अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 884, कुल 2600 में से
संदर्भ में पढ़ेंनाञ्छाच्छादनाभावोऽतिच्छन्दः, तत्र भगवत्स्वरूपं गतस्य बाह्येन्द्रियधर्मा-
भावमाह बिजानीयादित्यन्तेन । बाह्येन्द्रियाणां सलिलत्वमिति पूर्वोपपत्तिः ।
भाष्यप्रकाशः ।
तद्वा अस्यैतदतिच्छन्द इत्यादिग्रन्थ इत्याशयेन तत्तात्पर्यमाहुः नाञ्छेत्यादि । तत्रेति सुषुप्तौ ।
बाह्येन्द्रियधर्माभावमिति बाह्यादीनां त्रयाणामभावम् । पूर्वोपपत्तिरिति पूर्वोक्ते सर्वस्मिन्
युक्तिः । श्रुत्यर्थस्तु, तद् आस्माकामं वै निश्चयेन अस्य जीवस्य एतत् प्राज्ञपरिष्वक्तमतिच्छन्दः ।
रश्मिः ।
बलादपि देहत्यागो विमुक्तिदः' इति निबन्धात् । विषभक्षणेन देहं त्यजतीति न्यायस्त्वनुप-
कर्तुमशक्तृत्वे क्वचिदिति । अयं हेतुरवस्थात आगमनेपि इत्याहुः आगमनमिति । ननु कथमवस्थात
आगमनेऽविद्याहे