सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 761, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 761

६६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ५ सू० १५
आत्मत्वेनापि । तस्माद्दहरः परमात्मा ॥ १५ ॥
भाष्यप्रकाशः।
ज्ञानं नात्मनो मोक्षायेति । आत्मनो ब्रह्मत्वेन ज्ञानं न मोक्षायेति योजना । अयमर्थस्तू-
क्तश्रुतिस्वाचमेवेति तत्पदसंबद्धादेवकाराद् गम्यते एवं च, य एवं वेदाहं ब्रह्मास्मीति पुरुष-
विधब्राह्मणोक्तं ज्ञानं सर्वभावमात्रफलकत्वात् पूर्वकक्षैवेति । वस्तुतस्तु तत्रापि पूर्वं ब्रह्मणः
सर्वरूपत्वज्ञानानन्तरमेवैवं ज्ञानमिति न विरोधः । एवमहंग्रहोपासनेऽपि बोध्यम् । सिद्धमाहुः
तस्मादित्यादि । एवं दृष्टलिङ्गाभ्यामुपबन्धाद् गतिशब्दरूपाद्धेतुद्वयात् तथेत्यर्थः ।
शंकराचार्यादयस्तु, गतेर्ब्रह्मपरत्वं, 'सता सौम्य तदा संपन्नो भवति' इति श्रुत्यन्तरे
दृष्टम् । एतदेवाहर्हरहर्ब्रह्मलोकगमनं दृष्टं ब्रह्मलोकपदस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गमिति
व्याचक्षुः ।
रामानुजाचार्यास्तु, 'एवमेव खलु सौम्येमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संप-
द्यामहै' इति, सत आगम्य न विदुः सत आगच्छाम इति च गतेर्ब्रह्मपरत्वे दृष्टम् । एष ब्रह्म-
लोकसम्राडिति होवाचेति ब्रह्मलोकशब्दस्य ब्रह्मपरत्वे दृष्टं दहराकाशं प्रकृत्य सर्वेषां क्षेत्रज्ञानां
प्रलयकाल इव सुषुप्तिकाले श्रूयमाणं गमनमवस्थानं तस्य दहरस्य ब्रह्मपरत्वे पर्याप्तं लिङ्गम् ।
तथा ब्रह्मलोकशब्दश्च समानाधिकरणवृत्त्याऽस्मिन् दहराकाशे प्रयुज्यमानोऽस्य ब्रह्मपरत्वे पर्याप्तं
लिङ्गम् । निषादस्थपतिन्यायाच्च षष्ठीसमासात् समानाधिकरणसमासो न्याय्यः । अथवा, अह-
रहर्र्गच्छन्त्य इति न सुषुप्तिविषयम् । किन्त्वन्तरात्मत्वेन वर्तमानस्य दहराकाशस्य परमपुरुषार्थभूतस्यो-
पर्युपरि गच्छन्त्यः सर्वस्मिन् काले वर्तमानास्तमजानन्त्यस्तं न विन्दन्ति न लभन्ते यथा हिरण्यनिधिं
रश्मिः।
ब्रह्मत्वेनेति महत्प्रतीकं सुखबोधाय सर्वत्र । अत्र तु बालानां ग्रहणधारणाभाववतां सुखबोधाय ।
आत्मन इति जीवस्य । 'भाष्ये । आत्मत्वेनेति । अपिना ब्रह्मत्वेन तथा च ब्रह्मात्मत्वेन ब्रह्मत्वेना-
श्रितत्वात् ब्रह्मणि जीवधर्मयोगात् जीवत्वेनापि ज्ञानं मोक्षं प्रयच्छति न तु जीवो ब्रह्मत्वेन ज्ञातः प्रयच्छ-
त्युक्तश्रुतेः 'फलमत उपपत्तेः' इति तत्त्वसूत्रात् । गोपालतापनीये सोहमित्यवधार्य गोपालोहमिति भावयेदि-
त्युक्तमतो ब्रह्माहमस्मीति त्यक्त्वाहं ब्रह्मास्मीतिविरुद्धं कल्पनम् । प्रकृते। श्रुतिविरोधं परिजह्रुः एवं
चेति । सर्वैति मात्रपदेन मोक्षसर्वज्ञतयोर्व्युदासः । पूर्वकक्षैति एकविज्ञानेन सर्वविज्ञानस्य पूर्वकक्षा ।
एकविज्ञानं तदपि नेति भावः । ननु तथाप्यहं ब्रह्मास्मीत्यभेदान्वयस्तल्लक्षणः कटकं सुवर्णमिति
प्रत्ययवत्तत्राहुः वस्तुत्विति । एवं ज्ञानमिति अहं ब्रह्मास्मीति ज्ञानं तथा चात्राभेदान्वयेपि ब्रह्मणः
सर्वरूपाद् भेदेन भेदः । एतच्च तज्ज्ञानं तस्य सार्वज्ञ्ये लिङ्गमिति भाष्यप्रकाश उक्तम् । सोहमित्याद्यहं-
ग्रहोपासनेपि भेदं भगवत्तत्ज्ञाने त्वभेदमतिदिदिशुः एवमिति । ब्रह्म जीवभिन्नं बोध्यम् । तस्मादित्यस्य
सूत्रोक्तहेतोरित्यर्थमाहुः एवमिति सूत्रे यतो दृष्टं यतो लिङ्गमित्येवं यच्छब्दार्थाध्याहारं कृत्वा पञ्चम्यन्तं
दृष्टलिङ्गाभ्यामिति । उपबन्धयोर्गतिशब्दयोः तथाहीत्यस्यार्थयोः तथैव गतिशब्दौ भगवत्येव युक्तौ इति
भाष्योक्तयोः सतोः परंपरोपबन्धादित्यर्थः । तथेति दहरः परमात्मत्वेन ज्ञेय इत्यर्थः । चकारार्थः
पृथक् । श्रुत्यन्तर इति आन्तरिकश्रुतौ । एतदेवेति श्रुत्यन्तरोक्तं दृष्टमेवेति योजना । ब्रह्मैव
लोको ब्रह्मलोकः इति कर्मधारयः । भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकत्वं सामानाधिकरण्यं
कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । निषादेति पूर्वतन्त्रे षष्ठेस्ति निषादः स्थपतिः
668