अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
भाष्यप्रकाशः ।
मेवोवाचेति न दोषः । ब्रह्म च न शरीरमात्रं, येन सृष्ट्यादिवाक्येषु वाचो धेनुत्ववत् तस्मिन्
जगत्कर्तृत्वादीनामसंभवतां धर्माणामारोपापवादादिभिर्विधेयोपासनाविषयस्तावकतयोपासनाशेषता
संभवन्ती गतार्थत्वानुपयोगौ दृढीकुर्यात् । किंचोपासनाविषये आत्मनि निरङ्कुशजगत्कर्तृत्वादयो
ये धर्माः स्तुत्यर्थमारोप्यन्ते, ते किमत्यन्तासन्तः खपुष्पवद्, उत क्वचित् सन्तो रजतवत् । तत्राद्ये
आरोप एव बाधितः । द्वितीये तु सिद्धमतिरिक्तेन ब्रह्मणा । तच्च पूर्वकाण्डे परोक्षवादत्वान्न स्फुटं
प्रतिपादितमिति तत्प्रतिपादकमुत्तरकाण्डं न धर्मप्रतिपादकम् । अत्र उपासनाया धर्मत्वेऽपि नोत्तर-
मीमांसाया गतार्थत्वमित्यर्थः । नन्वस्त्वेवं, तथापि सृष्ट्यादिवाक्यानां विधिमन्त्रादिरूपत्वाभावा-
दर्थवादत्वमेव वक्तव्यम् । ततश्च ब्रह्मस्तावकत्वात् तेषां न स्वार्थे प्रामाण्यमिति तद्विचारशास्त्रस्य
रश्मिः ।
मनुवृत्तिरङ्ग' इति श्लोकोक्तो धर्मः । अत एव धर्मजिज्ञासां चकार न तु कर्मजिज्ञासाम् । 'देवो वः
सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे' इति संहितोक्तत्वेपि निरोधलक्षणग्रन्थोक्ताधिदैविकश्रवणादिरूप-
मर्यादासेवात्वेन श्रुत्यधिकारिधर्मत्वात् । यथा 'अस्त्वेवमङ्ग उपदेशपदे त्वयीशे' इत्युक्त्वा 'प्रेष्ठो
भवान् तनुभृतां खलु बन्धुरात्मा' इति श्रुत्यधिकारि यद्वाक्यं तदुक्तो धर्म आधिदैविकः । तथा च
यथा 'धर्मं चर' इत्याचार्योपदेशेन भक्ता अपि भगवद्वाक्यानि पूर्वपक्षयाञ्चक्रुस्तथाचार्योपदेशेन
धर्मजिज्ञासां चकार । कर्मणस्तूक्तस्य सर्वानधिकारानुन्मूल्यत्वेऽपि कर्मणे न कर्मजिज्ञासा इत्युवाच ।
अग्रे 'कर्मैके तत्र दर्शनात्' इति सूत्रं चकार । तथा चाध्यात्मिकमेवोवाचेत्यर्थः, आध्यात्मिकस्तु
'धर्मः प्रोज्झितकैतवोऽत्र' इति वाक्यादेकादशैकोनविंशाध्यायोक्तश्रवणादिसरणिरूपो धर्मः ।
गतेति । ब्रह्ममीमांसा यतः । बाधिन इति । तादृशस्यादर्शनादिति भावः । अतिरिक्तनेति सद्ध-
र्माश्रयस्य वक्तव्यत्वादित्यर्थः । परोक्षवादत्वादिति 'परोक्षवादो वेदोऽयम्' 'परोक्षं च मम
प्रियम्' 'परोक्षप्रिया इव हि देवाः' इति वाक्यनिकुरुम्बात् । न धर्मप्रतिपादकमिति । अपूर्व-
प्रतिपादकं नेत्यन्ये । सिद्धान्ते धर्मस्यैव फलपर्यन्तावस्थानोपगमात् । एतदेवाग्रे पूर्वखण्डने स्फुटी-
व्यति । तथाचोक्तम्-
'किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।
एतस्या हृदयं लोके नान्यो मद्वेद कश्चन ॥
मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् ।
एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् ॥
मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति' ॥ इति
नच वेदो मां स्वव्यापारावधिं कृत्वा भिदां मायामात्रमित्यनूद्य 'नेह नानास्ति किंचन' इति
प्रतिषिध्य भेदं, प्रसीदति निवृत्तव्यापारो भवतीति निरुणद्धि इति वाच्यम् । सर्वसामर्थ्यस्य ब्रह्मणो
मायाकृतां विपर्यस्तबुद्धिकृतां नेदं ब्रह्मकार्यमित्याकारिकां भिदामनूद्य प्रतिषेधति कार्यभावात्पूर्वं रूपं
वक्तीत्येकदेशिनः । विरुद्धसर्वधर्माश्रयस्य आनन्दस्य प्रतीयमानां भिदां मायामात्रं क्रीडार्था माया या
मुख्या शक्तिस्तन्मात्रं, नतु आविद्यकमित्यनूद्य प्रतिषेधति । ब्रह्मैव सर्वं, भेदो बुद्धिदोषाद्भातीति
सिद्धान्तः । प्रकाशाश्रयाधिकरणे स्फुटमिदम् । न च मायाविद्ययोरेकीभाव इति सांप्रतम् । 'विद्य-
याऽविद्या शक्त्या मायया च निषेवितम्' इति वाक्येन भेदावगमात् । भाष्ये । ज्ञानरूपत्वादिति
७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
रश्मिः ।
क्रियारूपत्वखण्डने तात्पर्यादेवमुक्तम्, आनन्दस्यैव त्रिषु मुख्यत्वात् । न च द्वैतापत्तिः । द्वैतं हि
द्वयोर्भाव उच्यते 'प्रज्ञादिभ्यश्च' इत्यणा, ब्रह्मैव सर्वमिति क्व द्वौ । न ह्येकस्मिन्द्वीपे द्वाविति प्रतीतिरस्ति ।
तदुक्तम्-
'कार्यकारणवस्त्वैक्यमर्शनं पटतन्तुवत् ।
अवस्तुत्वाद्धिकल्पस्य भावाद्वैतं तदुच्यते' ।। इति सप्तमस्कन्धे ।
यदपि द्वयोर्भावो द्विता तत्र भवं द्वैतं संशयरूपं ज्ञानं, द्वाभ्यामितं प्रकारद्वयेन विरु-
द्धधर्माश्रिङ्गाधारवर्तिना युक्तं वस्तु द्वीतं तत्र भवं द्वैतं तदेव संशयज्ञानमिति कैयटानुरोधे लब्धैतं
संशयाभावः । अतश्च ब्रह्मैव सर्वमिति निश्चय इति तदप्यविरुद्धम् । अथवा यथाश्रुतार्थः एका-
दशस्कन्धे सांख्यनिरूपणे स्फुटत्वात्, भाष्ये तु स्तुत्यानन्द आनन्दमये विश्रान्त इत्यदोषः । तत्र
ज्ञानं दशधा इति तृतीयसुबोधिन्यां 'अथ ते तदनुज्ञाता' इत्यत्र निरूपितम् । एतच्च ज्ञानं 'सत्यं
ज्ञानमनन्तं ब्रह्म' इति श्रुतेर्ब्रह्मात्मकम् । तल्लक्षणं तु 'त्रितयं तत्र यो वेद स ह्यात्मा स्वाश्रयाश्रयः'
इति वाक्ये आधिदैविकादित्रिकव्यतिरिक्तत्वे सति तत्रितयज्ञातृत्वमिति सिध्यति । स्वाश्रयश्चासौ
आश्रयः इति कर्मधारय एवोद्देश्यविधेयभावात्स्वरूपकथनपूर्वकं लक्ष्यनिर्देशः, तच्च भावनयाभि-
व्यज्यते 'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः' इति श्रुतेः । जीवानार्माप
अत्रैवाभिनिवेशः सजातीयत्वात् । तद्गुणोऽपि चैतन्यं तत्रैव निविशते तदविनाभूतत्वात् 'जीवस्यानु-
स्मृतिः सती' इत्युत्तरार्धे तत्स्वरूपमुक्तम् । पूर्वापरानुसंधानरूपा स्मृतिश्चैतन्यमिति । व्युच्चरणात्पूर्वम-
भेदेन, व्युच्चरणोत्तरमविद्यासंबन्धात्प्राक्कालवर्तिनो ज्ञानस्य सोहमिति पूर्वापरानुसंधानरूपस्यैव सिद्ध-
त्वात् तत्त्वमस्याद्युपदेशोत्तरमपि तथैव प्रतिसंधानादजपायामपि तथात्वान्तादृशत्वनिश्चयः । अयमेव
स्वरूपलाभो विद्यया संपाद्यः विस्मृतकण्ठमणिन्यायात् । तेथापि नित्यम् । 'सत्त्वशुद्धौ ध्रुवा स्मृतिः'
इति श्रुतेः । पूर्वोक्तमेव ज्ञानं धर्मात्मकप्रकाशरूपेणाविर्भवद् भगवद्गुणतां श्रयति सूर्यप्रकाशवत् ।
तदनित्यमपि 'तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात्' 'युक्तं भगैः स्वैरितरत्र चाध्रुवैः' इत्यादि-
वाक्येभ्यः । चैतन्यमप्यत्रैव वा निविशते इति द्वितीयं, तृतीयं तु वेदशरीरं दशद्भवति ।
'स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः ।
मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥'
इत्येकादशस्कन्धात् सृष्ट्यर्थं भगवन्मनोमयादिसरण्या दधाति, तथाहि ब्रह्मणो हृदयाकाशे स्वयं
ब्रह्म आसन्थेन करणतामापन्नेन नादरूपं दधदाविर्भवति, तदुक्तं घोषेण गुहां प्रविष्टः इत्यन्तेन ।
स पूर्वमव्यक्त एव ततो नानावर्णादिसंकल्पकमनोमयं 'सूक्ष्मरूपमुपेत्य ब्रह्ममुखतः प्रकटः सन्मा-
त्रास्वरवर्णात्मना स्थूलरूपेण शब्दब्रह्मात्मकवेदरूपश्चकास्ति । स च नादोऽस्मदादिष्वपि प्राणघोष-
रूपेण वर्तते व्यापकत्वात्, श्रावणस्तदनुभवस्तु श्रोत्रवृत्तिनिरोधसंपाद्यो भगवतैव कृत्वा जीवेन ।
नान्यः प्रकारः श्रावणे जीवानुभवे । जीवानुभवस्तु भगवतेति निरुद्धद्वारनिह्रजीवो न कार्यं करोतीति ।
अयमेव नादः स्फोट इत्युच्यते स्फुटति वागनेनेति व्युत्पत्तेः । तदुक्तम्-
१. अङ्गुष्ठमजन्यस्यापी ।
72
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७३
रश्मिः ।
'समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः । हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ॥
शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् । येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ॥
सबभूवो प्रणवः साक्षाद्वाचकः परमात्मनः । स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम्' ॥ इति ।
तेन स्फुटत्यर्थोऽनेन इति स्फोट इति वैयाकरणोक्तं प्रत्युक्तम् । नैयायिकास्तु स्फोटं नाद्रियन्ते ।
तथा हि । घट इत्युक्ते घकाराकारटकाराकारविसर्जनीयैरर्थप्रत्ययाभावाद्दर्णानां क्रमिकत्वेन पदवाक्य-
रूपवर्णसमुदायाभावेन ततोऽप्यर्थप्रत्ययात्पूर्वपूर्ववर्णानुभवजन्यसंस्कारसहकृतान्तिमवर्णादप्यनेकादृष्ट-
संस्कारकल्पनागौरवग्रस्तादर्थप्रत्ययाभावाद्वर्णाभिव्यङ्गयोऽतिरिक्तः स्फोटाख्यः शब्दार्थं प्रत्याययति । एवं
पदस्फोटो वाक्यस्फोटश्च । इति प्राञ्चो वैयाकरणाः । आधुनिकास्तु स एवायं घकार इति प्रत्य-
भिज्ञाबलाद्वर्णरूपः स्फोटः तथा पदवाक्यस्फोटावपि । न चेयमेकार्यबोधकत्वमवलम्बत इति
शङ्क्यम् । जलाहरणादिरूपैकार्यजनकत्वस्य सोऽयं घट इत्यादौ शक्यवचनत्वादिति मन्यन्ते तन्न,
तादृशसहकारिसंपन्नोऽन्तिमवर्ण एव वाचक इति स्फोटकल्पनायामपि गौरवसौल्यम् । अपि च
वर्णव्यङ्ग्यो यत्किंचिद्वर्णव्यङ्ग्यो वा तावद्वर्णाभिव्यक्तिव्यङ्ग्यो वा नेभौ । क्रमिकाणामाशुविनाशिनां
यौगपद्यासंभवात् घकारमात्रोच्चारणे पदस्फोटप्रत्ययेऽर्थप्रत्ययापत्तिवर्णान्तरवैकल्याभ्यां तदसंभ-
वाच्च । अथ पूर्ववर्णसंस्कारसहितचरमवर्णोपलम्भः तद्व्यञ्जक इति उच्यते तर्हि स एवार्थप्रत्या-
यकोऽस्तु कृतं स्फोटेन । न च पदप्रतीतिः स्फोटसाधिका तावद्वर्णगोचरप्रत्ययाभावेपि तावद्वर्ण-
गोचरसंस्कारात्समूहालम्बनरूपतावद्वर्णगोचरस्मरणसंभवात्क्रमविशेषवत्तावद्वर्णगोचरत्वेन स्फोटासाधक-
त्वात् । नहि वर्णमात्रं पदं सरोरसयोः नदीदीनयोः अविशेषापत्तेः । किंतु आनुपूर्वीविशेषाविशिष्टताव-
द्वर्णरूपम् । नचाप्रत्यक्षः घोत्तरं शृणोमीति प्रत्ययात् घोत्तरत्वं हि टस्यानुपूर्वीति । ततः सृष्टिश्च 'शब्द
इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्' इति सूत्रभाष्ये स्फुटिष्यति । तादृशशरीरयुक्तमपि रूपं
'अनन्ता वै वेदाः' इति तैत्तिरीयब्राह्मणश्रुत्या अनन्तं विरंशिष । तुरीयं तु इदमेव शरीरविशिष्टं
भगवदाश्रितमेव पाश्चात्यां विशिष्टशक्तिमापद्य व्यह्य इव विकृतास्तत्रासकरवालेत्यादिरूपाः सर्वे
शब्दा भवन्त्यादिसृष्टौ । तथा हि पूर्वोक्तो नादः सुषुम्णामार्गेण आधारहृत्कण्ठमुखेषु संचरन्
परापश्यन्तीमध्यमावैखरीरूपेणाविर्भवतीति । एतच्चामाण्योपपादनावसरे स्फुटमुपपाद्यम् । एत-
च्चतुर्विधं नित्यम् । ततः तादृशवेदविकृतशब्दात्मकद्विविधशरीरविशिष्टमेव तल्लोके प्रकटीभवितुं
समवायित्वेन प्रमातारं निमित्तत्वेन प्रमेयं चाश्रयते । न च प्रमाणविरहः शङ्कनीयः । पश्यन्त्याख्य-
शब्दावस्थापोषक श्रुतिसद्भावात् । 'चत्वारि वाक्परिमिता पदानि तानि विदुब्राह्मणा ये मनी-
षिणः । गुहा त्रीणि निहितानि नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति' इति श्रुतिः । आधारनाभि-
हृदयवदनरूपाणि चत्वारि पदानि स्थानानि । तत्र परापश्यन्तीमध्यमावैखरीरूपाश्चतस्रः शब्दा-
वस्थास्तासु त्रीणि परापश्यन्तीमध्यमाख्यानि गुहायां निहितानि । अतः नेङ्गयन्ति न जानन्ति,
तुरीयं वैखर्याख्यं अत एव केषांचित् ।
'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्व शब्देन भासते' ॥ इति ।
प्रमेयमाश्रयस्य तु ज्ञानस्य शब्दानुविद्धत्वाच्छब्दस्य च नित्यगर्वसंपन्नत्वाच्छब्दविशिष्टस्यैव,
१० ब्र० सू० २४ 73
७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
नत्वर्थवादानां धर्म इव ब्रह्मण्युपयोगः कर्तुं शक्यः । उत्पत्तिप्रकारफल-
भाष्यप्रकाशः ।
कोपयोग इत्यत आहुः नचेत्यादि । स्यात् स्वार्थे अप्रामाण्यं, यदि कर्मणीव ब्रह्मण्युपयुज्येरन् ।
कर्मणि हि त्रेधा तेषामुपयोगः । यथा, असावादित्यो न व्यरोचतेत्यादीनां सौर्याद्युत्पत्तौ ।
रश्मिः ।
तादृशानुव्यवसायाकारात् । परत्र शब्दोऽर्थश्च न्यग्भूतो भासते, पूर्वत्र तु ज्ञानं न्यग्भूतमिति विशेषः ।
न च अनेदम्कीयज्ञानस्य शब्दवैशिष्ट्यमिति शङ्क्यम् । अभिनयस्यैव तत्र शब्दस्थानापन्नतत्वेन
शब्दविशेषमनुसंधायैव बोधकेनाभिनयदर्शनात्परंपरया तस्यापि शब्दवैशिष्ट्यात् । इदं पञ्चमम् ।
प्रमातरि तु अन्तःकरणेन्द्रियाश्रयणात्पञ्चधा तत्रेन्द्रियेष्वेकधा, अन्तःकरणे चतुर्धा । मनसा
जायमानं संशय इति व्यवह्रियते । संकल्पविकल्पात्मकत्वात्तस्य । अत एव शङ्कापिशाच्या उत्तरोत्तरं
भिन्नभिन्नविरुद्धकोटिविधायिन्या अनिवृत्तिः । कथं तर्हि आत्मानं गृह्णाति इति चेन्नैरात्म्यनिवृत्तौ
प्रमास्त्येति । अहंकारेण कृता शरीराभिमतिस्तु बुद्ध्याश्रया । विपर्यासनिश्चयस्मृतीनां बुद्धिवृत्तित्वा-
द्बुद्ध्याश्रयत्वम् । यदा तु शरीराभिमतिर्मोक्षशास्त्रीयसाधनैर्नाशमेति तदा तन्मूलास्तेऽपि नश्यन्ति ।
ज्योतिर्ब्राह्मणे आत्मज्योतिष्टमुपक्रम्य स समानः सन् इति अहंकारसामानत्वेन सधियः स्वात्मक-
बुद्ध्ववभासकतया स्वात्मकत्वादहंकारो बुद्ध्या सहितः स्वापं पश्यतीति स्वप्नज्ञानमहंकाराश्रयम् ।
चित्तं तु सुषुप्तावात्मानं पश्यत्यैक्येन अन्यदा तु लीनमिति निर्विषयं ज्ञानं चित्ताश्रयमेवं दशधा ।
तदिदं षड्विधं जन्यमन्तःकरणधर्मः 'कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भी-
रित्येतत्सर्वं मन एव' इति श्रुतेः । स्थिरं च घटादिवत् न च त्रिक्षणावस्थायित्वम् । 'प्रसन्नचेतसो
ह्याशु बुद्धिः पर्यवतिष्ठते,' 'स्थिरबुद्धिरसंमूढः,' 'ज्ञानं यथा न नश्येत' इत्यादिवाक्येभ्यः । न
चैकज्ञानं सार्वदिकं स्यादिति शङ्क्यं, विषयान्तरज्ञानसामग्र्या जातेन ज्ञानेन तद्बाधात् । नचैव-
मस्थिरत्वं शङ्क्यं, संस्काराख्यसूक्ष्मरूपेणावस्थानोपगमात् । न चैवमनुव्यवसायापत्तिस्तस्येति वाच्यम् ।
व्यासङ्गापि गन्धस्य घ्राणेन ग्रह एव स्फुरणवन्मनसा तस्य ग्रहण एव स्फुरणात् । न च गन्ध-
स्यागन्तुकत्वेन दृष्टान्तासाम्यमिति वाच्यं, रजसा व्यापारान्तरावेशेनोपपत्तेः । तमसा तदावरणाच्च
तथा । न चैवं स्मृत्यजनकस्याप्यनुभवस्य स्थिरत्वापत्तिः । इन्द्रियैर्बुद्धिजनननोत्तरं पौनःपुन्याभाववेन
अदार्थात्, ज्ञानस्य तु लोकशास्त्राहितात्सिद्धिः । न चाधिष्ठानानिर्वान्च्यता प्रयुक्ता तत्स्थित्यशक्य-
वचनेति वाच्यम् । अन्तःकरणाधिष्ठानकत्वात् । अनिर्वचनीयत्वस्य निरस्तत्वात् । विरुद्धवृत्ति-
तिरोभाव्यत्वाङ्गीकारान्न तन्नाशानुषपत्तिरिति प्रासङ्गिकं ज्ञेयम् । प्रकृते । विधिमन्त्रादीति । आदिना
ब्राह्मणम् । यथाऽसावित्यादि । न व्यरोच्यत मेघाद्याच्छन्नोसावादित्यो न विगतदीप्तिमान्जात इति
'सौर्यं चरुं ब्रह्मवर्चसकामो निर्वपेत्' इति सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः इत्यस्योत्पत्तौ सौर्य-
प्रथमङ्गस्यैव तजनकवाक्योपयोग इत्यर्थः । इदं पूर्वतन्त्रे सप्तमस्य चतुर्थे पादे 'इतिकर्तव्यता-
विधेर्यजतेः पूर्ववत्त्वम्' इत्यधिकरणे चिन्तितम् । यदि च 'असौ आदित्यो न विशेषेण दीप्तिमान्जातः'
इति पक्षोपि विभाव्यते, तदापि स एवार्थः । चरुस्तु दशमे 'चरुर्हविर्विकारः स्याद्विज्यासंयोगात्'
इत्यधिकरणे ओदनविशेषो न तु स्थाली, 'सौर्यम्' इति देवतासंयोगादिति चिन्तितम् । यद्योक्षा स्थाली
षदरिति पर्यायतावाचकं निघण्टुवचनं तदपि 'हव्यपाके चरुः पुमान्' इति निघण्टुन्तराद्-
74
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७५
भेदानामभावात् । प्रकृते तु माहात्म्यज्ञानार्थं तदुपयोगः । तस्य च ज्ञानोपयोगो
भाष्यप्रकाशः ।
यथावाप वै सोमेनेजानादित्यत्राष्टाक्षरा गायत्रीत्याग्नेयपुरोडाशीयेऽष्टाकपालत्वरूपे प्रकारे ।
यथाच, 'वायव्यं क्षेपिष्ठेत्यादीनां भूत्यादिरूपे फले । न तथा ब्रह्मणि । नित्यत्वात् सदैकरसत्वात्
स्वस्यैव फलत्वाच्च । अस्ति तु माहात्म्यज्ञानार्थमुपयोगः । माहात्म्यं च सदेव ज्ञातं फलाय, न
त्वसत् । असत्त्वे तदधिष्ठानस्यासमर्थतायां ततः फलाभावप्रसङ्गात् । तदाहुः तस्य चेत्यादि । माहा-
त्म्यज्ञानेन भक्तिद्वारा साक्षात्कारोपयोग इति फलाध्याये प्रथमपादे, 'आदित्यादिमतयः' इतिसूत्रे
वक्ष्यत इत्यर्थः । नन्वस्तु ब्रह्मणि माहात्म्यज्ञानार्थं सृष्ट्यादिवाक्योपयोगस्तथापि तेषां विध्युप-
योगोऽवश्यं वक्तव्यः । नोचेदुपासनादिविधीनां प्ररोचनाभावेन व्यापारकौण्ठ्ये वाक्यवैयर्थ्यापत्तेः । एवं
सिद्धे तेषां विधिशेषत्वे तेषु निरूप्यमाणं ब्रह्मापि तच्छेषमेवेत्युत्तरकाण्डस्य न तत्प्रतिपादकत्वम् ।
रश्मिः ।
विरुद्धम् । यथावापेति । एवं श्रूयते 'आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वास-
यिष्यन्द्यदष्टाकपालो भवति अष्टाक्षरा गायत्री' इति । अन्यत्र च 'आप वै सोमेनेजानाद् देवताश्च
यज्ञञ्च क्रामन्त्याग्नेयं पञ्चकपालमुदवसानीयं निर्वपेत् अग्निः सर्वा देवताः' इति, तथापि अप वा
इत्याद्यष्टाक्षरेषु गायत्रीत्वकल्पना । यथा यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति
इत्यत्र अष्टत्वादिसंख्यासामान्यात्पुरोडाशानां गायत्रीत्वकल्पना । प्रथमस्य चतुर्थे 'पूर्ववन्तोऽवि-
धानार्थास्तत्सामर्थ्यं समाम्नायः' इत्यधिकरणेऽस्ति यतोऽष्टाक्षराण्यतोऽष्टाक्षरा गायत्री अतोऽष्टा-
कपालमिति संख्यातात्पर्यकथनेनोपयोग इत्यर्थः । यथा च वायुरित्यादि । प्रथमस्य द्वितीयपादे
'आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते' इत्यधिकरणे 'वायुर्वै क्षेपिष्ठा' इत्यस्य
'वायव्यं श्वेतमालभेत भूतिकामः' इत्युपयोग इति चिन्तितम् । अत्र प्रथमोर्थवादो निन्दारूपेण विधि-
शेषभूतः प्राशस्त्येन वा विधिशेषभूतः । द्वौ प्राशस्त्येनैव विधिशेषभूतौ तथा नार्थवादलक्षणं 'प्राशस्त्य-
निन्दान्यतररूपेण विधिशेषभूतं वाक्यमर्थवादः' इति मीमांसाप्रदीपे । न तथा ब्रह्मणिति ।
त्रेधा तेषामुपयोग इत्यन्वयः । अत्र हेतुनाहुर्नित्यत्वादिति । प्रथमज्ञप्तिष्वपि सत्यमित्यादिवा-
क्येनोत्पत्तिवाक्यत्वम् । प्रथमज्ञप्तेः साध्यविषयिण्या विवक्षितत्वात् उत्पत्तिपदस्वारस्यात् । अत उक्तं
नित्यत्वादिति । सदैकरसत्वात्स्वकाराभावः, स्वस्यैव फलत्वाच्च फलान्तराभावः । अतो न धर्म
इव उपयोग इत्यर्थः । तदानीं कयमुपयोगो ब्रह्मणि इत्यपेक्षायां प्रकृते त्वित्यादि भाष्यं विवृण्वन्ति
अस्ति त्विति । तत्त्वमस्यादिवाक्योक्तमैक्यमपि माहात्म्यमिति न पृथगुक्तम् । तस्य चेत्यादि
भाष्यमवतारयन्ति माहात्म्यं चेति । असमर्थतायामिति निर्गुणत्वेन फलदातृत्वरूपगुणस्या-
प्याभावेनासमर्थतायामित्यर्थः । तत इति फलदातृत्वशून्यादित्यर्थः । भक्तिद्वारेति इदं च तत्रै-
वोपपादयिष्यते । प्ररोचनाभावेनेति अर्थवादाभावेन । यः स्तूयते स विधीयते इति नियमप्रवृ-
त्त्यभावाद्धिधिरूपव्यापारस्य छान्दसत्वेनान्यनिष्ठत्वरूपे कौण्ठ्ये इत्यर्थः । वाक्येत्यादि उपासनादि-
विधिशेषवाक्यस्य निष्फलत्वरूपवैयर्थ्यापत्तेरित्यर्थः । तच्छेषमिति उपासनाविधिशेषमित्यर्थः ।
नेति ब्रह्मणं उपासनायाः सकाशात्मुख्यत्वेऽनधिगतार्थगन्तृत्वाभावेनाप्रामाण्यापत्त्या नेत्यर्थः ।
75
७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
यथा तथा वक्ष्यते चतुर्थे । उपासनादर्शनादिपदानां मनोव्यापारत्वमेव ।
विचारस्यापि यथा ज्ञानोपयोगित्वं, तथाग्रे वक्ष्यते ।
किञ्चौपनिषदज्ञानस्यापि कर्मोपयोगित्वम् । 'यदेव विद्यया करोति श्रद्ध-
योपनिषदा वा तदेव वीर्यवत्तरं भवति' इति । अत एव ब्रह्मविदामेव जनकादीनां
भाष्यप्रकाशः।
ततश्च सिद्धावुत्तरमीमांसाया गतार्थत्वानुपयोगावित्याकाङ्क्षायामाहुः उपासनेत्यादि । अस्त्वे-
वम् । तथापि विधेयानामुपासनाज्ञानादीनां मनोव्यापाररूपतया सविषयत्वेन विषयाधीन-
त्वात् तद्विषयस्य ब्रह्मणो न मुख्यत्वं हीयते । अहीयमाने च तस्मिन्नितरप्रमाणागोचरस्य तस्य
ज्ञानायोत्तरकाण्डविचारस्यावश्यकत्वान्न तन्मीमांसाया गतार्थत्वानुपयोगावित्यर्थः । ननु तथापि
ब्रह्मण आसंसारं प्रसिद्धानुभावत्वात् तज्ज्ञाने विचारस्यानुपयोगाद् वैयर्थ्यमस्य शास्त्रस्यानिवार्य-
मित्यत आहुः विचारस्येत्यादि । अग्रे वक्ष्यत इति तृतीयस्य द्वितीयपादे, उभयव्यपदेशाद्यधि-
करणेपु वक्ष्यते ।
उपासनार्थमेव न ब्रह्म जिज्ञास्यं, किंतु पूर्वकाण्डोक्तेपि कर्मणि मुख्यफलार्थं तदवश्यं
जिज्ञास्यमिति, नास्यागतार्थत्वानुपयोगावित्याहुः किञ्चौपनिषदेत्यादि । निगदव्याख्यातमेतत् ।
तथाच त्रैवर्णिकाधिकारपक्षो दोषरहित इत्यर्थः ।
रश्मिः।
गतार्थत्वानुपयोगाविति जैमिनीयचतुर्लक्षण्यास्तयेत्यर्थः । अस्ति ससग्रहाणां ब्रह्मत्वोपपादिका
जैमिनीयचतुर्लक्षणी वैयासिकी वा । अस्त्वेवमित्यादि भाष्ये पदशब्दो व्यवसितौ 'पदं व्यवसित-
त्राण' इत्यमरात् । तथा च उपासनादर्शनादिनिश्चितानां 'आत्मेत्येवोपासीत,' 'आत्मा वा
अरे द्रष्टव्यः,' 'य एवं वेद' इत्यादि श्रुतिनिश्चितोपासनादर्शनज्ञानानामिति यावत् । इत्येवं भाष्यार्थं
मत्वाहुः विधेयानामिति । निश्चयेन विधेयानां न तु उप समीपे स्थित्वा यथायोग्यकरणरूपाया-
स्तस्या अविहितत्वमपीति । मन इति 'कामः संकल्पः' इत्यारभ्य 'सर्वं मन एव' इति श्रुतेः ।
न च धियो व्यापारत्वं श्रुत्या सिद्ध्यति न तु उपासनायाः उप समीपे स्थित्वा यथायोग्यकरणरूपाया
इति वाच्यं, धीवत् तस्या अपि व्यापारसापेक्षत्वात् । इतरप्रमाणागोचरस्येति । 'मनसैवानु-
द्रष्टव्यम्' इति श्रुतेस्तथेत्यर्थः । अनुमानाद्यगोचरस्येति वा । ज्ञानायेति । शोषितया शाब्दज्ञाना-
येत्यर्थः । वक्ष्यत इति विरुद्धधर्माश्रयत्वस्य आसंसारमप्रसिद्धस्य स्थापनं वक्ष्यत इति । तदर्थं
इदं शास्त्रं इति वैयर्थ्यं निवार्यमित्यर्थः । मुख्यफलार्थमिति 'अक्षय्यं ह वै चातुर्मास्ययाजिनः
सुकृतं भवति' इति श्रुतमक्षय्यं ब्रह्मलोकाख्यं फलं तदार्थमित्यर्थः । ज्ञानद्वारेति ज्ञेयम् । एतदक्षर-
धियामित्यधिकरणे वक्ष्यते । तेन न फलव्यभिचारो भक्तेः । एतेन अन्योन्याश्रयोपि नेति ज्ञापितम् ।
अनुष्ठाने तु श्रुतिभ्यामन्योन्याश्रयो वर्तत एव प्रमितावुक्तान्योन्याश्रयपरिहारोत्राप्यारोप्यः'
ब्रह्मजिज्ञासया धर्मजिज्ञासा नाश्रीयेत इति धर्मविचारानन्तर्यस्य प्राक्खण्डनात् । निगदेत्यादि ।
निगदेन व्यक्तरवेण 'यदेव विद्यया' इत्यादिना भाष्ये व्याख्यातम् । किञ्चौपनिषदज्ञानस्यापि कर्मोप-
योगित्वमित्येतदित्यर्थः । तथा चेति । उभयोर्मीमांसयोरेकविधेयैकवाक्ये नेत्यर्थः । दोष-
रहित इति । कर्माधिकृताधिकारित्वादुत्तरमीमांसाचतुरोपि वर्णानधिकुर्यादिति दोषरहित इत्यर्थः ।
१. व्यक्तरवेण पाठमात्रेण ।
76
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १७
कर्मणि सर्वदेवसान्निध्यम् । अन्यथा आभासत्वमेव । नच ब्रह्मरूपात्मविज्ञाने
देहाद्यध्यासाभावेन कर्तृत्वाभावात् कर्मानधिकार इति वाच्यम् । निरध्यस्तैरेव
देहादिभिः कर्मकरणसंभवात् । अत एव जीवन्मुक्तानां सर्वे व्यापाराः ।
तथाच स्मृतिः ।
'नैव किंचित् करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन् श्वसन् ॥
प्रलपन् विसृजन् गृह्णन्निमिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा' ॥ इति ।
अतो ब्रह्मविदामेव कृतं कर्म शुभफलं भवति । अतो धर्मविचारकाणामपि
ब्रह्म जिज्ञास्यमेव । तस्मान्न गतार्थत्वानुपयोगी ।
ननु फलप्रेप्सुरधिकारी । फलं च विचारस्य शाब्दं ज्ञानं, तस्य मननादि-
द्वाराऽनुभवः, तस्य चानर्थनिवृत्तिपूर्वकपरमानन्दावाप्तिः । तथाच विरक्तोऽनर्थ-
जिहासुः परंप्रेप्सुश्चाधिकारी कस्मान्न भवति ।
'शब्दब्रह्मणि निष्णातो न निष्णायात् परे यदि ।
श्रमस्तस्य फलं मन्ये ह्यधेनुमिव रक्षतः' ॥
भाष्यप्रकाशः ।
एवं त्रैवर्णिकाधिकारपक्षे स्थिरीकृते आनन्तर्यवादी पुनः शङ्कते नन्वित्यादि । सिद्धान्ते
ज्ञानविधिनार्थज्ञानप्राप्तेस्तत्र कैमर्थ्याकाङ्क्षायामुक्तप्रणाल्या, 'ब्रह्मविदाप्नोति परम्' इतिश्रुत्युक्तपर-
प्राप्तिरूपफलार्थमिति वक्तव्यम् । अन्यथा प्रवृत्तिविघातापत्तेः । तत्कथने च सिद्धमस्मदुक्तेनाधिका-
रिणा । तदेतदुक्तं कस्मान्न भवतीति । अथ वक्तव्यं, सूत्रे ब्रह्मजिज्ञासापदात् तज्ज्ञानस्यैव फलत्वं
लभ्यत इति प्रणालीसिद्धफलपर्यन्तता किमर्थमङ्गीकार्येति । तथा सति श्रीभागवतोक्तकेवलार्थवि-
न्निन्दाशास्त्रविरोधापत्तिः । अतस्तद्भावायोक्तफलपर्यन्तताऽवश्यमभ्युपेया । ततश्च सिद्धमुक्तेनाधि-
रश्मिः ।
भाष्ये सर्वदेवसान्निध्यमिति एतच्च श्रीभागवते स्फुटम् । अन्यथेति ब्रह्मवित्त्वाभावे इत्यर्थः ।
तस्यैवानुवादादेवकारः । देहाद्यध्यासाभावेनेति देहेन्द्रियादित आत्मनोऽविवेकाभावेनेत्यर्थः ।
तत्त्वविदिति जीवप्रत्यक्षज्ञानवानित्यर्थः । धर्मविचारकाणामिति मुख्यफलप्रेप्सूनामित्यर्थः ।
विशेषणमिदं न त्वर्थः । प्रकृते । आनन्तर्येति । आनन्तर्यवादी व्यवहारे भाट्टः । ननु फलप्रेप्सु-
रित्यादि युष्मदुपपादितं तथा चैवंविधे सिद्धान्ते कस्माद्विरक्तोऽनर्थजिहासुः परंप्रेप्सुरधिकारी न
भवतीति योजनां मन्वाना आहुः सिद्धान्त इत्यादि । कैमर्थ्याकाङ्क्षायामिति । कोऽर्थः
प्रयोजनं यस्येति किमर्थस्तस्य भावः कैमर्थ्यं तस्याकाङ्क्षायामित्यर्थः । वक्तव्यमिति सर्वात्मभावेन
भजनानन्दोपि वक्तव्यः । अन्यथेति फलाभावे इत्यर्थः । तत्कथने इति फलकथने इत्यर्थः । अस्मदु-
क्तेनेति वैराग्यशमदमादिमतेत्यर्थः । शब्दब्रह्मणीति भाष्यमवतारयन्ति अथ वक्तव्यमित्या-
दिना । श्रीभागवत इत्यादि । श्रीभागवतोक्तं यत्केवलार्थविषयकशाब्दज्ञानवतो निन्दाशास्त्रं
77
७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
इति भगवद्वचनात् केवलस्य निन्दाश्रवणादिति चेत् । न । फलकामनाया
अनुपयोगात् । अन्येनैव तत्समर्पणात् । नित्यत्वाच्चार्थज्ञानस्य न फलप्रेप्सुरधि-
कारी । निन्दार्थवादस्तु मननादिविधिशेष इति मन्तव्यम् ।
भाष्यप्रकाशः ।
कारिणेत्यनङ्गीक्रियमाणोऽपि वैराग्याद्यानन्तर्यपक्षोऽधिकारिबलादापतित इत्यर्थः ।
अत्र समादधते नेत्यादि । विचागधिकारित्वेन फलकामना तदोपयुज्येत, यदि ब्रह्म जिज्ञासा-
पदात् प्राप्येत। तन्न । अनन्यलभ्यस्य शब्दार्थत्वात् । अतस्त्रैवर्णिकोऽर्थजिज्ञासुरेवाधिकारी । फल-
कामना तु, ब्रह्मविदाप्नोति परमित्यादिवाक्यार्थे ज्ञात उत्पद्यत इति तेन समर्पिता । फलं चार्थज्ञानस्य
नैकम् । भार्गव्यां विद्यायामन्यत्र च, य एवं वेद प्रतितिष्ठतीत्यादिफलान्तराणामपि श्रवणात् ।
ततश्च भवदभिमताधिकार्यङ्गीकारेऽन्येषामनधिकारेण विचारे प्रवृत्तौ विहितायां तच्छास्त्रमेव व्यर्थं
स्यात् । अतस्तदभावायार्थजिज्ञासोरेवाधिकारित्वं वक्तव्यम् । अर्थज्ञानं च नित्यम् । ‘स्थाणुरयं
भारहारः किलाभूदधीत्य वेदं न विजानाति योर्थम्’ इत्यादिष्वनर्थज्ञानिनिन्दाश्रवणात् । अतोर्थ-
ज्ञानस्य नित्यत्वं ज्ञात्वा यो जिज्ञासति स एव मुख्योऽधिकारी । नच निन्दार्थवादविरोधः । तस्य
मननविधिशेषत्वात् । शब्दब्रह्मणि निष्णातकथनोत्तरं तत्कथनेन तथार्थस्य लाभात् । विचारं विना
रश्मिः ।
शब्दब्रह्मणीत्यादि तस्य विशेषापत्तिरित्यर्थः । निष्णातोऽर्थविषयकशाब्दज्ञानवान्परं साधनैर्न
निशामयेत् । अधेनुमप्रसूतिं गां रक्षतः श्रम इवेति वाक्यविषमपदार्थः । अत इति जिज्ञासापदा-
दित्यर्थः । एवेति ‘तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम्’ इति वाक्यादेवकारः । अन्येनैवेत्यादि
भाष्यं विवृण्वन्ति फलकामनेत्यादि । ज्ञात उत्पद्यत इति फलकामनायाः फलेच्छारूपत्वेन
जानाति इच्छति यतते इति ज्ञाते उत्पद्यते । एवकारसाफल्याद्युक्तिमप्याहुः फलं चेत्यादि ।
फलान्तराणामिति । प्रतिष्ठाश्रवत्त्वान्नादत्वादिनामित्यर्थः । अन्येषामिति परंप्रेप्सोरतिरिक्तानां
प्रतिष्ठादिप्रेप्सूनामित्यर्थः । तच्छास्त्रमिति । ‘य एवं वेद प्रतितिष्ठति’ इत्यादि फलान्तरनिरू-
पकं शास्त्रमित्यर्थः । युक्तिस्तु यदि अर्थजिज्ञासुरधिकारी स्यात् फलान्तरनिरूपकं शास्त्रं व्यर्थं स्यादिति ।
नित्यत्वादित्यादि भाष्यं विवृण्वन्ति अर्थज्ञानं च नित्यमित्यादि । निन्दार्थवाद इति भाष्यं
विवृण्वन्ति न च निन्दार्थवादेत्यादि । तस्य मननेत्यादि तस्य निन्दार्थवादस्य । ‘नहि निन्दा
निन्द्यं निन्दितुं प्रवर्तते अपि तु विधेयं स्तोतुम्’ इति न्यायेन परं मन्वीत इत्याक्षिप्तस्य विधेः शेषत्वात् ।
तया च अर्थज्ञानवतः परादृष्टः श्रमः श्रमफल इति परं द्रष्टुं मन्वीतेति । यथा ‘प्रातः प्रातरनृतं वदन्ति
पुरोदयाज्जुह्वति येऽग्निहोत्रम्’ इत्यस्यानुदितहोमनिन्दार्थवादस्योदितहोमस्तावकत्वं तद्वत् । ननु शब्द-
ब्रह्मपाठी तदर्थज्ञानवांश्च भवेत्तदा दोष इति वदत्कथं परे व्यापृणोतीति चेत्तत्राहुः शब्दब्रह्मणी-
त्यादि । तथार्थस्येति उक्तार्थस्येत्यर्थः । तथा च निष्णातपदमहिम्ना परे व्यापृणोतीति भावः । नन्वे-
तर्ह्यपि दर्शनविधिशेषत्वमस्तु तत्राहुः विचारमिति । तथा चावश्यकत्वान्न मननविधिशेषत्वमित्यर्थः ।
अथवा ‘आत्मा वा अरे’ इति श्रुत्युक्तमननविधिशेषत्वादित्यर्थः । विधिशब्देन पूर्वं पूर्वमीमांसायां
तव्यो विधौ न त्वावश्यके, आनन्तर्यवादिना व्यवहारे वयं भाट्टा इति वक्तृत्वात् । भाष्ये तु
१. य एवं वेद प्रतितिष्ठतीत्यादिफलान्तरनिरूपकं शास्त्रम् ।
78
... wait! Is that 'र्' on top of something?
Let's re-examine:
जीव (jīva) + ईश्वर (īśvara)?
Wait, in Sanskrit "जीवेश्वरयोः" or "जीवैश्वरयोः"? No, not जीवैश्वर.
What about "जीवैरक्षरयोः"?
Wait, look at the next words:
"विरोधि..." (L24: विरोधनिरकरणेन प्राप्यप्रापकभावः साधनेनाधाराधेयभावः परेण संभवति ।)
Notice the pairs:
- ... विरोधनिरकरणेन
- प्राप्यप्रापकभावः साधनेन
- आधाराधेयभावः परेण संभवति ।
Wait! Look at the three relations:
- आधाराधेयभावः परेण संभवति (with Para Brahman)
- प्राप्यप्रापकभावः साधनेन (with Sadhanadhyaya / 3rd Adhyaya)
- विरोधनिरकरणेन ... (with Avirodhadhyaya / 2nd Adhyaya)
And what is the relation in the 1st Adhyaya (Samanvayadhyaya)?
उपपाद्योपपादकरूपः!
Samanvaya establishes the उपपाद्य-उपपादक-भाव!
Avirodha establishes the विरोधनिरकरण!
Sadhana establishes the प्राप्य-प्रापक-भाव!
Phala establishes the आधाराधेय-भाव!
WOW! The 4 Ad
Here is the line-by-line Devanagari transcription of the provided page:
८० श्रीमद्ब्रह्मसूत्राणुभाष्य [अ० १ पा० १ अ० १ सू० १
भाष्यप्रकाशः।
ज्ञानानुदयेन प्रतिज्ञावैयर्थ्यप्रसङ्गात् । तथाच कर्मषष्ठ्यङ्गीकारे द्वितीयाध्यायादीनामाकस्मिकत्वम् ।
शेषषष्ठ्यङ्गीकारे व्याकरणविरोधो, ब्रह्मण इतरतौल्याद् गौणत्वापत्तिश्चेत्युभयतःपाशारज्जुरित्यर्थः ।
अत्र समादधते नेत्यादि । कृद्योगे कर्मणिषष्ठ्यनुशासनेऽपि विभक्तीनां विवक्षाधीनत्वात्
समासस्य सामर्थ्यमात्रापेक्षित्वाच्च ब्रह्मणः कर्मत्वे अविवक्षिते कर्मषष्ठ्यभावेन शेषषष्ठयामपि साम-
र्थ्यात् समाससिद्धेर्व्याकरणविरोधाभावः । सर्वेषां प्रतिज्ञातत्वसिद्ध्या न कस्याप्याकस्मिकत्वम् ।
रश्मिः।
सूत्रमित्यर्थः । तथा च ब्रह्मजिज्ञासाधिक्रियते इति पदार्थफलकभाष्यम् । अधिकारार्थ एव
ज्ञेयानिति । अवचन इति । प्राप्त इत्यत्र ज्ञेयम् । व्याकरणविरोध इति 'कर्तृकर्मणोः
कृति' इति सूत्रविरोध इत्यर्थः । उभयतःपाशारज्जुरिति उभयतो बन्धनरज्जुरश्वादिरर्थ्या उभयदेशे
निवृत्तव्यापारो भवति तथा संपन्नमित्यर्थः । अथवा उभयतः पाशौ बन्धनसाधने ग्रन्थी यस्याः
सोभयतःपाशा तादृशी रज्जुर्लाहरणविशेषादौ प्रसिद्धा कचित् । विवक्षाधीनत्वादिति षष्ठ्याहुः
कर्मादीनामपि संबन्धमात्रविवक्षायां षष्ठ्येवेति । सामर्थ्यमात्रेत्यादि 'समर्थः पदविधिः' इति
सूत्रादित्यर्थः । समासादिवृत्तौ वृत्तित्वेन सामर्थ्यमिह व्यपेक्षा नास्ति अपित्वेकार्थीभावः । स च
विशेषणविशेष्यभावावगाहुपस्थितिजनकतं संसृष्टार्थं समर्प्यमिति भाष्योक्तेरिति शेखरे। पदविधि-
रिति पदमुद्दिश्य यो विधीयते समासादिः स समर्थ इत्युच्यते तथा च सामर्थ्यमित्यवसेयम्।
तद्विग्रहवाक्यार्थाभिधाने शक्तत्वमिदमेव एकार्थीभाव इति व्यवह्रियते, व्यपेक्षेति नैयायिकाः,
तत्र एतौ अजहत्स्वार्थायां जहत्स्वार्थायां चान्तर्भवतः । पदानि स्वाभिधेयानि न जहात यस्यां साऽ-
जहत्स्वार्था सा चावगतसामर्थ्यानां शब्दानां समासघटकानां शक्तिलक्षणाभ्यां वाक्यार्थबोधाङ्गत्वति ।
अत्र न समासादौ अन्या शक्तिः क्लृप्तशक्त्यैव निर्वाहात् तंत्यागापत्तेश्च । इयमेव व्यपेक्षा इति ।
तन्न मतान्तरमिति महाभाष्यकृत् । 'सविशेषाणां वृत्तिर्न वृत्तस्य वा विशेषणयोगो न' इति वार्तिकान् न
ऋद्धस्य राजपुरुष इति प्रयोगापत्तिरत्र । एतद्विपरीता तु जहत्स्वार्था । तत्र वृषभयावकादिपदेषु वृषभ-
वादि पदवत् समासघटकपदानां पुनर्बोधकतां विहाय समासे शक्तिः तयैव च राजसंबन्धिपुरुष-
बोध इति एकार्थीभावः । अन्यथा ऋद्धस्य राजपुरुष इत्यापद्येत । इत्येवंविधसामर्थ्यमात्रापेक्षित्व-
दित्यर्थः । अविवक्षित इति सर्पिषो जानीते इतिवदविवक्षित इत्यर्थः । कर्मषष्ठ्यभावेनेति ।
'यतो वाचो निवर्तन्ते' इति श्रुतेः कारकत्वाभावादपि कर्मषष्ठ्यभावेनेत्यप्यर्थो बोद्धव्यः । समास-
सिद्धेरिति 'कृद्योगा च षष्ठी समस्यते' इत्यत्र शेषे षष्ठ्यपि कृद्योगेति समाससिद्धेः । सर्वेषामिति
ननु सर्वेषामित्यत्र निविष्टपुरुषमुख्यत्वेऽप्यक्षरस्य वेदार्थत्वेन वेदवाचकब्रह्मपदोपादानाच्चतुरःसरं सर्वेषां
प्रतिज्ञानत्वसिद्धेः परस्य पुरुषोत्तमस्य जगद्व्यापारवर्ज्याधिकरणेऽपि विषयस्याप्रतिज्ञानार्थत्वमिति
चेन्न । ब्रह्मपदवाच्यवेदामिधेयत्वस्याक्षर एव तात्पर्यवृत्त्या प्रतिपाद्यत्वस्य परे सत्त्वात् । 'सर्वे वेदा
यत्पदमामनन्ति' इति श्रुतेः । तथाच ब्रह्मजिज्ञासेत्यस्सा ब्राह्मीमिक्षा ब्रह्मसंबन्धिनी जिज्ञासेति बोधः ।
तथा चोक्तम् ।
'जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा ।
भेदः संसर्ग उभयं वेति भाष्यव्यवस्थितेः' । इति भूषणे ।
अर्थस्तु त्रैविध्यं वदंस्तत्र भेद इत्यादि । भेदः अन्योन्याभावः । व्यर्थोयं प्रयास इति चेन्न ।
80
तज्ज्ञानोपयोगि सर्वमेव प्रतिज्ञातं भवितव्यम् । नच गौणतापत्तिरजिज्ञास्यत्वं
च स्यादिति वाच्यम् । ब्रह्ममात्रे संदेहाभावात् । संदिग्धस्यैव जिज्ञास्यता ।
गौणत्वं तु शब्दत एव, न त्वर्थतः ।
भाष्यप्रकाशः ।
तर्हि गौणत्वादजिज्ञास्यत्वे स्थाप्येतामित्यत आहुः नचेत्यादि । केन प्रकारेणाजिज्ञास्यत्वमापाद्यते ।
किं ब्रह्मत्वेन, उत रूपान्तरेण । तत्राद्ये त्वोमिति ब्रूमः । अध्ययनादिदशायां, 'सत्यं ज्ञानमनन्तं
ब्रह्म' इत्यादिवाक्यार्थावधारणादेव तत्स्वरूपे सत्तायां च संदेहाभावात् । किंतु यत्तु वेदे लक्षितं
ब्रह्म, तत्किम् । येन वेदे नानापदार्थानां लक्षितत्वेऽप्याम्नायव्याख्यानरूपे भारते विवृतत्वेऽप्येत-
रश्मिः ।
राजपुरुषः सुन्दर इतिवद्राजपुरुषो देवदत्तस इति वारणायाभ्युपगमात् । भेदस्य वाच्यत्वे तु
तद्विरुद्धोयमप्रयोगः । संबन्धस्यैव सार्वजनीनत्वादाह संसर्ग इति । एतदुभयं वाच्यमस्तु विनि-
गमनाविरहादस्माकमपि राजपुरुष इत्यापत्तेश्चेत्याह उभयं वेति । तथाचाराजकीयभिन्नो राजसंब-
न्धवांश्चायमिति बोधः । व्यपेक्षावादिनस्तु राजपुरुष इत्यत्र राजसंबन्ध्यभिन्नः पुरुष इति बोधः ।
राजपदस्य राजसंबन्धिनि लक्षणेत्यभ्युपगमात् । सविशेषणराजपदस्य सविशेषणतत्संबन्धिनि लक्ष-
णोपगमात् । न शोभनराजपुरुष इत्यादौ एकदेशे राज्ञि शोभनान्वयानुपपत्तिः । उक्तं शिष्टमेव । एवं
सति पूर्वतन्त्रीयो निषादस्थपतिं याजयेदित्यत्र लक्षणादोषग्रस्तो न षष्ठीसमासः किंतु कर्मधारय इति
सिद्धान्तः संगच्छते इति वदन्ति । तथा च ब्रह्मसंबन्धिनी जिज्ञासेत्येव बोधः । इत्यत आहुरिति
इति रूपमाशङ्क्य प्रतिविधानमाहुरित्यर्थः । ब्रह्ममात्र इत्यादि भाष्यं विवृण्वन्ति केनेत्यादि ।
रूपान्तरेणेति वेदलक्षितत्वेन सर्ववेदार्थनिर्वाहकत्वेन सर्वविरुद्धधर्माश्रयत्वेनेत्यर्थः । तत्स्वरूपे
सत्तायां चेति सत्यज्ञानानन्दाः स्वरूपभूताः 'अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति
श्रुतेः सत्ता । यथा चन्द्रमसि द्वये चित्स्वरूपे आनन्दस्वरूपता, यच्चजनकं तत्तद्गुणकमिति वक्ष्य-
माणख्यातेः । दृष्टान्तत्वात्वानन्दगुणकता अत एव साकारता । तथाच श्रुत्यन्तरं 'सत्यं ज्ञान-
मानन्दं ब्रह्म' इति 'आनन्दरूपममृतं यद्विभाति' इति च । इदानीं शेषषष्ठीपक्षं समर्थयन्तः
संदिग्धस्यैवेत्यादि भाष्यं विवृण्वन्त अन्यद्रूपमाहुः किंतु यत्त्वित्यादि । यद्वेदे जगत्कर्तृत्वादिना
रूपान्तरेण लक्षितं ज्ञापितं ब्रह्म तदजिज्ञास्यमिति वक्तव्यमिति सङ्क्षेपायोजना । किं त्विति वितर्के ।
तथा च वेदलक्षितत्वेन रूपान्तरेण तत्राजिज्ञास्यत्वमापादनीयमित्यर्थः । अत्र पृच्छन्ति किमिति
तत्किमित्यर्थः । देहलीदीपन्यायेन तदित्यस्योभयान्वयित्वात् । एवमापादनं किंहेतुकमिति प्रश्नः
न संभवतीति फलितोर्थः । तत्र हेतुमाहुः येन वेद इत्यादि । येनेत्येतज्जिज्ञासेत्यनेनान्वेति ।
तथा च वेदे नानापदार्थानामन्नादीनां जगत्कर्तृत्वेन लक्षितत्वेऽप्याम्नायव्याख्यानरूपे भारते विवृत-
त्वेपि येन हेतुनैतस्य लक्षितब्रह्मणो जिज्ञासा प्रस्तूयते अतोस्य संदिग्धत्वेन जिज्ञास्यत्वमित्यर्थः ।
तथा चान्नादि ब्रह्म आनन्दो वा ब्रह्म इत्येवं संदिग्धस्यैव जिज्ञास्यतेति भाष्यार्थः । अथवा प्रकृ-
त्यादिगतं जगत्कर्तृत्वं ब्रह्मगतं वा तत् । अथवा 'क्रियाशक्तिज्ञानशक्ती संदिह्येते परस्थिते' इति
हृदयम् । उक्तजिज्ञासाप्राप्तावस्तु जन्माद्यस्य यतः इति सूत्राद् बोध्या । यदीत्यादि यदि ब्रह्मज्ञानस्य
मोक्षसाधनत्वेन हेतुना एतज्जिज्ञासैव प्रस्तूयते इति मन्यते तर्हि कथमन्नादिज्ञानेषु ब्रह्मज्ञानस्यैव मोक्ष-
जिज्ञासैव प्रस्तूय' । यदि तज्ज्ञानस्य मोक्षसाधनत्वेन, तर्हि कथं तज्ज्ञानस्यैव तथात्वम् । यदि
वेदार्थत्वेन तज्ज्ञानस्य तथात्वं, तदा धर्मविचारेणैव गतार्थता । षोडशलक्षण्या सर्वस्यैव तस्य
निर्णीतत्वात् । अत एव न वेदान्तार्थत्वेन । अतः सर्ववेदार्थतानिर्वाहकवक्ष्यमाणरीतिकगुणवत्तया
जिज्ञास्यत्वं वक्तव्यम् । ततश्च तादृशगुणवत्त्वेनैतस्य जिज्ञासाप्रसिद्धेर्नाजिज्ञास्यत्वम् । नापि गौणत्वा-
पत्तिः । गुणजातस्य ब्रह्मसंबन्धित्वेन जिज्ञास्यतया ब्रह्मणो मुख्यत्वस्यैव सिद्धेः । शब्दतो गौणत्वं
साधनत्वमित्यर्थः । ब्रह्मण एव वेदार्थत्वादुपपन्नमित्याह यदि वेदार्थत्वेनेत्यादि । अतस्त-
जिज्ञासैव प्रस्तूयत इति पूर्वेणान्वयः । अथापि नतरां जिज्ञास्यमित्याहुः तदा धर्मेत्यादि । षोडश-
लक्षण्येति उक्तार्थमेतत् । अत एवेति धर्मविचारेङ्गतया ब्रह्मविचारस्य प्रविष्टत्वादुक्तहेतोरेवे-
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८३
वेदप्रामाण्यं तु प्रतितन्त्रसिद्धत्वान्न विचार्यते ।
भाष्यप्रकाशः ।
तु न स्वरूपमुख्यत्वविघातकम् । पुत्रः पित्रा सहागत इत्यादौ तथादर्शनादिति । नन्वस्त्वेवं,
तथापि वेदार्थस्य ब्रह्मणो वेदानुकूलो विचारोऽत्र प्रतिज्ञात इति तदर्थं वेदप्रामाण्यमपि विचा-
रणीयम् । तदत्र कुतो न विचारितम् । यतो न विचारितं, ततो न वेदार्थत्वेन विचार इति
पक्षो न युक्त इत्यतं आहुः वेदेत्यादि । प्रतितन्त्रसिद्धत्वादिति आस्तिकं तन्त्रमात्रं लक्ष्यीकृत्य
सिद्धत्वात् । न हि नास्तिकनिग्रहायाचार्यस्य विचारे प्रवृत्तिः, किंत्यास्तिकशिक्षणाय । ते तु सर्वे
वेदप्रामाण्ये निर्विचिकित्सा इति प्रयोजनाभावान्न विचार्यते । तावता न वेदानुकूलविचारत्वहानि-
रश्मिः ।
इति भाष्यकारिकायाः 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेर्ब्रह्मणोऽसंदिग्धत्वात् । अत एव
'जन्माद्यस्य यतः' इत्यधिकरणे क्रियाशक्तिर्निरूपिता । ततश्च ब्रह्मण इति शेषषष्ठी न कर्मणि ।
'तद्विजिज्ञासस्व' इतिश्रुतौ जिज्ञासाया विचारार्थकत्वे तच्छब्दाल्लब्धा लुक् ब्रह्मणः कर्म-
त्वाभावात् । किंतु ज्ञानशक्तेः क्रियाशक्तेर्वेदस्य कर्तृत्वम् । यद्वा तद्विजिज्ञासस्व इत्यर्थ-
विषया अन्नादिरूपार्थब्रह्मपरत्वात् सूत्रे वेदान्तशब्दविषये न प्रवर्तत इति । तथादर्शनादिति
पित्रेति सहार्थतृतीयान्तशब्दस्य पितृस्वरूपमुख्यत्वविघातकत्वाभावदर्शनादित्यर्थः । न वेदार्थ-
त्वेनेति वेदानुकूलत्वान्न वेदार्थत्वेनेत्यर्थः । न युक्त इति प्रमाणवेदार्थत्वरूपप्रतियोगिज्ञाना-
भावान्न युक्तः । निर्विचिकित्सा इति । अत्र वदन्ति वैशेषिकाः शाब्दं हि उपनीतं मन्तव्यम् ।
श्रोत्रमात्रजन्यत्वात् । पदानां चोपनायकत्वात् । अन्वयधीरप्यनुमितिः एते पदार्थास्तात्पर्यविषये
मिथःसंसर्गवन्तः आकाङ्क्षादिमत्पदस्मारिततद्योग्यतासत्तिमत्त्वे सति संसर्गपरपदस्मारितत्वाद्धेत्व-
नुमानात् । घटोस्तीत्यत्र घटोऽस्तित्ववान् तद्योग्यत्वात् पटवदित्यनुमानाच्च । न चान्वयव्यति-
रेकाभ्यां शब्दस्य कारणतेति वाच्यम् । हेतुशरीरघटकत्वेन हेतुत्वेन चान्वयव्यतिरेकानुविधानो-
पपत्तेस्तत्सातिरिक्तकारणताग्राहकत्वाभावात् । तस्मान्न शब्दः पृथङ्मानं, अतो वेदस्योपनायकता-
मात्रमिति । अत्र नैयायिकास्तिष्ठन्ते, स्वाशयं प्रकाशयन्तीत्यर्थः । 'प्रकाशनस्थेयाख्यायोश्च' इति
सूत्रेणात्मनेपदम् । बाधकप्रमाणाभावो योग्यता साच न लिङ्गविशेषणम् । प्रमाणामात्रविरहस्य सर्वत्र
निश्चेतुमशक्यत्वात् । तत्संशयेपि शब्दादन्वयबोधाच्च । शब्दप्रामाण्ये योग्यतायाः संशयसाधारणं
ज्ञानं प्रयोजकमिति शब्दप्रमाणमिति । किंचाकाङ्क्षा हेतुशरीरनिविष्टायाः अन्वयबोधानुकूला-
नुपूर्वीपर्यवसायिन्या न भूतपूर्वत्वमतो न तद्घटितो हेतुः । नहि मिथःसंसर्गाज्ञाताद्देवदत्तो ग्रामं
गच्छतीति वाक्यस्यान्वयबोधानुकूलायाः ग्रामं गच्छति देवदत्त इत्येवं विधानुपूर्व्या ज्ञानमस्ति,
तथायोग्यत्वहेतुकानुमानेपि अज्ञातस्य तस्यानुपयोगात्, स्वरूपसताया अकारणत्वेन हेतुतायास्त-
ज्ज्ञाने पर्यवसानात्तज्ज्ञानं लिङ्गमिति वाच्यं, ततु बाधाभावनिश्चयमात्रं जनयित्वा कृतार्थमिति न हेतुतां
निर्वोढुमलम् । अपि च अस्तित्वव्याप्ययोग्यतावान् गौरित्यनुमानात्सान्वयबुद्धित्वे घटः कर्मत्वमि-
त्यादिक्षतीत्यत्र घटः कर्मत्वमानयनं कृतित्वाख्यातयोग्यत्ववान् युष्मदर्थः इत्यनुमानादपि शाब्द-
१. [अस्पष्टम्] प्रमाणाभावस्य निश्चेतुमशक्यत्वादित्युक्तं निश्चेतुमशक्यत्वमङ्गीकृत्याह तत्संशय इति ।
83
२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
रश्मिः ।
बुद्धित्वापातः । किं च । योग्यतायाः संशयविषयिण्या अप्यन्वयबुद्धिविघटकत्वाभावदर्शनादनुमिति-
विघटकत्वदर्शनाच्च वैलक्षण्याहितो भेदः। तेनान्यान्यप्याकाङ्क्षाघटितलिङ्गानि गौरस्तित्ववान् स्वधर्मिका-
स्तित्वान्वयबोधानुकूलाकाङ्क्षाश्रयपदस्मारितत्वात् घटवत् । गौरिति पदं अस्तिप्रयोज्ञानपूर्वकं अस्तिपद-
साकाङ्क्षपदत्वात् यन्नैवं तन्नैवमाकाशवत् । लौकिकानि पदानि वैदिकपदानि वा तात्पर्यविषयस्मारित-
पदार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्पदकदम्बत्वात् घटमानयेति पदकदम्बवत् । इतीमान्यनु-
मानानि प्रयुक्तानि । किं च व्याप्तिज्ञप्तिविधुरेणापि शाब्दबोधोऽनुभूयते इत्यविवादं नापि तत्र व्याप्ति-
ज्ञप्तेः कल्पनं शब्दश्रवणानन्तरं द्रागेव बोधात् । सर्वेषु शाब्देषु
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८५
तस्माद् ब्रह्म जिज्ञासितव्यमिति सिद्धम् ॥ १ ॥
॥ इति प्रथमाध्याये प्रथमपादे प्रथमं जिज्ञासाधिकरणम् १ ॥
भाष्यप्रकाशः ।
रित्यर्थः । सिद्धमाहुः तस्मादित्यादि । ब्रह्मसंबन्धिनां विचारेऽपि ब्रह्मणो विषयत्वस्यार्थतः सिद्ध-
त्वात् तादृशगुणकत्वेन ब्रह्म जिज्ञास्यमिति सिद्धमित्यर्थः । अपेक्षितगुणवत्तयैवात्र ब्रह्म जिज्ञास्यं,
न त्वशेषविशेषशून्यतयेति शेषषष्ठ्येव युक्तेत्यत्र गमकमप्याहुः किञ्च इत्यादि१, इतीत्यन्तम्। तथा च
प्रथमसूत्रे ब्रह्मविचारं प्रतिज्ञाय ब्रह्मणो येन रूपेण वेदार्थता तानि रूपाणि प्रकाराँश्च वक्तुमग्रिमे
कार्यलक्षणं प्रमाणं च वदतीत्यतस्तथेत्यर्थः । एवं विषये निर्धारिते प्रतिपाद्यप्रतिपादकभावः संब-
न्धोऽप्यनुक्तसिद्ध एवेति प्रेक्षावत्प्रवृत्त्युपयुक्तं सर्वमत्र निरूपितम् । प्रकारभेदेन काण्डद्वयस्यापि ब्रह्म-
रश्मिः ।
जनयतीति स्वीकाराच्च । नापि स्वभावः प्रवर्तकः । तस्यापि मूलविमर्शे वेद एव विश्रान्तेः । ईश्व-
रेच्छेत्यपि न युक्तं, शब्दं विना तस्या एवासिद्धेः । तदग्रे स्फुटिष्यति । निःश्वसितश्रुतेर्बुद्धिपूर्वकमे-
वाभिव्यञ्जनान्नेश्वरप्रत्यक्षोपजीवकत्वं, तेन वेदः प्रमाणम् । इदं चौत्पत्तिकसूत्रतात्पर्यार्थकथने उक्तमपि
स्पष्टप्रतिपत्तिप्रयोजनकम् । अस्मदादिमुखेनापि ब्रह्मैव क्रीडयितुं वाक्यं वदति इति सर्वाणि वाक्यानि
वेदतुल्यानि ब्रह्मवाक्यत्वादिति सिद्धान्तः । 'स एष जीवो विवरप्रसूतिः' इत्यत्र 'एवं गतिः' इति श्रुति-
देशात् । अत्र श्रोत्रं प्रमाणकं शब्दस्त्वतिग्रहः 'श्रोत्रं वै ग्रहः स शब्देनातिग्रहेण गृहीतः श्रोत्रेण शब्दा-
न्शृणोति' इति बृहदारण्यकश्रुतेः । 'चक्षुर्वै ग्रहः स रूपेणातिग्रहेण गृहीतः रूपं पश्यति' इतिवदानुपूर्थ्या
अभावात् । अत एव शब्दगुणकमाकाशमित्याकाशलक्षणे शब्दप्रवेशः । उष्णस्पर्शवत्त्वं तेजस्त्वमिति
तेजोलक्षणेन रूपप्रवेशः कृत इति शुभम् । न चैवं सकलवाक्येषु निर्दुष्टत्वं स्यात् । न । योग्यावय-
वैरेव वाक्यनिर्माणोपगमात्, योग्यावयवैरेव पदार्थनिर्माणवत् । अन्यथा घोटकस्य निर्मातुः शृङ्ग-
निर्माणमप्यापद्येत । क्रीडैव प्रयोजिकेति तु तत्त्वम् । एवं निःसंदेहा इत्यर्थः । यथादर्शनमाहुः ब्रह्म-
संबन्धिनामित्यादि । न च ब्रह्मपदस्य वेदान्तवाचकत्वं 'वेदान्तानां विचार आरम्भणीयो न वेति'
भाष्येण सिद्धयति । ततश्च वेदान्तानां विचार आरम्भणीय इति सिद्धमिति भाष्यमस्तु । न तु ब्रह्म-
जिज्ञासितव्यमितिभाष्यं सिद्धकथनभाष्यत्वादिति वाच्यं 'षडङ्गो वेदोध्येयो ज्ञेयश्च' इतिश्रुतेः । षडङ्गैरेव
निर्वाहे मीमांसाया अनङ्गत्वेन वेदान्तविचारानावश्यकत्वेऽस्य शास्त्रस्यानुपयोगेनारम्भणीयतास्य स्यात्त-
न्निवृत्त्यर्थमारम्भणीयताप्रतिपादनपुरस्कारेण वेदान्तेषु मुख्यतया प्रतिपाद्यस्फोरणाय अथातो वेदान्त-
विचारः' इत्यसूत्रयित्वा 'अथातो ब्रह्मजिज्ञासा' इति सूत्रणादत्रैव सूत्रान्त इति करणसामर्थ्यात्किं-
चेत्याद्यन्येत्यर्थात् च पूर्वशेषतायाः संभवदुक्तिकत्वाद्देहलीदीपन्यायेनाभासमवतारयन्ति अपेक्षिते-
त्यादि । अतस्तथेत्यर्थः । उक्तग्रन्थसंवादान्नेषषष्ठ्येव युक्तेत्यर्थः । एतेन 'तद्विजिज्ञासस्व तद्ब्रह्म' इति
श्रुत्येकवाक्यतार्थे कर्मणि षष्ठी युक्तेत्यपि प्रत्युक्तम् । स्वरूपलक्षणं परित्यज्य कार्यलक्षणकथनेन शेष-
षष्ठयामेव व्यासचरणानां तात्पर्यात् । प्रतिपाद्यप्रतिपादकभावसंबन्ध इति मीमांसाब्रह्मधर्मयोः
स संबन्ध इत्यर्थः । अत्रेति जिज्ञासाधिकरण इत्यर्थः । प्रकारभेदेनेति क्रियाज्ञानत्वभेदेनेत्यर्थः ।
१. द्वितीयसूत्रविवरणे द्रष्टव्यम् । 85
८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
भाष्यप्रकाशः ।
प्रतिपादकतयैकवाक्यत्वसमर्थनान्मीमांसाद्वयस्यैकशास्त्रत्ववचनेन वृत्तिकाराविरोधोऽपि बोधितः ।
शांकरास्तु ब्रह्म जिज्ञास्यं न वेति संदेहे, अहंवित्तिवेद्यत्वेन प्रत्यक्षस्यात्मन एव ब्रह्मत्वान्न
जिज्ञासासमिति पूर्वपक्षे कर्तृत्वादिशून्यनिर्विशेषचिदेकरसत्वेन जिज्ञास्यत्वमङ्गीकृत्य केवलज्ञानादेव
मोक्षं चाङ्गीकृत्य मोक्षं प्रति केवलज्ञानस्यैव हेतुत्वान्नज्ञानकर्मसमुच्चयं नाङ्गीकुर्वन्ति । तन्मते पूर्वो-
त्तरकाण्डयोः स्वर्गमोक्षरूपप्रयोजनभेदात् कर्मब्रह्मरूपप्रमिचेयभेदाच्छेषशेषिभावाद्यभावेन परस्परा-
काङ्क्षाभावाच्चैकवाक्यत्वाभावे उत्तरकाण्डस्य वेदान्त इति समाख्याया विरोधः । नापि कर्मशेष-
भूतकर्तृस्वरूपप्रतिपादकत्वेनापेक्षा । कर्मानुपयुक्तकर्तृभोक्तृभावशून्यात्मप्रतिपादकताभ्युपगमात् ।
नापि कर्मपौष्कल्यजनकविद्याप्रतिपादकत्वेन सा । 'यदेव विद्यया करोति तदेवास्स वीर्यवत्तरं
भवति' इति वाक्यस्योद्गीथविद्यामुपक्रम्य पठितत्वेन तन्मात्रस्य तन्मते तथात्वबोधकतया सर्वस्य
काण्डस्य तथात्वसंपादनाक्षमत्वात् । मानवी ऋचौ धाय्ये कुर्यादितिवत् । न च वैदिकाभिधाने
स्वरादिनियमयोगेनैकवाक्यत्वमिति शङ्क्यं अप्रयोजकत्वात्, सूत्रोक्तैकवाक्यत्वलक्षणविरोधात् । न च
रश्मिः ।
वृत्तिकारेति संहतमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति ब्रुवतो वृत्तिकारस्याविरोध इत्यर्थः ।
आत्मन एवेति जीवस्यैवेत्यर्थः । सेति पूर्वकाण्डोत्तरकाण्डापेक्षेत्यर्थः । तन्मत इति अस्मन्मते
तु यत्तदिति सामान्यनिर्देशस्य विवक्षितत्वाञ्च तथात्वमिति बोध्यम् । तन्मात्रस्येत्यादि उद्गीथविद्या-
मात्रस्य । कर्मपौष्कल्यजनकत्वबोधनात् न तया सर्वस्योत्तरकाण्डस्य कर्मपौष्कल्यजनकविद्याप्रतिपादक-
त्वसंपादनाक्षमत्वादित्यर्थः । न च किंचौपनिषदज्ञानसेत्यादि भाष्येऽप्ययं दोषः इति शङ्क्यं 'विदुषः
कर्मसिद्धिः साक्ष्या नाविदुषो भवेत्' इति न्यायमनुसृत्य श्रुतौ विद्याशब्दो न संकोचसहिष्णुरिति
भाष्याशयात्, अत एवात्र तन्मत इत्युक्तम्' एवं च
'यदेव विद्ययेत्याह तथा श्रुतिश्च एव च ।
तज्ज्ञानं तेषु हि प्रोक्तं कर्तृशेषा यतस्तु ते' ॥
'ज्ञाननिष्ठाय देयानि कव्यानि' इति यथा तथेति पत्रावलम्बने विवरणे चास्या उद्गीथप्रकरणा-
वरुद्धत्वेन विद्यान्तरासंग्राहकत्वं यदुक्तं तदप्युक्तदिशैव 'तन्मते' इति कथनादिति ध्येयम् ।
मानवीत्यादि इयं श्रुतिर्द्वितीयाष्टकेस्ति विकृतिरूपे सौमारौद्रे चरातिदेशतः
गुणस्य प्रधानस्य"!
Line 17:
"गुणस्य प्रधानस्य परमाणूनां च तथात्वाङ्गीकाराद् विप्रतिपन्नमिति तन्निश्चयार्थमत्र कारणकार्यजीव-"
Line 18:
"रश्मिः ।"
Line 19:
"देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि' इति ।"
Wait, is there an opening quote?
Line 19 starts: "देवस्य त्वा..." without opening quote, or does it have one? No opening quote, just "देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि' इति ।"
Line 20:
"सर्वाणीमानि पदानि निर्वापप्रकाशार्थानि विभागे च साकाङ्क्षाणीति । एकवाक्यत्वेत्यादि"
Line 21:
"यावन्ति पदानि तानि ब्रह्मप्रकाशार्थानि विभागे च साकाङ्क्षाणीति एकवाक्यत्वसंभव इत्यर्थः ।"
Line 22:
"तावन्मात्रेति । विविदिषेत्यत्रेच्छामात्रान्तत्वसेत्यर्थः । तथा च वादेन विजिगीषतीत्यत्र इवेच्छा-"
Wait: "विविदिषेत्यत्रेच्छामात्रान्तत्वसेत्यर्थ
रूपैः वेदान्तोक्तेश्वररूपं जिज्ञास्यमित्युपगम्य पूर्ववत् समुच्चयसङ्गीकुर्वन्ति । सूत्राणि च शारीरक-
पदेनोपवर्षादिमतमनुसृत्य निर्दिशन्ति । तन्मते पूर्वोत्तरकाण्डयोरभिधेयभेदेऽपि प्रयोजनैक्यादेकशा-
स्त्र्यात्, 'सर्वे वेदा यत्पदमामनन्ति,' 'वेदैश्च सर्वैरहमेव वेद्यः,'
'वेदास्त्रिकाण्डविषया ब्रह्मात्मविषया इमे ।
परोक्षवादा ऋषयः परोक्षं च मम प्रियम् ॥
मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् ।
एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् ।
मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति' ॥
इति श्रुतिस्मृतिविरोधो दुर्वारः । गीतायां, ब्रह्मसूत्रपदैरित्युक्तेस्तद्विरोधश्च ।
भिक्षुभाष्ये तु, आत्मेत्येवोपासीतेत्यादिविहितज्ञानविषयं किं ब्रह्म, किं वा तस्य प्रकृतानि-
र्वाच्यं गुणजातं, कीदृश
"? Wait, there is a slant over य, making it 'ये'. Let's look: yes, "द्वितीयाध्याये उक्तम्".
L23:
"दर्शपूर्णमासाम्यामुत्पत्तिर्यस्यापूर्वस्य तद्धेतूतयेत्यर्थः । गुणकर्मत्वादिति व्रीहीनवहन्तीतिवत्संस्कारक-"
Wait:
- "दर्शपूर्णमासाम्याम्" or "दर्शपूर्णमासाभ्याम्"?
In L23: "दर्शपूर्णमासाभ्याम्" - it has 'भा', not 'सा'. Clearly 'भा'! - "तद्धेतूतयेत्यर्थः" or "तद्धेतुतयेत्यर्थः"?
Look at 'हेतू': does it have dirgha oo or hrasva u?
It has a hrasva u: "तद्धेतुतयेत्यर्थः". Wait, let's look at the letter 'तु':
The curve goes down: 'तु', not 'तू'. So it's "तद्धेतुतयेत्यर्थः".
Wait, look at "व्रीहीनवहन्तीतिवत्संस्कारक-":
"व्रीहीनवहन्तीतिवत् संस्कारक-" -> "व्रीहीनवहन्तीतिवत्संस्कारक-".
L24:
"त्वादित्यर्थः । तेषामित्यादि प्राप्तस्यज्ञानस्य शाब्दभावनायामितिकर्तव्यत्वात् ज्योतिष्टो
९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
भाष्यप्रकाशः।
तस्मान्न विचार्यमिति पूर्वपक्षमुक्त्वा, विचारयोग्यं ब्रह्म, 'अयमात्मा ब्रह्म' इति श्रुत्याऽहंकारबद्धस्य
संसारिण आत्मनो ब्रह्मत्वाभिधानादेव संदेहसंभवात् । निरस्तसमस्तप्रपञ्चकलङ्कस्य निरतिशयज्ञाना-
नन्दादिशक्तिमहिमतिशयवत्त्वं हि ब्रह्मत्वम्, अनाद्यज्ञानवासनावष्टम्भविवृम्भितविचित्रकर्मफल-
भोगानुगुणबहुशरीरप्रवेशनिर्गमव्यापारपरवशनिःसीमतापसहिष्णुत्वं जीवत्वमिति तयोर्लक्षणेनेतरे-
तरभेदनिश्चये तयोरैक्यदार्ढ्याऽस्फूर्तेः । किंच । अन्नं ब्रह्म, मनो ब्रह्म, विज्ञानं ब्रह्म, आदित्यो
ब्रह्म, नारायणं परं ब्रह्म इत्यादयोऽन्यमन्यमर्थं ब्रह्म इत्याहुः । तत्र किं ब्रह्मेत्येवं संदेहादपि विचारार्हं
ब्रह्म । नचापरिच्छिन्नत्वाद् ब्रह्मणस्तद्विषयं ज्ञानं न संभवतीति शङ्क्यम् । ईदृगिदमिति ब्रह्मणः
परिच्छेदासम्भवेऽपि लक्षणमुखेनेतरव्यावृत्ततामात्रेण परिच्छेदसंभवात् लक्षणेन परिच्छेदो हि
सर्वत्र लक्ष्यविषयकेतरव्यावृत्तताज्ञानरूप एव दृष्ट इत्यदुष्टः । अत उपदिष्टस्य ब्रह्मणो लक्षणे वेदा-
न्तवाक्यैर्निरूपिते परीक्षते च सति तल्लक्षणशून्येभ्यः सजातीयविजातीयेभ्यः सर्वेभ्यो व्यावृत्तं
ब्रह्म विज्ञायत इति तदर्थं युक्तः शास्त्रारम्भ इत्याह । एतन्मतेऽपि तेषां वाक्यानां विरोधः पूर्ववदेव ।
जीवलक्षणं तु जीवप्रकरणे दूषयिष्यामः । किंच । 'ज्ञात्वा शिवं शान्तिमत्यन्तमेति,' 'ईशं तं
ज्ञात्वा अमृता भवन्ति,' 'तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम्,'
'आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनादेव पाशं दहति पण्डितः' ॥
'ज्ञात्वा देवं मुच्यते सर्वपाशैः' इतिश्रुत्युक्तमोक्षप्राप्तिलिङ्गेन शिवस्य परब्रह्मत्वं यत्तेनोपगतं,
तदप्यसंगतम् । 'ब्रह्मविदाप्नोति परम्' इति तदुपन्यस्ते फलवाक्ये, नारायणं परं ब्रह्मेति श्रुत्यु-
क्तनारायणरूपग्रहणस्यैव युक्तत्वात् । उभयत्रापि परब्रह्मपदोपबन्धसाम्यात् । लिङ्गापेक्षया
रश्मिः।
मेति नान्यः पन्था अयनाय विद्यते' 'पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति' इति
वाक्येष्वित्यर्थः । अहंकारबद्धस्येत्यादि अयमित्यस्य तात्पर्यकथनमिदम् । निरस्तसमस्तेति
आकाराभिधानमिदम् । अनादीति अनादिरज्ञानवासना सैवावष्टम्भः प्रारम्भः तेन विजृम्भितं
उज्जृम्भितं चेष्टितमुत्फलं वा यद्विचित्रकर्मफलं तस्य भोगः साक्षात्कारः तस्यानुगुणानि बहूनि शरीराणि
तेषु प्रवेशनिर्गमौ तावेव व्यापारौ ताभ्यां परवशस्य निःसीमतापः निरवधितापः तस्य सहिष्णुत्वम् ।
लक्ष्यविषयकेत्यादि । यथाकाशमितरव्यावृत्तमित्याकाशलक्षणेन ज्ञायते इति परिच्छेदो हीतर-
व्यावृत्तताप्रकारक लक्ष्यविषयकज्ञानरूप एवेति । जीवप्रकरण इति द्वितीयाध्याये तृतीयपाद
इत्यर्थः । आत्मानमित्यादि मनसि प्रणवस्य भावनं देवं ज्ञात्वा मुच्यत इति फलितोर्थः । मोक्षप्रा-
प्तीत्यादि । यदि शिवः परं ब्रह्म न स्यात्तर्हि तज्ज्ञानेन मोक्षो न स्यादिति मोक्षप्राप्तेर्लिङ्गं सामर्थ्यं
तेनेत्यर्थः । नारायणमित्यादि नारा आपस्ता एवायनं यस्येति जलशायिनमित्यर्थः । दृष्टं यथा-
वर्षजलशायिसूर्यमण्डलस्थं ब्रह्म यथा वा वर्षजलशायिमेघो१ गर्जति तथा ब्रह्म । अत उक्तं युक्तत्वा-
दिति । हेत्वन्तरमाहुः उभयत्रेत्यादि । ननु लिङ्गस्य का गतिरत्राहः लिङ्गापेक्षयेत्यादि ।
१. विद्युतः ।
90