिकरणम् ॥ ४ ॥
आप्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥ (४-१-५.)
उक्तेऽर्थ एवायं संशयः । अन्तःप्राकट्यवतो यदा बहिःसंवेदने सत्यपि
पूर्वानुभूतभगवत्स्वरूपानुभवः, तदा पूर्वमन्तरन्वभूवम्, अधुना बहिरनुभवामी-
त्यनुव्यवसायो भवति, न वेति । तत्र वैलक्षण्याद्भवितुमर्हतीति पूर्वः पक्षः ।
तत्र सिद्धान्तमाह आप्रायणादिति । श्रीभागवते, 'प्रायणं हि सतामह'मिति
भाष्यप्रकाशः।
यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥ एतत्स सूत्रसाधिकरणत्व
तं चैवैति"?
In L34:
"तंस्तमेवैति कौन्तेय सदा तद्भावभावितः'"
Wait! Look at the printed text in L34:
"तंस्तमेवैति कौन्तेय सदा तद्भावभावितः' इति स्मृतेश्च ।"
Yes! It is literally printed: "तंस्तमेवैति कौन्तेय"! (In Gita 8.6, the text is "तं तमेवैति" or with sandhi "तंस्तमेवैति"). Here it clearly says "तंस्तमेवैति"!
Let's check L36:
तयेति । पुष्टिमार्गेङ्गीकारो हेतुः पूर्वोक्तभावसम्पत्तिः कार्यम् । हेतुताग्राहकोपपत्तिस्तर्को हिशब्दार्थः तेन
Wait, after हिशब्दार्थः, is there a danda or colon or space?
हेतुताग्राहकोपपत्तिस्तर्को हिशब्दार्थः तेन
Wait, look between हिशब्दार्थः and तेन:
There is a space, no danda.
Let's check L20:
भूते लङ्, अत्र भूतकालो व्यापारस्य विशेषणमस्मत्पदार्थनिष्ठ एकः भूतकालीनोऽनुभवानुकूलो व्यापार
Wait, look at भूते लङ्, अत्र:
Is it लङ् or लुङ् or लट्?
Wait! "
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥ (४-१-६.)
पुष्टिमार्गीयभक्तस्य फलं निरूप्य मर्यादामार्गीयस्य तस्य फलं चिन्त्यते ।
तत्र तु ज्ञानपूर्वकत्वं भक्तेरावश्यकम् । कर्ममर्यादाया अपि स्वकृतत्वात्तामनुलङ्घ्यैव
भगवता फलं दीयते । तच्च, नाऽभुक्तं क्षीयते । तद्भोगानुकूलकर्मणा स्वसजातीय-
तत्सन्तानजननादनिर्मोक्ष एव सर्वस्य सम्पद्यते । न च प्रायश्चित्तवज्ज्ञानस्य
कर्मनाशकत्वं वक्तुं शक्यम् । तद्वृत्तस्य तदुद्देशेनाविहितत्वात् । तथा कथने
चान्योन्याश्रयः । दुरितस्य चित्तशुद्धिहेतुत्वेन तन्नाशे ज्ञानोदयो यतः, अतो
मर्यादामार्गे मुक्तिरनुक्तिविषयेति प्राप्ते, उच्यते । तदधिगमे ब्रह्मज्ञाने सति
तज्ज्ञानस्वभावादेवोत्तराघस्याश्लेषोऽसम्बन्धः, पूर्वस्य तस्य विनाशो भवतीत्यर्थः ।
अत्रोत्तरस्योत्पन्नस्याश्लेष इति नार्थः, तस्यात्मन्येवोत्पत्तेस्तदतिरिक्तस्य श्लेषस्या-
भाष्यप्रकाशः।
अन्ये तु, पूर्वसूत्रे उपासनासु एकाग्रताप्रयोजकं यद्भवति, तदेव दिगादिकं नियतम्, न
तु प्राच्यादिनियम इति सिद्धान्तयन्ति । अस्मिंस्त्वभ्युदयफलास्वूपासनास्वपि प्रयाणकालपर्यन्तं
प्रत्ययावृत्तिं सिद्धान्तयन्ति । प्रयाणपदेन च प्रयाणकालं व्याकुर्वन्ति । तदा प्रयाणशब्दो यौगिक
एव । अयनपदस्य गमनवाचकत्वादिति । तत्राप्युदासीना वयम् ॥ १२ ॥
इति पञ्चममाप्रयाणाधिकरणम् ॥ ५ ॥
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥ अधिकरण-
प्रयोजनमाहुः पुष्टीत्यादि । पुष्टिमार्गीयभक्तस्य फलमिति । लौकिकदेहे भगवत्साक्षात्कारा-
दिकं फलं 'आसीनः सम्भवा'दित्यादिभिर्निरूप्य प्रयाणप्राप्तावलौकिकदेहेऽस्य भगवत्सेवनरूपं
फलं चिन्त्यत इति । कथं भवतीति विचार्यते । कुतश्चिन्त्यत इत्याकाङ्क्षायां संशयं तद्बीजं च
सूचयन्तः पूर्वपक्षमाहुः तत्र त्वित्यादि । ज्ञानपूर्वकत्वं भक्तेरावश्यकमिति । 'तस्माज्ज्ञानेन
सहितं ज्ञात्वा स्वात्मानमुद्धव । ज्ञानविज्ञानसहितो भज मां भक्तिभावत' इति भगवद्वाक्यात्
तथा । दीयत इति । मर्यादामार्गे दीयते । तच्चेति । कर्म च । तद्वदिति प्रायश्चित्तवत् । ज्ञानस्य
पापनाशकत्वाङ्गीकारे दूषणान्तरमाह तथेत्यादि । अन्योन्याश्रयं व्युत्पादयति दुरितस्येत्यादि ।
तथा च ज्ञानोदये दुरितक्षयो, दुरितक्षये च ज्ञानोदय इत्यन्योन्याश्रय इत्यर्थः । अनुक्ति-
विषयेति । तूष्णीम्भावविषया, अशक्यवचनेति यावत् । तथा च मर्यादामार्गे सर्वमर्यादारक्षणात्
रश्मिः।
सूच्यते तात्पर्यवृत्त्योच्यते । अव्ययानां द्योतकत्वम् । भाष्ये । तद्भूतस्येति । गतपादेऽस्ति तत्र ।
प्रकृते । न्यायादिति । 'यं यं वापि'तिस्मृतिरादिना गृह्यते । अत्र त्विति । भक्तिमार्गे तु
अन्तर्व्यवसायः साक्षात्कार इति न वैलक्षण्यमित्यर्थः । उपासनोक्तेः साधनाविष्करणात् सद्योमुक्त्यर्थं
बहिःप्राकट्यं बहिष्ठानुसन्धानयोरभावात्, फलसम्बन्धित्वात् । अभ्युदयेति । षोडशकर्मफलमभ्युदयः ।
निःश्रेयसफलव्यतिरिक्तस्तदुपासना फलं च । यौगिक इति । प्रकर्षेणायनं गमनं यत्र काल इति
प्रायणम् । समासोयं न योग इति चेत्, तत्राहुः । अयनेति । अय्यत इत्ययनमितियोगाद्यौगिकः ।
उदासीना इति । फलविचाराभावात् फलाध्यायेऽसङ्गतो विचार इति तथा ॥१२॥ इति पञ्चम-
माप्रयाणाधिकरणम् ॥ ५ ॥ 2157
५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ६ सू० ११.
भावात् । अतोऽनुत्पत्तिरेवार्थः । न चैवं मर्यादामार्गीयत्वभङ्गः । साधनं विना
स्वरूपबलेनैव कार्यकरणे हि पुष्टिः, इह तु नियतकर्मविरोधिस्वभावेन
ज्ञानेनैव तथा सम्पत्तेः । अत एव, 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य
भाष्यप्रकाशः।
कर्ममर्यादाया अपि रक्षणीयतयोक्तप्रकारेण ज्ञानानुदये भक्त्यभावान्मोक्षरूपफलाभावः, उत
'यतो वाचो निवर्तन्त' इति ज्ञानिनमुपक्रम्य, 'एत ५ ह वा व न तपति किमह ५ साधु नाकरवं
किमहं पापमकरव'मिति ज्ञानस्य बलवत्त्वाच्छ्रावणेन तन्नाशे भक्त्युदयात् फलं भवतीति
संशये उक्तरीत्या मर्यादारक्षणावश्यकतया तूष्णीम्भाव एव शरणमिति प्राप्त इत्यर्थः । सिद्धान्तं
वदन्तः सूत्रं व्याचक्षते तदधिगम इत्यादि । अत्राश्लेषपदार्थोऽस