अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 175, कुल 2600 में से
संदर्भ में पढ़ेंरूपैः वेदान्तोक्तेश्वररूपं जिज्ञास्यमित्युपगम्य पूर्ववत् समुच्चयसङ्गीकुर्वन्ति । सूत्राणि च शारीरक-
पदेनोपवर्षादिमतमनुसृत्य निर्दिशन्ति । तन्मते पूर्वोत्तरकाण्डयोरभिधेयभेदेऽपि प्रयोजनैक्यादेकशा-
स्त्र्यात्, 'सर्वे वेदा यत्पदमामनन्ति,' 'वेदैश्च सर्वैरहमेव वेद्यः,'
'वेदास्त्रिकाण्डविषया ब्रह्मात्मविषया इमे ।
परोक्षवादा ऋषयः परोक्षं च मम प्रियम् ॥
मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् ।
एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् ।
मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति' ॥
इति श्रुतिस्मृतिविरोधो दुर्वारः । गीतायां, ब्रह्मसूत्रपदैरित्युक्तेस्तद्विरोधश्च ।
भिक्षुभाष्ये तु, आत्मेत्येवोपासीतेत्यादिविहितज्ञानविषयं किं ब्रह्म, किं वा तस्य प्रकृतानि-
र्वाच्यं गुणजातं, कीदृश