सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 896, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 896

निकटे समायान्ति । यत्रैतदूर्ध्वोच्छ्वासी भवतीति, पूर्वोक्तमरणावस्थाया उपसंहारे सारणम् ।
अतः परं शारीरप्राणप्रसारणमाहुः स यत्रेत्यादि । स यत्रायं शारीर आत्मा लिङ्गविशिष्टो
जीवः । अबल्यं नीत्य, पूर्वोक्तोपतापादिना नैर्बल्यं नितरां प्राप्य । संमोहमिव न्येति, मरणा-
वस्थायामधिकं मोहं प्राप्नोति । तदा तूत्क्रमणस्य कर्तुमशक्यत्वात् तदुपायं भगवान्नेव करोति ।
यथाक्रमोऽयं परलोकस्थान इत्यादिना पूर्वं तथोक्तत्वात् । तदिदानीं सविस्तरं वदामीति
ज्ञापनायाथैनमेते प्राणा इत्यथशब्दः । नच प्राणाः स्वत एवायान्तीति शङ्क्यम् । जडत्वात् ।
अतो जीवे संमुग्धे भगवत्प्रेरिता एवायान्तीत्याशयेनाहुः अथैनमित्यादि श्रुतौ । अथेति
भगवत्प्रेरणोत्तरम् । प्राणा वागादयः । स इति जीवः । तेजोमात्रा इति प्रज्ञांशभूतानि
करणानि । समभ्याददान इति । उपसंहरन् । अवक्रामति । अन्यतश्चैतन्यमुपसंहृत्य हृदयेऽभि-
व्यनक्ति । चाक्षुष इति । चक्षुषि भवः सूर्यांशः । पराङ् न पर्यावर्तत इति । स्वकार्यरहितो
भवति । अरूपज्ञ इति जीवस्तथा भवति । तत्र हेतुः । एकीभवतीति । लिङ्गात्मना करणग्रामे
वागादय इति टीकाकृद्व्याख्यानम् । तत्समायन्तीत्यनेन वागादीनामन्ययमुलभमानं विरुणद्धि अतः
प्राणा वायवः । यद्वा प्राणा वागादयः एत एवाग्रे भगवत्प्रेरणया जीवे समायान्तीति । यत्रैतदिति
एतद् ग्रन्थ । ऊर्ध्वोच्छ्वासीति । इ आश्चर्ये उपसमिति भाष्योक्तस्य ग्रन्थोेपसंहारेणाहेतुत्वोपसंहारा-
रत्वोपपादनान्ते वक्तव्यत्वम् । स यत्रेति । स यत्रायं शारीरः आत्मा अबल्यं नीत्य संमोहमिव
न्येतीति श्रुतिः । अत्रात्मा भगवान् न जीवे मोहोधिक इति भाष्यादित्याहुः लिङ्गेति । तथेति
तदापीत्यर्थः । परात्तु तच्छ्रुतेरिति न्यायात् । अथैनमिति अथैनमेते प्राणाः अभिसमायन्ति स
एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति इति पूर्वश्रुतिशेषश्रुतिः । कार्त्स्न्येऽथशब्दः ।
अनन्तरार्थे वा भगवत्प्रेरणानन्तरमित्यर्थः । भगवत्प्रेरणोत्तरमिति यावत् । प्रज्ञेति तेजांसि प्रज्ञांश-
भूतानि प्रज्ञाया अवयवोत्त्वात् । मात्राः करणानि मात्राशब्दस्य प्रमाणवाचकत्वात् । मीयन्ते विषया
याभिस्तास्तेजोमात्राश्चक्षुरादिकरणानि टीकाव्युत्पत्तिरेषा अथवा सविस्तारकः । वि गन्ता स्तुञ्
आच्छादने वा व्याङ्गुः षद अपवारणे चु. प. से. वर ईप्सायां चुरादि. प. से वारकः ईप्साकर्ता
देहे सहाकर्तृत्वं व्याधुर्मभवतः सकाशादवस्थायामित्युक्तम् । अप इत्यसार्थः कर्तव्यः अन्यथा
मूर्च्छितस्य देहस्यान्यावप्रसङ्गात् । एता इति गद्ययः तेजसो निष्ठानकर्तुः मात्रा मानस चितोश्वतेः
कर्म्मः मान्ति चितोऽर्ति कुर्वन्ति मात्राः हुयामेति श्रन् । उपेति । यद्वा सम् गम वैक्लव्ये किम् ।
वि गन्तुलेन ह्रम्थेन शब्दकर्तृत्वेन वर्तमानो जीवः अभि अश्ये अमयाय नाभ्यासे प्राज्ञाय ददानः
हृदयमेव हृदयमेति । अनु अन प्राणने अनिति बाहुलकात्कः । अव रक्षणादौ वाति वातं वा डः नवं
अव न गच्छति हृदयमेतीत्युक्तम् । तत्र विशेषः क्रामति अदस्यपादपोर्विक्षेपं करोति सर्वतः पाणिपा-
दान्तस्त्वां वो जीबोऽप्यंशतः सर्वतः पाणिपादान्त इति । चाक्षुष इति स यत्रैष चाक्षुषः पुरुषः
पराङ्पर्यावर्ततेऽथारूपज्ञो भवति एकीभवति न पश्यतीत्याहुरिति श्रुतिः । चक्षुषि व्यक्तवार्त्तरि
ॐकारे परूङ् व्यात्तवां वापि । पश्यन् चक्षुर्भवतीति श्रुतेः सूर्यांशः सूर्यस्यांशश्चागं
अपः । करणग्रामो लिङ्गदेहः । आबुरित्यनेन चक्षुरसोऽद्यपि । स तु 'तमेवैततंकारेण भवतीति

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 896, कुल 2600 में से · SarvaKosh