अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 895, कुल 2600 में से
संदर्भ में पढ़ें८०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० १३ सू० ४२
नैवंविद् । सिद्धवद्वचनान्न ज्ञानविधिः । वाक्यभेदप्रसङ्गाच्च ।
भाष्यप्रकाशः ।
पापिनां शासनार्थं नियुक्ताः । ग्रामण्यो, ग्रामनायकाः । प्रतिकल्पन्ते, उद्युज्य लोपयोगाय
प्रतीक्षन्ते । भूतानि शरीरान्तरारम्भणायेश्वरेण नियुक्तानि । ननु जीवब्रह्मणोरुभयोरपि तत्र गमने
कथं ब्रह्मण एव सन्मानमित्यत आहुः एवंविदमित्यादि । नैवंविदिति संसारिण उपक्रान्त-
त्वादेवंवित्पदे परामृश्यमाणे जीवत्वेन न वक्तुं शक्य इत्यर्थः । ननु प्राज्ञान्नारोहान्तज्ञान-
वन्तमनूय, तस्मिन् ब्रह्मायातीति ज्ञानकथनात् पूर्वोक्तकर्मफलविदः संसारिणो जीवस्यैवेदं
सन्मानं, न ब्रह्मण इति चेत् तत्राहुः सिद्धवदित्यादि । अत्र किमेवं ज्ञानं विधीयते, उतानूद्यते ।
नाद्यः ।