सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

इस ग्रन्थ के बारे में

अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।

ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।

स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।

' - it's 'भा': तद्भानप्रसङ्गेन. Wait, wait, look at 'मा' vs 'भा': in 'भान', 'भ' has the open top with left loop. Here it has a stroke on top, but wait, look at 'मान': in line 15: "तदमानप्रसङ्गेन"? No, look at the letter: it has a loop on the left, but the top bar doesn't cover the left part: that's 'भा'! "तद्भानप्रसङ्गेन".

Line 16:
मशक्यत्वादिति ॥ ४ ॥

Divider line:
रश्मिः ।

Text block 3 (रश्मिः):
Line 18:
श्रुतेः तत्तज्जीवसाक्षिकम् । पदार्था तयोरेकदेशेन शब्देन ज्योतिषा द्रव्यशून्यधर्मः ज्योतिर्मात्रं तेन । तस्येति ।
Wait, "पदार्था तयोरेकदेशेन" or "पदार्थौ"?
Look at line 18: "पदार्थौ तयोरेकदेशेन" - wait, does it have two matras on top?
Let's look at "पदार्थौ": 'र्थौ' has two diagonal strokes on top! Yes, "पदार्थौ तयोरेकदेशेन".
Wait, after "तस्येति ।": is there a hyphen or dash?
There is a dot or dash

८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १ सू० ५.
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥
किञ्चिदाशङ्क्य परिहरति । ननु जीवाय भगवान् सृष्टिं करोति, प्रदर्शयति
च स्वस्य सर्वलीलाम्, अंशाभ्यायम्, कथमस्य दुःखित्वमित्याशङ्क्य, परिहरति
तुशब्दः । अस्य जीवस्यैश्वर्यादि तिरोहितम् । तत्र हेतुः पराभिध्यानात् । परस्य
भगवतोऽभितो ध्यानं स्वस्यैतस्य च सर्वतो भोगेच्छा, तस्मात् । ईश्वरेच्छया जीवस्य
भगवद्धर्मतिरोभावः । ऐश्वर्यतिरोभावादीनत्वं पराधीनत्वम्, वीर्यतिरोभावात्
सर्वदुःखसहनम्, यशस्तिरोभावात् सर्वहीनत्वम्, श्रीतिरोभावाज्जन्मादिसर्वाप-
द्विषयत्वम्, ज्ञानतिरोभावाद्देहादिष्वहंबुद्धिः सर्वविपरीतज्ञानं चापस्मारसहित-
स्येव, वैराग्यतिरोभावाद्विषयासक्तिः । बन्धश्चतुर्णां कार्यः, विपर्ययो द्वयोः,
तिरोभावादेवैवम्, नान्यथा । युक्तोऽयमर्थः । एकस्यैकांशप्राकट्येपि तथाभावात् ।
भाष्यप्रकाशः ।
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥५॥ सूत्रमवतारयन्ति किञ्चि-
दित्यादि । तुशब्दार्थकथनमुखेन तद्विभजन्ते नन्वित्यादि । परिहारं व्याकुर्वन्ति अस्य जीवस्ये-
त्यादि । चतुर्णामिति । ऐश्वर्यादिचतुष्टयतिरोभावानाम् । विपर्ययो द्वयोरिति । अन्यथाज्ञानं
ज्ञानवैराग्यतिरोभावयोः कार्यमित्यर्थः । तत इत्यादिकं व्याकुर्वन्ति तिरोभावादेवैवम्, नान्य-
थेति । ऐश्वर्यादितिरोभावादेव बन्धविपर्ययौ, न तु स्वत इत्यर्थः । युक्तत्वं विवृण्वन्ति एकस्ये-
त्यादि । 'युक्तं भगैः खै'रित्यादिवाक्यात् पूर्णा ऐश्वर्यादयो भगवत्येव । तन्मध्ये एकस्यैश्वर्यादे-
रेकांशप्राकट्येपि 'यत्पादपङ्कजे'त्यादिवाक्यैस्तथानिश्चयेन बन्धाभावात् । तदभावादेव बन्धविप-
र्ययाविति युक्तमित्यर्थः । नन्वानन्दांशतिरोभावादेवैतद्द्वयं कुतो न स्वीक्रियत इत्यत आहुः
रश्मिः ।
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥ तुशब्दार्थेति ।
आशङ्कापरिहारस्तुशब्दार्थः । तत्कथनोपायेनेत्यर्थः । नन्वित्यादि । जीबायेति । भक्ताय साधार-
णाय च । लीलांशब्देन स्वप्रदर्शने यया तथेत्युक्तम् । स्वस्यैतस्येति । यया गोकुलाष्टके तथा ।
शृङ्गाररसमण्डने च । अमुक्तत्वदशायाम् । स्वस्योत्कर्षेण जीवस्य निकृष्टत्वेन च सर्वतो भोगेच्छा ।
'भगवद्धर्मेति । उच्चनीचभावाय । समत्वे लीला न स्युः । दीनत्वमित्यादि । अन्यानुरक्षणाभावात् ।
पराधीनत्वं परोक्तकरणात् । सर्वदुःखेति । अनुभवसिद्धम् । सर्वहीनत्वमिति । 'यथा वृक्षस्य
संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति, यथासिधारां कर्तेव हि तामवक्रामेद्यद्युवे-
युवे ह वा विह्वयिष्यामि कर्तं पतिष्यामीत्येवममृतादात्मानं जुगुप्सेत्' । अत्र कर्मगन्धो यशः । स्वधर्मा-
भावात्सर्वहीनत्वम् । जन्मादीति । लक्ष्यमभावं श्र्यभावो ज्ञापयति । लक्ष्म्यभावात्सत्कर्माभावेन
जन्मादि । आदिना स्वार्थाल्पव्ययः । अहंबुद्धिरविद्यारूपा । एवेति । स्वतो योगव्यवच्छेदकः ।
बन्धेति । दीनत्वादिर्बन्धोऽहंबुद्ध्यादिः स्वरूपविपर्ययः तौ । युक्तत्वमिति । सौत्रहिशब्दार्थम् ।
'भगवत्येवेति । एवकारेण जीवयोगव्यवच्छेदः । यत्पादपेति । आदिना 'वञ्चितोऽहं महाराज हरिणा
बन्धुरूपिणा । येन मेऽपहृतं तेजो देवविस्मापनं मह'दिति प्रथमस्कन्धोक्तम् । तथेति । अस्यार्थो
निश्चयेन बन्धः तस्याभावात् । तद्भावादिति । बन्धाभावाद्बाध्यरूपत्वात् । एवेति । इतरयोग-
व्यवच्छेदकः । नच बन्धाद्वन्धविपर्ययौ न स्यातामिति चेत् । न । बन्धविपर्ययौ न बन्ध इति प्रयोगात्
1622

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८७
आनन्दांशस्तु पूर्वमेव तिरोहितः, येन जीवभावः । अत एव काममयः । अकाम-
रूपत्वादानन्दस्य । निद्रा च सुतरां तिरोभावकर्त्री भगवच्छक्तिः । अतोऽस्मिन्
प्रस्तावे जीवस्य धर्मतिरोभाव उक्तः । अन्यथा भगवत ऐश्वर्यादिलीला निर्विषया
स्यात् । तस्मान्न जीवस्वरूपपर्यालोचनया किञ्चिदाशङ्कनीयम् ॥ ५ ॥
देहयोगाद्वा सोपि ॥ ६ ॥
ईश्वरेच्छयैश्वर्यादितिरोभावं स्वमते निरूप्य, मतान्तरेणापि नियतधर्मवादेन
निरूपयति । देहयोगाद्वा । देहसम्बन्धादेवास्य सर्वतिरोभावः । विपर्ययो वा ।
अपिशब्दान्वयत् । अस्मिन् पक्षे देहवियोग एव पुनरैश्वर्यादिप्राप्तिः । पूर्वस्मिन्
भाष्यप्रकाशः ।
आनन्देत्यादि । पूर्वमिति । व्युच्चरणकाले । द्विविधा हि जीवाः, सदा मुक्ताः, बन्धयोग्याश्च ।
[L

कल्पे विद्यमानेपीति विशेषः । न त्वीश्वरेच्छया विकल्पः ।
कश्चित् परशब्देन देहादिमाह । तदा अभिध्यानयोगयोराकस्मिकता स्यात् ।
'सर्वस्य वशी सर्वस्येशान' इति विरोधश्च ।
कश्चित्तु तस्याभिध्यानात् 'तृतीयं देहभेद' इति श्रुत्यनुरोधेन जीवकर्तृका-

भाष्यप्रकाशः ।

स्फुटीकुर्वन्ति अस्मिन्नित्यादि । नत्वित्यादि । क्वचिदीश्वरेच्छया क्वचिद्देहयोगेनेति विकल्पो
नात्राभिप्रेत इत्यर्थः ।
उक्तव्याख्यानदार्ढ्यार्थं व्याख्यानान्तरं दूषयितुमनुवदन्ति कश्चित् परशब्देन देहादि-
माहेति । देहारम्भकं कर्माहेत्यर्थः । इदं च न प्रसिद्धब्रह्मभाष्यस्थम् । मध्वरामानुजशैवभिक्षुभिः
पराभिध्यानपदे ब्रह्मकर्तृकाभिध्यानस्यैव व्याख्यानात् । अत इदानीमुत्सन्नस्यैव कस्यचिन्मतस्यो-
ल्लेखः । दूषयन्ति तदेत्यादि । आकस्मिकतेति । निर्हेतुकता । तथाच देहारम्भकेन कर्मणा बन्धे
विपरीतज्ञाने चाभ्युपगम्यमानेऽभिध्यानयोगयोर्निर्हेतुकतया तत्पदप्रयोगवैयर्थ्यं स्यात् । बन्धादेः
कर्माधीनत्वे ईश्वरस्य सर्वनियन्तृत्वभङ्गेन 'सर्वस्ये'त्यादिश्रुतिश्च विरुध्येतेत्यत उपेक्ष्यमित्यर्थः ।
शङ्करभास्कराचार्ययोर्मतमाहुः कश्चित्त्वित्यादि । ऐकमत्यादेकवचनेनोल्लेखः । श्रुतिस्तु
श्वेताश्वतरस्था । 'ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः, तस्याभिध्यानात्तृतीयं
देहभेदे विश्वैश्वर्यं केवल आत्मकाम' इति । अर्थस्तु, देवं ज्ञात्वा देवज्ञानेन सर्वेषां पाशानां बन्ध-
कानां पुण्यपापादीनामपहानिर्दाहः, क्षीणैर्दग्धैः क्लेशैरविद्यास्मितादिभिर्जन्ममृत्युप्रहाणिः पुनः
पुनर्जन्ममरणप्रवाहान्निरुत्तिः, तस्याभिध्यानात् परमेश्वरविषयकाच्चिन्तनात् देहभेदे देहनिवृत्तौ, 'देह-
भेदै'रितिपाठे नानादेहैः, तृतीयं विश्वैश्वर्यम्, ऐहिकाचान्द्रादिलोकसम्बन्धिनश्चैश्वर्यादतिरिक्तं ब्रह्म-
लोकसम्बन्ध्यैश्वर्यं भवेदिति शेषः । ततः केवलो ब्रह्मभूत आत्मकामो भवतीति । 'तृतीयंदेहभेदे'
इति पाठे तु ऐहिकात् पारलौकिकाच्च तृतीयो ज्ञानिदेहस्तस्य निवृत्तौ सत्यां विश्वैश्वर्यं प्राप्य ब्रह्म-

रश्मिः ।

शब्दादिति । बन्धदुःखादीति । आदिना षड्गुणतिरोभावः । अस्मिन्नित्यादीति । एवकारो विद्य-
मानदेहयोगव्यवच्छेदकः । विद्यमाने इति । भगवान् व्यासः भगवान्नारद इति प्रयोगात् । कर्माहेति ।
देहस्यादिः कर्म देहादिस्तम् । आदिशब्दो 'न नपुंसक'मिति पुंस्त्वम् । ब्रह्मकर्तृकेति । 'परस्य ब्रह्मणो-
ऽभितो ध्यानं सर्वतो रमणेच्छे'त्यत्र परस्येति कर्तरि षष्ठीति भावः । तत्तद्भाष्यादेवकारः । रामानुज-
भाष्यं यथा (पराभिध्यानात्परमपुरुषसंकल्पादिति) । उत्सन्नस्यैवेति । उत्सन्नप्रच्छन्नशाखामूलत्वस्य
स्मृतिषु प्रसिद्धेः । एवकारः प्रच्छन्नयोगव्यवच्छेदकः । जैमिनिबादरिकाशकृत्स्नौडुलोम्यादिमतानां
भाष्येऽप्रच्छन्नत्वात् । एकदेशिमतं च 'अरूपवदेव हि तत्प्रधानत्वादि'तिसूत्रोक्तम् । अत आहुः कस्यचि-
न्मतस्येति । कर्मपदोक्त्या जैमिनिमतमिति भवेदेवाबधृतिः । निर्हेतुकतयेति । बन्धविपरीतज्ञाने
उत्सन्न क्षीणशक्ति कर्म नामिध्यानयोगयोर्हेतुतामर्हत्यतो निर्हेतुकतया । प्रयोगेति । सूत्रद्वये प्रयोग-
द्वयस्य वैयर्थ्यं स्यादित्यर्थः । सर्वस्येतिभाष्यं विवृण्वन्ति स्म बन्धादेरिति । आदिना विपर्ययः ।
देहयोगश्च । कर्मादीत्यादिना इच्छा विद्या पूर्वप्रज्ञा चेति । 'ईश्वरेच्छयैवैश्वर्यादितिरोभाव'मित्यायुक्त-
भाष्यात् । 'तं विद्याकर्मणी समन्वारेभेते पूर्वप्रज्ञा चे'ति श्रुतेश्च । उल्लेख इति । शङ्करभास्कराचार्य-
योरुल्लेखः कश्चिदितिशब्देन । अविद्यास्मितेति । 'अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा' इति योग-
सूत्रम् । तृतीयत्वं समर्थयन्ति स्म ऐहिकादिति । चान्द्रादीति । आदिनादित्यविद्युल्लोकौ । छान्दोग्य

  • "क्ष" (or whatever it is)
  • "व"
  • "स्था"
    Wait! Is it "अवान्तरेऽस्मिक्स्वस्थाप्रकरणे"? No!
    Wait, look at the image between 'स्मि' and 'प्रकरणे':
    Let's list the glyphs:
  1. 'स्मि'
  2. a glyph that looks like: 'क्ष' or 'न्स्व'?
  3. a glyph: it has a vertical line with aa-matra: wait, it is 'व' with 'स्था'?
    Wait! Look at:
    "अवान्तरेऽस्मि"
    then:
    a character with 'न्' + 'स्व'?
    Wait, look at L29: "जीवेश्वेरानन्यत्वं" -> look at 'श्वे': it has 'श्' and 'वे'.
    Look at L29: "तस्याशङ्का".
    Let's look at line 13:
    "अवान्तरेऽस्मिक्षव्यवस्था-"
    Wait, is it "अस्मिन्र्स्वप्नावस्था-"? No, there is no repha.
    Wait, let's look at:
    "अवान्तरेऽस्मिक्षव्यवस्था-"
    Wait, could it be "अवान्तरेऽस्मिन्र्..."? No.
    Let's search Google Books or known texts for:
    "अवान्तरेऽस्मिन्र्स्वप्नावस्थाप्रकरणे" or "अवान्तरेऽस्मिक्ष
५०                                    श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।             [ अ० ३ पा० २ अ० २ सू० ७.
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥ ( ३-२-२ )
प्रसङ्गाज्जीवस्याज्ञानं निरूप्य सुषुप्तौ केवलमज्ञानं निरूपयितुं स्थानखभावावौ
निरूपयति । एवं श्रूयते । नाडीरनुक्रम्य 'तासु तदा भवति, यदा सुप्तः स्वप्नं न
कञ्चन पश्यति । अथास्मिन् प्राण एवैकधा भवती'ति । तथा 'प्राज्ञेनात्मना सम्प-
रिष्वक्तो न बाह्यं किञ्चन वेद नान्तर'मिति ।
तत्र संशयः । स्वप्नवत् प्रपञ्चसृष्टिं मायिकीमपि भगवान् करोति, न वेति
संशयः ।
तत्र 'य एष सुप्तेषु जागर्ती'त्यत्र जीवस्वापमात्रे भगवत्सृष्टेरुक्तत्वात्, 'स्वप्नं
न कञ्चन पश्यती'त्यत्रापि दर्शनमात्रनिषेधात्, 'न बाह्यं किञ्चन वेद नान्तर'

। तथाच हेतुमति साध्यसत्त्वान्न साधारण्यमित्यनुमानपक्षेपि भाष्यार्थः सुष्ठु ।
प्रकृते । मायिकेति । इयं ज्ञानात्मिका ग्राह्या । 'स्वप्नः सुप्तस्य विज्ञान' इति कोशात्स्वप्नस्य ज्ञान-
त्वात् । जीवस्येति । ननु 'सुषुप्तिस्त्वकामरूपो भगवा'निति 'सुषुप्त्युत्क्रान्ति'सूत्रभाष्यविरोध इति
चेत् । न । 'अकामरूपत्वादानन्दस्ये'त्युभयरूपत्वात् । प्राकरणिक इति । ज्योतिर्मय प्राकरणिकः
हेतुश्चरणाभिधानादिति । एवं व्याख्यान इति । ब्रह्मजीवसाधारण्येन व्युत्पादनसापेक्षतच्छ्रुतिरूप-
हेतुव्याख्याने । अयमर्थः । अन्यत्र तदभावपदेन स्वप्नदर्शनाभावो व्याख्यातः । 'तद्वा अस्यैत'दिति
श्रुतिर्नोक्तेति । लाक्षणिकेति । स्वप्नदर्शने लाक्षणिकता । दर्शनमनुव्यवसाय इत्यपि गौरवग्रस्तः
पक्षः । हृदयदेशादिति भाष्ये ल्यब्लोपे पञ्चमीत्याहुः हृदयेति ।
16

जीवस्य। इन्द्रियाणां च स एव देशः। तत्र निद्रया भगवच्छक्त्या बहिर्दृष्ट्याच्छादने
भगवल्लीलायां तां पश्यति । तत्राप्याच्छादने गाढसुप्तो ज्ञानरहितः क्रियाशक्त्या
अन्तर्भगवन्तं वा प्रविशति । बहिर्नाडीषु वा समायाति । अत एव बृहदारण्यकषष्ठे
'यत्र सुप्तो न कञ्चन कामं कामयत' इति वारद्वयमाह । 'ता वा अस्यैता हिता
प्राप्य स्थिताः । आभ्यन्तर इति । हृदयदेशादाभ्यन्तरः । तामिति । स्वामिकीं भगवल्लीलाम् ।
द्वैविध्ये प्रमाणमाहुः अत एवेत्यादि । तदेव स्फुटीकुर्वन्ति ता वा इत्यादि । तथाच बृहदा-
रण्यके 'यत्र सुप्त' इत्याद्युक्त्वा, किं तत् स्वापस्थानमित्याकाङ्क्षायां 'ता वा अस्यैता हिता नाम
नाड्य' इति पूर्वमुक्त्वा, पुनरपि तथैवोक्त्वा, 'तद्वा अस्यैत'दित्यादिना आत्मरूपं स्थानान्तरमुक्तम् ।
तस्मात् सुषुप्तेर्द्वैविध्यम् । उभयत्रापि कामनाभावाच्च न सृष्टिः, अत एव च न मुक्तावपीत्यर्थः ।
यत्तु, 'तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सुप्तो भवती'ति,
'ताभिः प्रत्यवसृप्य पुरीतति शेत' इति, 'तासु तदा भवती'ति च, 'य एषोऽन्तर्हृदय आकाशस्त-
स्मिञ्छेते' इति, 'सता सोम्य तदा सम्पन्न' इत्यादीनि दहरदृप्तबालाकीयबालाकीयानि विषयवा-
क्यान्युपन्यस्य, किमेतेषां नाडीपुरीतत्परमात्मनां परस्परनिरपेक्षाणां सुषुप्तिस्थानत्वम्, उत
परस्परसापेक्षतयैकस्येति संशये, परस्परनैरपेक्ष्यमयुक्तम् । तथा सति व्रीहियवद्विकल्पापत्त्या पक्षे
बाधापत्तेः । नच नाडीषु सुप्तो भवति, पुरीतति शेते, य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते
इत्येकविभक्तिनिर्देशेनैकार्थत्वात् विकल्पसोचितत्वं शङ्क्यम् । प्रासादे शेते, पर्यङ्के शेते, इत्यादौ
नानार्थत्वसमुच्चयोरप्येकविभक्तिदर्शनेन हेतोः साधारणत्वात् । 'तासु तदा भवति, यदा सुप्तः स्वप्नं
भाष्ये । इन्द्रियाणां चेति । 'मन इन्द्रियनायक'स्तत्रेति तथा । यद्वा । हृदयब्राह्मणे 'एष
प्रजापतिर्यद्धृदयम्, एतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं 'हृदय'मित्युक्त्वा 'एतत्सर्व'मिति सर्वपदार्थमाह । 'हृ
इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद, द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं
वेद, यमित्येकमक्षरमेति स्वर्गलोकं य एवं वेदे'ति । अर्थस्तु, अस्मै ब्रह्मणे स्वाश्चा जीवेन्द्रियाणि
अन्ये विषयाः । मर्यादामार्गीयसर्वात्मभाव उक्तः, अम्बरीषस्येव । निरोधलक्षणग्रन्थोक्तः । 'इन्द्रियाणि
जुह्वती'ति साम्श्रुतेः । अत एवैतत्कारः । भगवच्छक्त्येति । त्रिष्वननन्तरूपभगवच्छक्त्या । अनन्त-
स्यानानन्तानन्दरूपत्वेनानन्दस्य तमःशक्तित्वात् । 'आनन्दाच्च तम' इति सुबोधिन्या द्वितीयनवमाध्याये
सहस्रम् । बहिरिति । सतिसप्तम्यन्तम् । तत्रापीति । खप्नेपि सम्यग्दृष्ट्याच्छादने सति । गाढत्वं
सम्यक्त्वम् । 'प्राज्ञेनात्मना सम्परिष्वक्त' इत्युक्तश्रुतेः । ज्ञानरहित इति । 'न बाह्यं किञ्चन
वेद न चान्तर'मिति श्रुतेः । क्रियाशक्त्येति । 'सम्परिष्वक्त' इतिश्रुतेः । भगवन्तमिति ।
अकामरूपं भगवन्तम् । प्रकृते । स्थानान्तरमिति । नाडीस्थानम् । अन्यत्स्थानं स्थानान्तरम् ।
उभयत्रेति । सुषुप्त्योः । सुषुप्तिस्त्वित्यादिभाष्यर्थः स्फुटः ।
यस्त्वित्यादि । तदेतत्त्सामीपतरवर्ति यत्र यस्मिन्काले सम्यक् अस्तः । ताभिरिति ।
नाडीभिः । तास्विति । नाडीषु । दहरेति । जलीयाः परमाणव इत्यत्रेव छः । पक्ष
इति । नाड्यः तदभाववत्यः तच्छ्रुतेः । आत्मवत् । 'आत्मा तदभाववान् तच्छ्रुतेः नाडीव'दित्यत्र
हृदये स्वप्नदर्शनाभावरूपसाध्ये पक्षे नाडीषु बाधः । पक्षे साध्याभावस्य बाधत्वात् । नानार्थत्वेति ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९३

भाष्यप्रकाशः।
न कञ्चन पश्यति, अथास्मिन् प्राण एवैकधा भवती'ति कौषीतकिश्रुतौ प्राणाख्यस्य परमात्मनो
नाडीसमुच्चयावधारणात् । यत्र पुनः केवलनाडीनामेव सुषुप्तिस्थानत्वेन श्रवणम्, तत्रापि ब्रह्मणः
प्रतिषेधाभावान्नाडीद्वारेण ब्रह्मण एव स्थानत्वस्य युक्तत्वात् । नच द्वारत्वे 'नाडीषु सुप्तो भवती'ति
सप्तमीविरोधः । सञ्चारस्थानत्वेन तदविरोधात् । गङ्गाया सागरं गच्छतो गङ्गायां स्थितिवत्
तदुपपत्तेः । तस्मान्नाडीब्रह्मणोः समुच्चयः । एवं पुरीतद्ब्रह्मणोरपि । पुरीततोपि ब्रह्मप्रक्रियायां
सङ्कीर्तनात् । 'योऽन्तर्हृदय आकाशस्तस्मिञ्छेते' इति प्रकृत्य, 'पुरीतति शेते' इति कथनात् ।
हृदयाकाशस्य ब्रह्मत्वं तु दहराधिकरणे सिद्धम् । पुरीतत्तु हृदयवेष्टनम् । एवञ्च तद्वेष्टितो हृदया-
काशः प्राकारपरिक्षिप्तपुरमिव भवतीति हृदयाकाशे शयने पुरीततोपि समुच्चयो जात एवेति ।
एवञ्च श्रुतिषु स्थानत्रयकथनेपि नाडीपुरीततोर्द्वारमात्रत्वम् । ब्रह्मैव तु सुषुप्तिस्थानमित्युक्तम् ।
तत्र पुरीतत्समुच्चयं त्वनुमन्यामहे । एकवाक्यगतत्वात् । नाडीनां समुच्चयं तु न मृष्यामः ।
बृहदारण्यके ज्योतिर्ब्राह्मणे 'यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति, ता वा
अस्यैता हिता नाम नाड्य इति, अथ यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं
पश्यति, तद्वा अस्यैतदात्मकाममाप्तकाममकाम ५ रूपं तद्यथा प्रियया स्त्रिये'ति नाडीपरमात्मभेदेन
अथशब्दात् प्रकृतच्छेदेन च श्रुतस्य 'यत्र सुप्त'वाक्याभ्यासस्य विरोधात् । अभ्यासप्रकृतच्छे-
दाभ्यां सिद्धे सुषुप्तिस्थानभेदे विकल्पस्यापि प्राप्ततया दुष्टत्वाभावात् । 'ताभिः प्रत्यवसृप्ये'त्युक्ते
नाडीषु सर्पण इवार्थादपि तत्प्राप्तेश्च । एवं सति कौषीतकीये 'अथास्मिन् प्राण एवे'ति वाक्येपि
विकल्पार्थक एवाथशब्दो ग्राह्यः । आनन्तर्यार्थकत्वेपि पूर्वापरकालभेदस्य प्राप्तत्वेन पूर्वकालिकस्य
नाडीषु सुष्वापस्याबाधात् । अपरकालिकस्य प्राण एकीभावस्यापि भगवदिच्छाकृतप्रत्यवसर्पणतः
रश्मिः।
समुच्चयस्तु प्रासादे शेते, ततः प्रत्यवसृत्य पर्यङ्के शेत इति । एकविभक्तिः सप्तमी । हेतोः तच्छ्रुतिरूपस्य
साध्याभाववत्यात्मनि सत्त्वेन साधारणत्वात् । नाडीति । तास्वितिषदोक्तनाडीसमुच्चयावधारणात् ।
अथेत्यस्यानन्तर्यार्थत्वात् । यत्रेति । 'आसु तदा नाडीषु सुप्तो भवती'त्यादौ । प्रकरणाभावादे-
वकार आत्मव्यवच्छेदकः । ब्रह्मण एवेति । एकवाक्यतासम्भवादेवकारः साक्षान्नाडीव्यवच्छेदकः ।
सप्तमीति । किन्तु नाडीभिः सुप्तो भवतीति तृतीयापत्तिरित्यर्थः । सञ्चारेति । समस्तो जीवो नाडीषु
सञ्चरतीति तथा । तद्विरोधात् सप्तम्यविरोधात् । गच्छत इति । काष्ठादेः । समुद्रे गच्छतः
काष्ठादेः गङ्गायां समुद्रधारायां काष्ठादिर्गच्छतीति प्रयोगात् । तदुपपत्तेः । सप्तम्युपपत्तेः । नाडीब्रह्म-
णोरिति । नाड्यात्मनोः । कथनादिति । दहरस्य परमात्मत्वनिर्णयात् । अन्तर्हृदय आकाशो दहरः ।
हृदयेऽन्तराकाश इत्यन्वयः । हृदयवेष्टनमिति । भास्करभाष्येप्येवम् । हृदयाकाश इति । ब्रह्मपुरम् ।
तदाहुः प्राकारेति । प्राकारो हर्म्यं परिक्षिप्तः यत्र पुरे तद्वत् । जात एवेति । उक्तदृष्टान्तादेवकारः ।
ब्रह्मैवेति । नाडीपुरीततोर्व्यवच्छेदकैवकारः । सुषुप्तिस्थानभेद इति । नाड्याकामजीवरूपसुषुप्ति-
स्थानभेद इत्यर्थः । दुष्टत्वेति । अयमग्रे विचारयिष्यते । ताभिरिति । नाडीभिः सह जीवः ।
प्रत्यवसृप्येत्युक्ते नाडीषु सर्पणम् । पुत्रेण सह तृणं स्पृष्ट्वा गतः पितेत्यत्र पुत्रे तृणस्पर्शवत् । अर्थादा-
क्षेपादपि तत्प्राप्तेर्विकल्पप्राप्तेः । विकल्पस्तु नाडीपुरीततोः । विकल्पार्थक एवेति । कोशादेवकारः ।
नन्वष्टदोषदुष्टविकल्पार्थं विकल्पार्थत्वं न युक्तमत आहुः आनन्तर्येति । पूर्वेति । अनन्तरस्य काल-

1629

९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० २ सू० ७.
सुखेन सिद्धेश्र । न च नाडीस्वापवाक्ये ब्रह्मणोऽप्रतिषेधात् प्राप्तिरिति वाच्यम् । आभ्यासिकभेदा-
देवार्थात् तत्प्रतिषेधसिद्धेः । अन्यथा तद्वैय्यर्थ्यप्रसङ्गस्य दुर्निवारत्वादिति । एवञ्च सुप्तापोत्तर-
कालीनस्मरणेपि कदाचित् सुखस्य स्वापविशेषणतया भानं कदाचिच्च नेत्यपि युज्यते । न च नाडीषु
स्वापे प्रपञ्चदर्शनप्रसङ्गः । सुषुप्तौ कामाभावश्रावणेन मनसो लयावगमात् करणाभावेन मायिक-
प्रपञ्चानुत्पत्त्या बाह्यस्य च विप्रकृष्टतया करणलयेन च तदप्रसङ्गात् । अतो न दर्शनाभावार्थमपि
सत्सम्पत्त्यपेक्षा । किञ्च । सूत्रकारस्यापि सुषुप्तिद्वैविध्यमेवाभिप्रेतम् । अन्यथा 'तदभाव आत्मनि
तच्छ्रुते'रित्येव सूत्रयेत् । तावतैव द्वैतदर्शनाभावपाप्मसंसर्गाभावयोः सिद्ध्या नाडीचकारयो-
र्निर्देशस्य वैयर्थ्यात् । तेनैतत् सिद्धम् । नाडीपरिवर्तने स्वप्नदर्शनम् । तासां प्रान्तभागे पुरीत-
त्निकटे सुषुप्तिः । पुरीतदन्तर्हृदये आकाशे सत्सम्पत्तिरिति ।
ननु भवत्वेवम्, तथापि विकल्पस्य कथमदुष्टत्वमितिचेत् । उच्यते । विकल्पे हि प्राप्तप्रामा-
ण्यपरित्यागः, अप्राप्तप्रामाण्यस्वीकारः, परित्यक्तप्रामाण्यस्वीकारः, स्वीकृतप्रामाण्यपरित्यागश्चेति
विशेषणत्वादिति भावः । आभ्यासिकेति । 'यत्र सुप्तो न कञ्चन कामं कामयत' इति वारद्वयमाह,
अतो 'यत्र सुप्त' इति वाक्याभ्यासिकभेदात् । अभ्यासस्य भेदकत्वं पूर्वतन्त्रेस्ति । एवकारेण प्रकृत-
च्छेदयोगव्यवच्छेदः क्रियते । तत्प्रतीति । ब्रह्मणः 'योन्तर्हृदयआकाशस्तस्मिञ्छेते' इति श्रुत्युक्तस्य
प्रतिषेधसिद्धेः । ननु नञाभावात्कुतस्तत्प्रतिषेधसिद्धिः, अत उक्तं अर्थादिति । आक्षेपात् । ननु
किमर्थं नञार्थप्रतिषेधाक्षेप इत्यतो युक्तिमाहुः अन्यथेति । तद्वैय्यर्थ्यप्रसङ्गस्याभ्यासिकभेदवैय्यर्थ्य-
प्रसङ्गस्य । तथाचाभ्यासिकभेदवैय्यर्थ्यप्रसङ्गन्निवारणार्थमित्यर्थः । सुषुप्तापेति । 'सुखमहमस्वाप्सं न
किञ्चिदवेदिष'मिति स्मरणे । कदाचिच्चेति । सुखसहचरितदुःखाभावकालो यदि । चिन्नद्यर्थकम् ।
मनस इति । कामरूपवृत्तिमतो मनसः । करणाभावेनेति । 'यथा शयानः पुरुषो मनसैवात्म-
मायया । सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासत' इत्युक्तश्रीभागवतवाक्यात् । तदप्रसङ्गात् प्रप-
ञ्चदर्शनाप्रसङ्गात् । अपीति । पूर्वं सुषुप्तौ प्रपञ्चसतार्थं सत्सम्पत्तिः स्वाप्ययसम्पत्तिसूत्रोपन्यासे-
नोक्ता । तथाच सत्सम्पत्तिश्रुत्युपन्यासो विषयश्रुत्युपन्यासे समाप्तपुनरात्तत्वदोषग्रस्त इति भावः ।
एवेति । नाडीषुपदस्य चशब्दस्य चोपादानादेवकारः । द्वैतदर्शनेति । तथाच भाष्यं 'नाडीषु
सुप्तो भवती'त्युक्त्वा 'तन्न कश्चन पाप्मा स्पृशती'ति । ब्रह्मसम्पत्तिश्च पाप्मसंसर्गाभावे हेतुः समधि-
गतः । 'सर्वे पाप्मानो निवर्तन्ते अपहतपाप्मा ह्येष ब्रह्मलोक' इत्यादिश्रुतिभ्यः । ब्रह्मसम्पत्त्या द्वैतदर्शना-
भावोपि । पाप्मसंसर्गाभावोपि विवृतः । स्वप्नदर्शनसुषुप्तिद्वयविवेकमाहुः तेनैतदिति । प्रान्तभाग
इति । 'ताभिः प्रत्यवसृप्य पुरीतति शेत' इति श्रुतेः । पुरीतन्निकट इति । तेन 'पुरीतति शेते'
इत्यत्र सामीप्ये सप्तम्युक्ता । सति सम्पत्तिरिति । 'आत्मनि चे'त्युक्ता सुषुप्तिरपीयम् । कथमिति ।
शाङ्करप्रश्नः । श्रुतीनां विरोधे विकल्प इति मन्वङ्गीकारात्तत्समादधतिस्म विकल्पे हीति । 'नाडीषु सुप्तो
भवतीति,' 'पुरीतति शेते,' 'य एषोन्तर्हृदय आकाशस्तस्मिञ्छेते' इति । 'एतदेकवाक्यतापन्ने नाडी-
परिवर्तन' इत्याद्युक्ते वाक्ये । विकल्पे हि अष्टौ दोषाः । 'तस्मादात्मैव सुषुप्तिस्थान'मिति शाङ्करभाष्ये
समुच्चयोज्झीकृतः, तत्र नैकोपीति तान् गणयन्तिस्मानुवादरूपात् । प्राप्तेति । 'इषेत्वेति शाखां छिनत्ती'-
त्यनेन क्षशयन्नस प्राप्तत्वात् । शाखा क्षशय्येति व्याख्यानात् । अप्राप्तेति । वैदिकत्वेनाप्राप्तमप्रामाण्यं
तस्य स्वीकारः । परित्यक्तेति । अर्थबोधार्थं तया । गौणं प्रामाण्यम् । स्वीकृतेति । तदर्थमेव
१. सबिस्वत्र रश्मौ सतीति पाठः । २. मीमांसक ।
1630

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५
नाम नाड्यः', 'तद्वा अस्यैतदात्मकाम' मिति भेदेन । सुषुप्तिस्तृभयत्र । ज्ञानशक्तेः
सर्वथा तिरोधानात् । तस्मात् सुषुप्तौ न प्रपञ्चसृष्टिः ॥ ७ ॥
इति तृतीयाध्याये द्वितीयपादे द्वितीयं तदभावो नाडीष्वित्यधिकरणम् ॥ २ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥ ( ३-२-३ )
प्रबोधे सन्देहः । 'प्रतियोन्याद्रवति बुद्धान्तायैवे'ति जीवसमानधर्मब्रह्म-
भाष्यप्रकाशः।
ब्रह्मवाक्यकोटौ दोषचतुष्टयम् । एवं नाडीवाक्यकोटौ दोषचतुष्टये व्रीहियववाक्यद्वयोजितेऽष्टौ
दोषा इति हि भवतां मतम् । तत्र प्रामाण्याप्रामाण्ययोः स्वरूपं विचारणीयम् । किं सदर्थबोधकत्वं
प्रामाण्यम्, असदर्थबोधकत्वमप्रामाण्यम्, उत बोधकत्वं प्रामाण्यम्, अबोधकत्वमप्रामाण्यम्,
अथवा अनुष्ठापकत्वं प्रामाण्यम्, अननुष्ठापकत्वमप्रामाण्यमिति । तत्र नाद्येन । वाक्यद्वयेनापि
सदर्थबोधस्य जायमानतया तत्यागास्याभावेनासदर्धबोधकत्वस्य काप्यनङ्गीकारेण तत्कृतदोषाणा-
मत्राभावात् । अत एव न द्वितीयेन । नापि तृतीयेन । वाक्यद्वयस्यापि सिद्धार्थपरतया अनुष्ठाप-
कत्वस्याभावेन त्याज्यत्वस्य तत्रायोगात् । अननुष्ठापकत्वस्य सर्वसम्मतत्वेन विकल्पानङ्गीकर्तृमतेपि
तुल्यतया तत्र पर्यनुयोगानवकाशात् । तस्मात् पूर्वोक्तमनवद्यम् ॥७॥ इति द्वितीयं तदभावो
नाडीष्वित्यधिकरणम् ॥ २ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥ अधिकरणप्रयोजनमाहुः प्रबोधे सन्देह इति । तथाच
तन्निरासायेदमधिकरणमित्यर्थः । विषयवाक्यमाहुः प्रतियोनीत्यादि ।
इदं बृहदारण्यकीयज्योतिर्ब्राह्मणस्थम् । 'स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा
दृष्ट्वैव पुण्यं च पापं च प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैवे'ति । अर्थस्तु, स प्रकृतो जीवात्मा
रश्मिः।
वेदान्ताधिकरणमालायां तु 'यदा जीवो नाडीषु शेते, तदा पुरीत्तद्ब्रह्मवाक्ययोः प्राप्तं प्रामाण्यं परित्यक्तं
स्यात् । अप्राप्तं प्रामाण्यं चाङ्गीक्रियेत । यदा पुनः पुरीत्तद्ब्रह्मणोः शेते, तदा पुरीत्तद्ब्रह्मवाक्ययोः
पूर्वत्यक्तं प्रामाण्यं स्वीक्रियेत । पूर्वस्वीकृतं चाप्रामाण्यं परित्यज्येतेति प्राप्तपरित्यागोऽप्राप्तस्वीकारस्त्यक्त-
स्वीकारः स्वीकृतत्यागश्चेति दोषचतुष्टयं पुरीत्तद्ब्रह्मवाक्यकोटौ । तथा नाडीवाक्यकोट्यामपि दोषचतुष्टये
योजिते सत्यष्टौ दोषाः सम्पद्यन्त' इति । एवमिति । ब्रह्मवाक्योक्तप्रकारेण । व्रीहीति । एकपुरोडा-
शार्थत्वं व्रीहियवयोर्दृष्टम्, तद्वाक्ये तु 'व्रीहिभिर्यजेत यवैर्यजेते'ति च । तद्वत्सुषुप्त्यर्थत्वं ब्रह्मवाक्यनाडी-
वाक्ययोरिति ब्रह्मवाक्य इव नाडीवाक्ये दोषचतुष्टये योजिते भवतां शाङ्कराणां मतम् । अत्र वितण्डा-
माहुः सदर्थेति । प्रमाकरणं सदर्थबोधकं तत्त्वं प्रामाण्यमित्यर्थः । बोधकत्वमिति । अनधिगतार्थ-
गन्तृत्वम् । वाक्यद्वयेनेति । विकल्पसङ्ग्राहकेण 'तासां प्रान्तभागे'त्याद्युक्तेन समुच्चयकसङ्ग्राहकेण ।
'तस्मादात्मैव सुषुप्तिस्थान'मिति शङ्करभाष्यवाक्येन च । कापीति । प्रमाणलक्षणत्वेनोक्तव्याख्या-
कत्वेन च क्वापि । अत्रेति । प्रामाणिकविकल्पे । अतएव काप्यनङ्गीकारादेव । सिद्धार्थेति । नतु
साध्यार्थामिष्टोमवत्साध्यार्थपरतया । तत्रेति । अनुष्ठापकत्वाभावे । तत्रेति । विकल्पे । 'यत्रोभयोः
समो दोषः परिहारश्च तत्समः । नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारण' इत्युक्तेः ॥ ७ ॥ इति द्वितीयं
तद्भावो नाडीष्वित्यधिकरणम् ॥ २ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥ प्रतियोनीत्यादीति । जीवसमानधर्मं ब्रह्म तस्य प्रकरणे ।
1631

९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० ८.
प्रकरणे निरूपितम् । ततो नाडीभ्यः पुनर्हृदयदेशं गत्वा, भगवतो वा समागत्य,
जागर्तीति, आहोस्विद्यत्र स्थितः, तत एव जागर्तीति ।
तत्र श्रुत्यनुरोधात् हृदयदेशमागत्य जागर्तीत्येवं प्राप्ते, उच्यते ।
अतो नाडीभ्य एव प्रबोधः । गर्तपतितस्य प्रबोधे हि ततो गमनम् । प्रतियो-
भाष्यप्रकाशः।
वै निश्चयेन एषः स्वयंज्योतिः। एतस्मिन् सम्प्रसादे सम्यक्प्रसीदत्यस्मिन्निति सम्प्रसादः सुषुप्ति-
स्थानं तस्मिन् सम्प्रसादे रत्वा क्रीडित्वा सता सम्परिष्वज्य, चरित्वा 'चर गतिभक्षणयोः'
तदानन्दं भुक्त्वा, दृष्ट्वैव पुण्यं च पापं च। चकारात् तदुभयफलभूते सुखदुःखे स्वाप्ने नाडीष्व-
नुभूय, प्रतिन्यायम्, आयो गमनं नितरामायो न्यायः पूर्वस्मात् गमनात् प्रातिकूल्येन गमनं प्रति-
न्यायः, तद्यथा स्यात् तथा, प्रतियोनि, यतः सम्प्रसादे समागतस्तत्स्थानं योनिस्तल्लक्षीकृत्य
आद्रवत्यागच्छति बुद्धान्ताय जागरणायेति ।
अन्ये तु, रमणं स्वरूपानन्दानुभवः। 'आनन्दभु'गिति श्रुतेः। चरणं सुषुप्तावीश्वर-
सम्पत्तिः। 'सता सौम्य तदा सम्पन्नो भवती'ति श्रुतेः। पुण्यदर्शनं त्वानन्दानुभवः। तस्य
तत्फलत्वात् । सुखमहमस्वाप्समित्यनुभवात् । पापदर्शनं त्वज्ञानानुभवः। तस्य तत्फलत्वात्। न
किञ्चिदवेदिषमित्यनुभवादिनेति श्रुतेरित्याहुः । तदग्रे विचारणीयम् ।
संशयाकारमाहुः तत इत्यादि । भगवतो वा समागत्येति । भगवतः सकाशाद्
हृदयदेशं समागत्य ।
पूर्वपक्षमाहुः तत्रेत्यादि । श्रुतौ 'चरित्वा प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्ताये'ति
गमनार्थकधातूत्पन्नक्त्वाप्रत्ययेन प्रतियोन्याद्रवणात् पूर्वकाले गमनं श्राव्यते । अतस्तदनुरोधात्
स्वस्थानं हृदयदेशमागत्यैव जागर्तीत्येवं प्राप्त इत्यर्थः ।
सिद्धान्तं व्याकुर्वन्ति अत इत्यादि । श्रुतौ हि प्रतिन्यायमाद्रवणमुक्तम् । तच्चागमन-
क्रियारूपम् । तादृशी च क्रिया न जागरणं विनोपपद्यते । अतः प्रतिकूलागमनरूपाज्जागरण-
रश्मिः।
सुषुप्त्युत्क्रान्त्यधिकरणे स्फुटम् । न्यायशब्दं व्युत्पादयन्तिस्म आय इत्यादि । योनिर्बीजम् । गमना-
दिति । हृदयान्नाड्यात्मनो गमनात् । प्रातिकूल्येन नाड्यात्मभ्यां हृदये गमनम् । भगवत इति ।
'आत्मनि चे'ति सूत्रांशेन भगवान् स्थानत्वेनोक्तस्तस्मात् । भाष्ये । यत्र स्थित इति । नाडीषु
भगवति च । एवकारः प्रतिन्यायव्यवच्छेदकः। प्रकृते। तत्रेतिभाष्यशब्दार्थमाहुः श्रुताविति ।
प्रतियोनीति । यतः सम्प्रसादे समागतस्तत्स्थानं योनिस्तल्लक्षीकृत्याद्रवत्यागच्छति तस्मात्प्रतियो-
न्याद्रवणात् पूर्वकाले चरित्वेति गमनं विषयश्रुतौ श्राव्यते । अत इति । उक्तार्थवाचकपदघटित-
त्वात् । तदनुरोधाद्विषयश्रुत्यनुरोधात् । स्वस्थानं जीवस्थानम् । आगत्यैवेति । भाष्य
एवकारो नास्ति, परं पूर्वपक्षिप्रौढ्योक्तः । पुरीतन्नाडीब्रह्मयोगव्यवच्छेदकः । प्रतिन्यायमिति ।
'प्रतिन्यायं प्रतियोन्याद्रवती'त्यनेनोक्तम् । आगमनेति । आद्रवतीत्यस्यागच्छतीत्यर्थात् । न
जागरणमिति । 'बुद्धान्ताये'त्युक्तजागरणं फलरूपप्रवर्तकं विना नोपपद्यते । 'प्रयोजनमनुद्दिश्य न
मन्दोपि प्रवर्तत' इति वाक्यात् । अतः प्रतीति। फलस्य विवक्षणात् । प्रतिकूलागमनं हृदया-
गमनं तेन रूप्यते व्यवह्रियते यद्बुद्धान्तरूपं जागरणं इन्द्रियैर्विषयग्रहणं तस्मात्फललिङ्गात् । अत
इत्यावर्त्तते । अतो नाम नाडीभ्य एव प्रबोध इत्यर्थः । एवकारो हृदययोगव्यवच्छेदकः । एवकारस्य
1632

न्याद्रवणं तु भगवत इति । किञ्च । प्रबोधोऽस्मात् । अस्मादात्मनः सकाशादेव
प्रबोधः । प्रिययेव सम्परिष्वक्तस्य बोधाभावे कथमागमनम् । अत एव सम्परि-
ष्वक्तो निबिडनिद्रः । तस्मात् यत्रैव तिष्ठति, तत एव प्रबोध इति सिद्धम् ॥ ८ ॥
भाष्यप्रकाशः ।
लिङ्गान्नाडीभ्य एव प्रबोधः । युक्तं चैतत् । गर्तपतितस्य प्रबोध एव ततो गमनं लोके यतो
दृश्यते । न च 'चरित्वे'त्यस्य विरोधः । 'चर गतिभक्षणयो'रिति भक्षणार्थस्यैव तत्र ग्राह्यत्वात् ।
'आनन्दभु'गिति श्रुत्या भोगस्य तत्रोक्तत्वादिति । नच तत्र प्रबुद्धोऽन्यत्र कुतो न गच्छतीति
शङ्कनीयम् । श्रुत्यन्तर इन्द्रियाणां यथास्थानं विप्रतिष्ठावदत्र जीवस्य प्रतियोन्याद्रवणं भगवत
एव । तस्यैव प्रेरकत्वात् । किञ्च । प्रतियोन्याद्रवणवत् प्रबोधोपि भगवद्धेतुकः । न हि स
कर्मणेति वक्तुं शक्यम् । 'अनन्वागतं पुण्येनानन्वागतं पापेने'ति श्रुतेः । किञ्च । तत्र प्राज्ञेन
सम्परिष्वक्तः प्रियया स्त्रियेव । न हि तादृशस्य बोधाभावे ततो निर्गत्यागमनं सम्भवति । अत
एव सम्परिष्वक्तो निबिडनिद्रः । यदा हि भगवता परिष्वङ्गस्त्यज्यते, तदायं प्रबुध्यते । प्रति-
योन्याद्रवति च । एवं सति तदभिप्रायाण्येव 'सत आगत्य न विदुः सत आगच्छामह' इत्यादीनि
वाक्यानि । न तु स्थानान्तराभावाभिप्रायाणि । स्थानान्तरसद्भाव उपपत्तेरुक्तत्वा

९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० ९.
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
किञ्चिदाशङ्क्य परिहरति । ननु प्रिययेव प्राज्ञेनात्मना परिष्वक्तस्य ब्रह्मलोकं
गतस्य प्रबोधेन ज्ञाने मुक्त एव भवेत्, न तु पुनरागच्छेत्, अतो भगवदिच्छया
देहनिर्वाहाय तत्स्थाने नियुक्तोऽन्य एव जीवः समायातु, अन्यतः प्रबोधे तु स
एव, व्यवहारस्तु तावता सेत्स्यति, मुक्त्यर्थं प्रयत्नस्तु न कर्तव्य इत्याशङ्क्य, परि-
हरति तुशब्दः ।
अस्मादपि प्रबोधे स एव । कुतः । कर्मानुस्मृतिशब्दविधिभ्यः । चत्वारो
हेतवः । लौकिकवैदिकयोर्ज्ञानकर्मभेदात् । तत्र लौकिके कर्मणि सामिकृतकर्मणः
शेषसमापनात् । न हि कश्चिदपि सुसंबुद्धः सामिकृतं न समापयतीति
क्वचित् सिद्धम् । तथानुस्मृतिः । न हि पूर्वदृष्टं न स्मरतीति क्वचित् सिद्धम् । शब्दाच्च
'पुण्यः पुण्येन कर्मणा भवति, पापः पापेन' 'कैष तदाऽभूत्, कुत एतदागा'दिति,
भाष्यप्रकाशः ।
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ सूत्रमवतारयन्ति किञ्चिदित्यादि ।
एतेनाधिकरणान्तरत्वं निवारितम् । तुशब्दव्याख्यानमुखेन शङ्कां व्याकुर्वन्ति नन्वित्यादि ।
अत्र समायात्वित्यन्तमेक आक्षेपः । अन्यत इत्यादिस्त्वन्यः । तथाच लाघवात् द्वितीयः पक्ष
एवादर्तव्य इति युक्तम् । किञ्च, अन्यस्मिन् जीवे तत्रागते पितृपुत्रभर्तृभार्यादिव्यवहारविघातापत्तौ
स भगवता योगिप्रवेशन्यायेन सेत्स्यतीति कल्प्यम् । किञ्च । मुक्त्यर्थं यत्नस्तु न कर्तव्यः ।
निद्रयैव तत्सिद्धेः । तेन साधनशास्त्रवैफल्यम् । अन्यतः प्रबोधे तु न कश्चिदपि दोष इति स
एवादर्तव्य इत्याशङ्केत्यर्थः ।
परिहारं व्याकुर्वन्ति अस्मादित्यादि, सिद्धमित्यन्तेन लौकिकं हेतुद्वयमुक्तम् ।
रश्मिः ।
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ निवारितमिति । शङ्काव्यावर्त-
कत्वेन पूर्वपक्षाव्यावर्तकत्वात् । तुशब्देति । मुख्यमुपायः । समायात्वित्यन्तमिति । अत्र भाष्य
एवकारः 'न स पुनरावर्तत' इति श्रुतेः । अन्यत इति । नाडीतः । स इत्यादि । स व्यवहारः
भगवता व्यापकेन सर्वपित्रादिरूपिणा योगिप्रवेशन्यायेन राजादिव्यवहारन्यायेन । मुक्त्यर्थमिति-
भाष्यं विवृण्वन्तिस्म मुक्त्यर्थमिति । निद्रयैवेति । सुषुप्तेस्तृतीयावस्थात्वेनैवकारः । तत्सिद्धेः
'स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं ही'त्याविष्कृतेन सायुज्ये मुक्तिसिद्धेः । तेनेति । अस्य साधनस्य
सकलसाधारण्येन । तत्रागतजीवस्यान्यत्वेन च । स एवेति । द्वितीय एव । निर्दुष्टत्वादेवकारः ।
परिहारमिति । ॐमिति परिहारम् । अङ्गीकारेण परिहारस्य छलत्वात् । अस्मादित्यादीति । नाडी-
तोत्सादात्मनोपि प्रबोधे स एव समायाति । लौकिके होलाकाद्युत्सवाख्ये कर्मणि । न स्मरतीति ।
अनु न स्मरतीत्यर्थः । शास्त्रक्रमेण पूर्वं कर्मोदाहृतम्, पश्चाज्ज्ञानम् । कैष तदेति । दृप्तबालाकि-
ब्राह्मणस्थम् । तदेति । सुप्तकाले । 'सति सम्पद्ये'त्यादिश्रुतिः स्पष्टा । आदिसन्दर्भो व्याख्यातः ।
१. सुसप्रतिबुद्ध इति पाठः ।
1634

तथा 'सति सम्पद्ये'त्यादयश्च । विधयश्च 'श्वोभूते ब्रह्माणं वृणीते' 'श्वोभूते शेषं
समामृश्यात्' 'एक एव यजेत' 'द्वादशरात्रीर्दीक्षितः स्या'दित्यादि, 'यः कामयेत
वीरो म आजायेते'त्यादयः । भगवतैव मर्यादारक्षार्थं तथा करणात् । पूर्वपक्षयुक्तयो
दुर्बलाः । तस्मात् स एव प्रतिबुध्यते ॥ ९ ॥
भाष्यप्रकाशः।
वैदिकं हेतुद्वयं व्याकुर्वन्ति शब्दाश्चेत्यादि । तथाच सौषुप्तिकसत्सम्पत्त्या मुक्तौ पुण्यपापात्म-
कफलाभावादुक्तवाक्यं विरुध्येत । 'कैष' इत्यत्रा'प्येष' इत्यनेन सुप्तं आगतं चैकमेव परामृशति ।
तदपि विरुध्येत । 'सति सम्पद्ये'त्यत्रापि सर्वासां प्रजानामज्ञानं वदति । यदि ता मुक्ताः स्युः,
तदा अज्ञानोक्तिरपि विरुध्येत । अत एते शब्दाः सुप्तप्रबुद्धस्यैकस्यैव ज्ञापकाः । एवं विधयोपि ।
ननु भवत्व

१७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ३ सू० १०.
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
किञ्चिदाशङ्क्य परिहरति । ननु यत्र कर्मानुस्मृतयो न सन्ति, तत्रान्यो
भविष्यति, कचिन्मूर्च्छादिविशेषे सर्वस्मृतिनाशेन मुग्धभावदर्शनात्, तत्र
यथा लौकिकवैदिकव्यवहाराः, तथान्यत्रापि भविष्यन्ति, अनुस्मरणादयश्च
बुद्धिवृत्तयः, गङ्गाप्रवाहजलस्य गङ्गावत् , य एव चिदंशस्तत्रायाति, स एव तथा
भवतु, किं स एवेति निर्बन्धेनेत्याशङ्क्य परिहरति ।
भाष्यप्रकाशः ।
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥ सूत्रमवतारयन्ति किञ्चिदित्यादि । एतदेव
विभजन्ते नन्वित्यादि । यत्रैते हेतवः सन्ति, तत्र स एव भवतु । यत्र पुनरैक्यसाधका एते हेतवो
न सन्ति, यथा मूर्च्छाविशेषनिवृत्त्यनन्तरमतिमुग्धे अमरुनामके राजनि । तद्देहे शङ्कराचार्यजीव-
प्रवेशस्य लोके प्रसिद्धेः । अतस्तादृशे मुग्धे यथा लौकिकवैदिकव्यवहाराः, तथा सौषुप्तिकेऽप्य-
न्यजीवे भविष्यन्ति । किञ्च । अनुस्मृत्यादयो बुद्धेर्वृत्तयः, ता जाग्रत्यपि नाना भवन्ति । अतो
गङ्गाप्रवाहे पतितस्य जलान्तरस्यापि यथा गङ्गावत् व्यवहारः, तथा य एव चिदंशस्तस्मिन् बुद्धिवृत्ति-
प्रवाह आयात, स एव पूर्वकर्मसमापनकर्ता भवतु । एवं शब्दा विधयश्च बुद्ध्यैक्यमादायैव नेतव्या
इति लौकिकवैदिकव्यवहारसिद्धौ किं स एव समायातीति निर्बन्धेनेत्याशङ्क्य परिहरतीत्यर्थः ।
परिहारं व्याकुर्वन्ति मुग्ध इत्यादि । मूर्च्छानन्तरं जीवतो मुग्धभावे अर्धसम्पत्तिः
तत्तदितरानिश्चायिका साधारण्येव बुद्धिविंचारकस्य भवति, न सर्वा, नान्यतरनिश्चायिकेत्यर्थः ।
रश्मिः ।
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥ एते हेतव इति । 'अनुस्मरणादयश्च बुद्धि-
वृत्तय' इति भाष्यात् । अन्यजीव इति । 'ननु प्रिययेवे'ति भाष्योक्ते । न सन्तीति । 'तत्रान्यो
भविष्यती'तिभाष्यमत्र ज्ञेयम् । दृष्टान्तमुखेन कचिन्मूर्च्छतिभाष्यार्थमाहुः यथा मूर्च्छति । मूर्च्छा-
विशेषो मरणमूर्च्छाभिन्नः । अतिमुग्धे इति । एकदेशविकृतिन्यायेन भाष्ये मुग्धशब्द इत्याशयः ।
भाष्ये मूर्च्छादीत्यत्रादिशब्देनाघातः । राजनिति । सर्वस्मृतिनाशेन मुग्धभावदर्शनादिति भाष्यं
योजनीयम् । सर्वस्मृतिनाशो 'मेनेऽसन्तमिवात्मान' मिति वाक्येोक्त इव । अत्र हेतुः तद्देह इत्यादिः ।
तत्र यथेतिभाष्यं विवृण्वन्तिस्म अतस्तादृश इति । तथान्यत्रापीति भाष्यविवरणं तथा सौषु-
प्तिकेत्यादि । अन्वित्यादिभाष्यं विवृण्वन्ति स्म किञ्चेति । 'अनुस्मरणादय' इत्युक्ते शाङ्करोक्तोपाधिबु-
द्धिसरजन्माकस्मिकं स्यात्तदर्थं लाघवाय सौत्रानुस्मृतिशब्दपुरःसरं व्याकुर्वन्तिस्म अनुस्मृत्यादय इति ।
'बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यपरोपि दृष्ट' इति श्रुतेर्जीवोपाधिबुद्धेर्वृत्तयः । आदिना पूर्वदृ-
ष्टस्मरणानुव्यवसायस्मृतस्मरणे । य एवेति । अन्ययोगव्यवच्छेदकः । बुद्ध्यैक्यमिति । बुद्ध्यैक्यमे-
वादादाय । जीवैक्ययोगव्यवच्छेदकैवकारः । स एवेति । अन्ययोगव्यवच्छेदक एवेति । नान्यः
समायातीति । गङ्गेत्यादिभाष्यस्य गङ्गाप्रवहणजले प्रवहणक्रियैक्यप्राप्ते जले । कर्मादीनां सम्ब-
न्धसामान्यविवक्षायां षष्ठी । गङ्गाम्बुवत्पुस्तद्वदित्यप्यर्थः । मूर्च्छादीति । आदिनाघात इत्युक्तम् ।
तत्तदिति । तत्तत् च यत् इतरत् तत्तदितरत् । कर्मधारयः । तस्यानिश्चायिका । साधारण्येव, नतु
तत्तद्विषयिकाऽसाधारणीत्येवकारार्थः । सापि विचारकस, अविचारकस्य तु राजामरुवत्सर्वापि ।
नान्यतरेति । तयोर्द्वयोः संशयविषययोरन्यतरस्य निश्चायिका । ततश्च तयोः संशयिकेति सर्वेत्यु-
1636

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २०१
मुग्धे मुग्धभावे अर्धसम्पत्तिरेव, न सर्वा । नहि मुग्धस्य यज्ञादावधिका-
रोऽस्ति । पूर्वप्रवृत्तानि तु जीवनाधिकारात् क्रियन्ते । लौकिकव्यवहारोपि नापूर्वः
सिध्यति । पूर्वोक्तहेतुसद्भावे तु न कोपि दोषः । अतो मुग्धे अर्धसम्पत्तिः पूर्वैव,
नोत्तरा । कुत एतत् । परिशेषात् । स एव वा, न वेति निश्चयप्रमाणानामभा-
भाष्यप्रकाशः ।
कथमर्धेत्याकाङ्क्षायामेतदेव व्युत्पादयन्ति न हीत्यादि । मुग्धस्येति । मूर्च्छोपरतावपि निवृत्त-
पूर्वसंस्कारस्य ।
अयमर्थः । शास्त्रार्थवत्त्वाधिकरणे कर्तृत्वं जीवगतमेव, न तूपाधिगतमिति स्थितम् । अतः
शब्दा विषयश्च जीवमेव विषयीकुर्वन्ति । तत्र 'अर्थी समर्थो विद्वा' नित्यादिनोक्तो यो यज्ञादाव-
धिकारः, स मुग्धस्य तस्यापि नास्ति, अर्थित्वाद्यभावात्, अतोऽपूर्वाणि न क्रियन्ते । पूर्वप्रवृत्तानि
त्वग्निहोत्रादीनि जीवनाधिकारात् क्रियन्ते । एवं लौकिकव्यवहारोपि पूर्व एव निर्वहति, नापूर्वः
कोपि सिध्यति । असिद्धे च तंस्तित्त्र स वा, अन्यो वेति निर्णतुं न शक्यते । लोके अमरुशरीरे
अन्यस्येव, ब्रह्मवैवर्तेब्रह्मखण्ड उपबर्हणगन्धर्वशरीरे तस्यैव प्रवेशस्मरणात् । वसिष्ठोपदिष्टविस्मृत-
मन्त्रपूजादेस्तत्पल्या बोधनेनातिमुग्धताया अपि स्मरणाच्च । अतो यत्र मुग्धभावानन्तरं कर्मानु-
स्मृत्यादिहेतूनां सद्भावः, तदा तु स एव तत्र जीव इति न कोपि शब्दादिविरोधदोषः । यत्र
पुनरनुस्मृत्याद्यभावः, तत्र, अत उक्तदोषात् हेतूनां पूर्वैव संपत्तिः, नोत्तरेत्यर्धेव विचारकस
बुद्धिरित्यर्थः । अत्र पृच्छति कुत इत्यादि । एतत् अर्धमपि कुत इत्यर्थः । तत्रार्धसत्तायां हेतुं
विवृण्वन्ति स एव वा न वेत्यादि । प्रसक्तप्रतिषेधे यः प्रसक्तस्तदप्रतियोगी स परिशेषः ।
रश्मिः ।
च्यते । शास्त्रार्थेति । गताध्यायेऽस्ति । एवेति । उपाधिव्यवच्छेदकः । तदेवाहुः नत्विति । जीव-
मेवेति । न तूपाधिम् । उक्त इति । कचिच्छास्त्रे उक्तः । तस्यापीति । विचारकस्यापि । पूर्वे-
तिभाष्यं विवृण्वन्ति स्म पूर्वप्रवृत्तानीति । जीवनेति । 'यावज्जीवमग्निहोत्रं जुहोती'ति श्रुत्या ।
लौकिकेतिभाष्यं विवृण्वन्ति एवं लौकिकेति । पूर्व एवेति । अपूर्वयोग्यव्यवच्छेदकः । सिध्य-
तीति । पूर्वकर्मवदपूर्वकर्मणि विद्यमानान्न सिध्यति । तस्यैवेति । गन्धर्वस्य । एवकारेण नान्यस्य ।
वसिष्ठेति । गन्धर्वस्य । पूर्वोक्तेतिभाष्यं विवृण्वन्ति स्म अतो यत्रेति । स एवेति । हेतुसत्त्वे
साध्यसत्त्वनियमादेवकारः । न कोपीति । साधारण्यविदेहत्वाभासरूपोपि । शब्दादिसहानवस्थानल-
क्षणविरोधरूपो दोषः । अत इतिभाष्यं विवृण्वन्ति स्म यत्र पुनरिति । गन्धर्वे । उक्तेति ।
शब्दादिविरोधदोषात् । पूर्वैवेति । कर्मरूपा । एवकारः उत्तरानुस्मृत्यादियोगव्यवच्छेदकः । तेनार्था
कर्मसम्पत्तिः । नोत्तरेति । अनुस्मृतिसम्बन्धविधिरूपा । नेत्येवमेवकारव्यवच्छेदोत्तरा सम्पत्तिरुक्ता ।
तेनार्धसम्पत्तिरंशसंपत्तिः । अर्धसम्पत्तिलेनार्धसम्पत्तिस्वीकारः । अर्धमपीति । अविनाश्वरूपं गौणार्थम् ।
अर्धसत्तायामिति । गौणमुख्यार्धसत्तायाम् । हेतुं विशेषम् । स वान्यो वेत्युक्ते संशय एवकारघ-
टितत्वे प्रत्यभिज्ञेत्याशयेन विवृण्वन्ति स्म प्रस्तुते ति । प्रस्तुतं पूर्वसूत्र ऐ

१०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० १०.
बादर्थात् सन्देहोऽवशिष्यते । तस्मात् सन्देहान्मुग्धे अर्धप्रतिपत्तिः ।
भाष्यप्रकाशः।
प्रकृते च स एवायं न वेति सन्देहे एकतरनिश्चयजनकप्रमाणानामभावात् सन्देह एवार्थाभिषेधा-
प्रतियोगित्वेनावशिष्यते। अतः स एव परिशेष इत्यर्थः । सिद्धमाहुः तस्मादित्यादि । उक्तविधात्
परिशेषरूपात्सन्देहान्मुग्धेऽर्धप्रतिपत्तिरर्ध ज्ञानं विचारकस्य, तस्मादेव पूर्वा संपत्तिः, न तु निश्चयात्।
अतो मुग्धदृष्टान्तेन न सौषुप्तिकसिद्धान्तभङ्ग इत्यर्थः । किञ्च, अत्र प्रतिपत्त्यादिपदमनुक्त्वा यत्
संपत्तिपदमुक्तम्, तेन मुग्धे मूर्च्छितेऽर्धसंपत्तिः। यथा नाडीषु सतो नैक्याद् दुःखाभावमात्ररूपार्ध-
संपत्तिः, तथेति बोध्यते । तेन कालीयदमनस्थले मूर्च्छितस्यार्धसंपत्त्या इन्द्रियाणां प्राणानां च
पुनरागमनं यदुक्तम्, तदपि न विरुध्यत इति बोधितम् । अनुस्मृत्या च स एव जीव इत्यपि ।
अविचारस्तु जीवावस्थाभावत्वादेवेति च। एवमत्र प्रासङ्गिकपरिहारेण सुषुप्तेः प्रबुद्धः स एव, न
त्वन्य इति निर्णीतम् ।
अन्ये तु । अस्मिन् सूत्रे मुसलाद्यभिघातजन्यां मूर्च्छा विचारयन्तो, 'जाग्रत्स्वप्नः सुषुप्त'मिति
तिस्रोऽवस्था बृहदारण्यके जीवस्योक्ताः, ताः पूर्वं विचारिताः, उत्क्रान्तिश्चतुर्थी, साऽग्रे विचार-
यिष्यते, इयं तु न जाग्रत्स्वप्नयोरन्तर्भवति, ज्ञानाभावात्, नापि सुषुप्तौ, निमित्तभेदादाकारभेदाच्च,
नापि मरणे, प्राणोष्मणोरुपलम्भात्, अतः परिशेषादियं पञ्चमीत्याहुः ।
रश्मिः।
स एव वा नवेति सन्देहः स परिशेष इत्यर्थः । सन्देह इति । प्रत्यभिज्ञाविषयविषयके सन्देहे द्वितीय-
कोटिसहिते । कोट्योरेकतरनिश्चये प्रमाणानां शब्दयोगिप्रत्यक्षानुमानानामभावात् । सन्देह एवेति ।
एकतरयोगव्यवच्छेदकैवकारः । स एवेति । सन्देहः । एवकारः पूर्ववत् । अर्धं ज्ञानमिति । सन्देहार्धं
स एवेति ज्ञानम् । तस्मादेव अर्धज्ञानात् । एवेति । कर्मयोग्यव्यवच्छेदकः । गौणत्वात् । किञ्च, नतु
स एवेत्येकविषयकान्निश्चयात् । पूर्वोत्तरीयभावाभावात् । अत इति । आभ्यां सन्देहात् परिशेषरूपात्
निश्चयाभावाच्चेत्यर्थः । मुग्धेति । सुषुप्तिः स एवेत्यैक्यवती कर्मानुस्मृतिशब्दविधिभ्यः सैवेयं दीपमालिके-
तिवत् । अस्य सौषुप्तिकसिद्धान्तस्य । मुग्धदृष्टान्तेन सुषुप्तिः न स एवेत्यैक्यवती। परिशेषात् ।
मुग्धवदिति सत्प्रतिपक्षाद्भङ्गो नेत्यर्थः । किञ्च, अत्रेति । सूत्रे । तेनेति । सत्स्मारकेण सम्पत्तिशब्देन ।
'सता सौम्य तदा संपन्नो भवती'त्यत्र सत्सम्पत्तिरित्यत्र च सम्बन्धायधारणादेकसम्बन्धिज्ञानमपरसम्ब-
न्धिस्मारकमिति सत्स्मारकत्वम् । हेतुचतुष्टये कर्मरूपार्थसम्पत्तिः स एवेत्यर्थसम्पत्तिः सन्देहे । मोक्षे-
र्धसम्पत्तिं दृष्टान्तेनाहुः यथेति । दुःखेति । 'दुःखाभावः सुखं चैव पुरुषार्थद्वयं मत'मिति मोक्षेर्ध-
सम्पत्तिर्दुःखाभावरूपा । असौत्री नात्र दार्ष्टान्तिके सन्दिग्धव्या । मूर्च्छितस्येति । नन्दादिषु यस्स-
कस्यचिन्मुग्धस्य त्रिविधार्थसम्पत्तिः । यदुक्तमिति । श्रीभागवते यदुक्तम् । ननु नन्दादीनां गर्गोप-
दिष्टानां कुतो न 'नारायणसमो गुणै'रित्यस्य विचारो मोहजनक इत्याशङ्क्याहुः अविचार इति ।
विचारस्य न जीवावस्थात्वम् । प्रकरणं तु जीवावस्थानामिति भावः । एवकारो मोहयोगव्यवच्छेदकः ।
अत्रेति । सूत्रद्वये । प्रासङ्गिक आशङ्काविषयस्तस्य परिहारेण । स एवेति । उक्तद्वितीयकोटिकः ।
नत्वन्य इति । प्रथमकोटिकोन्यर्थः । निमित्तेति । मूर्च्छाया मुशलाद्यभिघातो निमित्तम् ।
सुषुप्तौ तु तमः । 'न किञ्चिदवेदिष'मिति तमःकार्याज्ञानकथनात् । इति भेदात् । उपेति । मूर्च्छायां
1638

न तत्र प्राणायनविघातकृता मूर्च्छा विचार्यते । तस्याः प्राणधर्मत्वात् । यथा
बाल्यं शरीरधर्मः । व्यर्थश्च विचारः । जीवावस्था एव हि विचार्यन्ते । केवलसाक्षि-
वादस्तु न ब्रह्मवादः । तस्मादेक एव जीवः खमादिदोषसम्बन्धरहितस्तादृशजन्म-

भाष्यप्रकाशः।

तद् दूषयन्ति न तत्रेत्यादि । तत्रावस्थासु इन्द्रियादिस्थानभूतगोलकाभिघातकृता मूर्च्छा
तु न विचार्यते, तस्याः प्राणानां स्वस्थानपरित्यागेन जायमानतया प्राणधर्मत्वात्, अतो यथा बाल्यं
शरीरधर्मो न विचार्यः, तथेयमपि । किञ्च, अयं व्यर्थो विचारः । यथा भवन्मते नाड्यः पुरीत्तद्वा
सुषुप्तिस्थानमिति विज्ञानेन न किञ्चित्प्रयोजनम्, तथैतज्ज्ञानेनापि न किञ्चित् प्रयोजनम् ।
यत् पुनर्भाभत्याम् , एतस्या अवस्थान्तरत्वे तत्प्रविलायाय यत्नान्तरमास्थेयमित्येतद्विचारप्र-
योजनमुक्तम् । तदपि तदा युज्येत, यदि सूत्राणि संसारव्यवहाराय प्र

युक्तो भगवज्ज्ञानरहितो ज्ञानाधिकारीति सिद्धम् ॥ १० ॥
इति तृतीयाध्याये द्वितीयपादे तृतीयमतः प्रबोध इत्यधिकरणम् ॥ ३ ॥
भाष्यप्रकाशः।
सुषुप्तिरितीति, यथा संप्रज्ञातासंप्रज्ञातभेदेन योगो द्विविधो भवति, तथा सुषुप्तिरपीति । इमां च
ब्रह्मव्यर्षसंपत्तिरूपां सुषुप्तिमधिकृत्य, 'आनन्दभुक् चेतोमुखः प्राज्ञः' 'जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं
यत् प्रकाशते' इत्यादिश्रुतयः प्रवृत्ता इत्याह ।
तन्न । श्रुतीनां या प्रवृत्तिः, सा नाडीषु सुषुप्तिमादायाप्युपपद्यमाना न मोहावस्थामपेक्षत इति न
श्रुतिम्यस्तत्रान्तर्भावः शक्यवचनः । सुखदुःखमोहानुस्यूतीनां रोमहर्षवेपथुवैकल्यादीनां च दर्शनेन
सुषुप्तेः सकाशाद्भेदस्य स्वयमेवाङ्गीकारात् तस्याः सुषुप्तावन्तर्भावेऽपि हेत्वभावः । नचायोगिनां
जीवदशायां बृहदारण्यकेऽवस्थात्रयस्यैवोक्तत्वाज्जाग्रत्स्वप्नयोर्वैलक्षण्ये परिशेषात् सुषुप्तावन्तर्भाव इति
युक्तम् । परिशेषस्य मरणार्थसंपत्तावपि तौल्यात् । नच पुनरुत्थानान्न मरणेऽन्तर्भाव इति वाच्यम् ।
नामभ्रान्त्या यमदूतनीतानामपि पुनरुत्थानात् । षष्ठस्कन्धे चित्रकेतुसुतस्य पुराणान्तरेषु सावित्री-
पत्युः सत्यवतश्च पुनरुत्थानकथनाच्च ।
अतो मरणं सर्वप्राणदेहसंबन्धोपरतिः, मूर्च्छा तु सूक्ष्मप्राणदेहसंबन्धावस्थितिरिति रामानु-
जाचार्योक्तमेवात्र युक्तम् । परमेतद्विचारस्यात्र प्रयोजनं तैरपि नोक्तम् ।
माध्वास्तु भिक्षुवदेवाङ्गीकुर्वन्ति ॥ १० ॥ इति तृतीयमतः प्रबोध इत्य-
धिकरणम् ॥ ३ ॥
रश्मिः।
सम्प्रज्ञातेति । सबीजनिर्बीजसमाधिः । 'परो हि योगो मनसः समाधि'रिति वाक्यात् । तत्र शब्दार्थ-
ज्ञानविकल्पै संकीर्णा सवितर्का समापत्तिः । तत्रेति । समापत्त्योर्मध्ये । स्मृतिपरिशुद्धौ स्वरूपशून्येवा-
र्थमात्रनिर्भासा निर्वितर्केति तयोर्लक्षणे । इमामिति । सम्प्रज्ञातसमाधिवदस्पष्टज्ञानरूपाम् । आन-
न्दभुगिति । सुखमहमस्वाप्समित्यर्थे सुखलेनानन्दभुक् मनोबुद्धिचेतस्सु सुषुप्तिश्रेतोमुखः चेतउपाया
चेतःकरणा । प्राज्ञस्तु सुषुप्तिसाक्षी । यदिति । यदव्ययं प्रकाशते । अत्र यदव्ययं प्राज्ञः । इत्यादीति ।
आदिना 'यत्र न कंचन कामं कामयते न स्वप्नं पश्यती'ति । वितण्डां वारयन्ति स्म न मोहेति ।
मूर्च्छावस्थां नापेक्षते । तत्रान्तरिति । अवस्थात्रये मूर्छान्तर्भावः । रोमेति । आदिना स्वेदः ।
स्वयमिति । भगवता भिक्षुणैव । नान्येन युक्तिं सहपक्षकेण । तस्या मूर्छायाः । एवेति । अन्याव-
स्थाव्यवच्छेदकः । मूर्च्छा सुषुप्त्यन्तर्भूता । अवस्थात्रयबोधकबृहदारण्यकात् । जाग्रत्स्वप्नवैलक्षण्यप-
रिशेषवत् इत्यनुमानमाहुः नचायोगिनामिति । अयं हेतुः हेतुतावच्छेदकलाघवे उक्तो हेतुः ।
परिशेषादिति । शङ्कराचार्यजाग्रत्स्वप्नवदिति स्फुटम् । अतः सन्देहात् सुषुप्तौ खमवज्जाग्रतोप्यन्त-
र्भावः । अयं दृष्टान्तः । सुषुप्तावित्यादिसाध्यम् । स्मरणादिति सौत्रात्स्मरणालम्भानात् संशयार्थ-
सम्पत्तावपि । तौल्यादिति । एककोटिकस्य । एवं कृते मूर्च्छाया मरणेन्तर्भावः वैद्यके प्रसिद्धः ।
'मूर्च्छायां चतस्रो गुटिकाः संजीविन्या देया' इति । जीवनसंभावनाकर्त्री संजीविनीति । तत्र शङ्कते
न चेति । यमेति । नृगाजामिलप्रभृतीनाम् । पुनरुत्थानेति । मृतस्य । एवात्रेति । मूर्च्छाविषये-
ऽन्ययोगव्यवच्छेदः क्रियते । रामानुजाचार्यवचनात् । तद्युक्तम् । एवेति । अन्यप्रकारयोगव्यव-
च्छेदकः ॥ १० ॥ इति तृतीयमतः प्रबोध इत्यधिकरणम् ॥ ३ ॥