सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 945, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 945

२० वेदान्ताधिकरणमाला ।

ततः सप्तमे एकसूत्रे 'भोक्त्रापत्तेरित्यधिकरणे ननु प्रलये सर्वस्य कार्यस्य कारणरूप-
तया एकरूपत्वे जाते पुनरुत्पत्तिदशायां भोग्यस्य स्रक्चंदनादेः भोक्तृत्वापत्तिः, भोक्तुश्चेतनस्य
भोग्यत्वापत्तिरित्येवमविभागः स्यादितिसूत्रांशेनाशंक्य, अंशांतरेण समाहितम् । यथा लोके कटक-
मुपमृद्य रुचके क्रियमाणे कटकत्वं न भवति, तथोत्पत्तिदशायां भोग्यस्य भोग्यत्वेनैवोत्पत्तिः, भोक्तु-
र्भोक्तृत्वेनैवेति न विभागाभावः । कारणस्य चेतनत्वेन तस्य तस्य तथैवोत्पादनादित्यक्तम् । तेन
'विज्ञानं चाविज्ञानं चे'ति श्रुतौ कार्ये विभागाभावरूपो दोषः परिहृतः ॥ ७ ॥
ततोऽष्टमे त्रिसूत्रे तदनन्यत्वाधिकरणे छांदोग्यस्थे वाचारंभणवाक्ये कार्यस्य कार-
णामिन्नत्वं प्रतिपादितम्, न तु कार्यमिथ्यात्वमित्युक्तं प्रथमसूत्रे । ततो द्वितीयसूत्रे कार्यस्य
घटादेर्विद्यमानत्व एवोपलम्भः । नत्वविद्यमानत्वे । अतः श्रुतिविरुद्धं प्रत्यक्षमपि कार्यस्य कारणा-
नन्यत्वे प्रमाणमित्युक्तम् । ततस्तृतीये प्रपञ्चस्य सदैव सत्त्वम्, 'सदेव सोम्येदमग्र आसी'दित्या-
दिश्रुतौ परिदृश्यमानबोधकादिदंपदात् । 'तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरो-
भावजन्मनाशविकल्पव'दितिविष्णुपुराणवाक्याच्च । एवमेनेनाधिकरणेन श्रुतिप्रत्यक्षाभ्यां कार्यस्य
सदात्मकत्वेन ब्रह्मानन्यत्वं साधितम् ॥ ८ ॥
ततो नवमे चतुःसूत्रे असद्व्यपदेशाधिकरणे असत्कार्यवादो निराकृतः । ततः
प्रथमसूत्रे 'असद्वा इदमग्र आसी'दितिश्रुतौ कार्यमसदितिव्यपदेशात् असत्कार्यवाद आश्रेय
इतिसूत्रांशेनाशंक्य, सूत्रांशेन समाहितम् । एतद्वाक्यशेषे 'स आत्मानं स्वयमकुरुते'तिश्रावणात्
कार्यस्य प्रागुत्पत्तेरात्मत्वेनैव रूपेण सत्त्वम्, नतु व्याकृतस्वरूपेण । तस्मादसत्त्वमुच्यते, न त्वस-
त्वेनेत्युक्तम् । ततो द्वितीयसूत्रे सत्कार्यवादस्याभियुक्तिभिरात्मानमितिशब्दांतराच्च नासत्कार्य-
वाद आश्रेय इत्युक्तम् । युक्तयस्तु भाष्यप्रकाशादवगंतव्याः । ततस्तृतीये पटदृष्टांत उक्तः ।
यथा पटः संवेष्टितो न तावान् प्रतीयते, तथा कारणे कार्य सूक्ष्मरूपत्वान्न प्रतीयते, प्रकटं तु प्रतीयत
इत्युक्तम् । ततश्चतुर्थे प्राणादिदृष्टांत उक्तः । यथा प्राणादीनां नियमने जीवनमात्रम्, अनियमने
स्वाकुञ्चनादिः संभवति, तथा जगदपि कारणे प्रविष्टं सन्मात्रं तिष्ठति, बहिःप्रकटं कार्य करोति ।
अतोऽसत्कार्यवादो न प्रामाणिक इत्युक्तम् ॥ ९ ॥
ततो दशमे त्रिसूत्रे इतरव्यपदेशाधिकरणे चेतनकारणतायां प्राप्ता दोषाः परिह्रि-
यंते । तत्र प्रथमे चेतनस्य जीवस्यापि ब्रह्मत्वात्सृष्टौ तस्य प्रवेशे दुःखित्वादिकं भवति । तच्च ब्रह्मणो
हिताकरणादिदोषप्रसक्त्या असंगतमित्याशंक्य, अग्रिमसूत्रद्वये परिहारमाह । तत्र द्वितीये ब्रह्म
जीवादधिकम्, न तु जीवमात्रम्, तेन तद्दोषेपि न दुष्यति । यथा सुवर्णखण्डस्यान्यमेलनेन दुष्ट-
त्वेपि न सुवर्णस्य दुष्टत्वम्, तद्धिताहितं च करोति, लोके स्वदेहेपि नखनिकृंतनकेशप्रसाधना-
दिदर्शनात् । जीवपरमात्मनोर्भेदस्तु विज्ञानानंदप्राधान्यभेदात् । आनंदस्याधिक्यं तु भूमविद्यायां
तत्रैव श्रेयस्त्वस्य पर्यवसानात् । ततस्तृतीये यथा पार्थिवत्वाविशेषेपि हीरकपाषाणयोश्चंदननिंब-
योश्च स्वभावभेदः, तथा जीवानाम्पि । तथा च ब्रह्मवादे लोकन्यायेन प्रत्यवस्थानं नोचित-
मिति साधितम् ॥ १० ॥
तत एकादशे षट्सूत्रे उपसंहारदर्शनाधिकरणे तत्रैकस्यैव ब्रह्मणः सर्वविधकारणत्वे
ये दोषास्ते परिह्रियंते । तत्र प्रथमसूत्रे लोके मृत्कुठालचक्रचीवरादीनामुपादानकर्तृनिमित्तांत-