सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 883, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 883

भाष्यप्रकाशः।
'जाग्रत् स्वप्नः सुषुप्तिश्च गुणतो बुद्धिवृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः' ॥
इत्यादिवाक्योक्ता वृत्तयस्तु विषयोपधानाज्जायन्ते । जाग्रति तथा निश्चयात् । विषयस्तु
ततो भिन्न इति भगवतः सुषुप्तित्वोक्तौ न किंचिद् बाधकम् । तमोऽभिभूतः सुखरूपमेतीति
श्रुत्युक्तोऽभिभवस्तु भेदज्ञानाभावे हेतुः । 'अविद्याप्युपकाराय विष्वग्जायते नृणाम्' इति
मार्कण्डेयपुराणोक्तन्याया दागमनं प्रति च । ततोऽन्यत्र बुद्धान्ताय गमनं चाविद्ययैवेति न
कोऽपि क्वापि विरोधः। अतः परमात्मकामे रूपे आप्तकामत्वमकामत्वं च कुत इत्याकाङ्क्षापूरणाय,
रश्मिः।
आह आत्मकाममिति । आत्मैव कामः सुखसाक्षात्कारलक्षणो यस्मिन् विज्ञानमित्येतदानन्दरूपे
ब्रह्मणि तदात्मकामं अत एव एतदकामं कामरहितं रूपं काम्याभावादिति टीकायाम् ।