अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 738, कुल 2600 में से
संदर्भ में पढ़ेंईक्षतिकर्मव्यपदेशात् सः ॥ १३ ॥ (१।३।४)
पञ्चमप्रश्ने, 'एतद्वै सत्यकाम परञ्चापरं च ब्रह्म यदोङ्कारस्तस्माद् विद्वानेते-
नैकतरमन्वेति यद्येकमात्र' इत्यादिना एकद्वित्रिमात्रोपासनया ऋग्यजुःसाम-
भिर्मनुष्यलोकसोमलोकसूर्यलोकप्राप्तिपुनरागमने निरूप्यार्धचतुर्थमात्रोपासनया
परं पुरुषमभिध्यायीत। स तेजसि परे संपन्नो यथा पादोदरस्त्वचेत्यादिना,
परात् परं पुरिशयं पुरुषमीक्षत इति। तत्र संशयः—परपुरुषः परमात्मा ध्यान-
भाष्यप्रकाशः।
निराकरणं च द्वितीयसूत्रे हेतोः साधनाज्ज्ञेयम् । एतेनाधिकरणेन परत्वं साधितम् । तेन
स्थितिकर्तृत्वं तदाधारत्वं च पदार्थान्तरभूते प्रधाने आशङ्क्य तत्रातिव्याप्तिर्निवारितेति सैवा-
धिकरणसंगतिः ॥ १२ ॥
इति तृतीयमक्षराधिकरणम् ॥ ३ ॥
ईक्षतिकर्मव्यपदेशात् सः ॥ १३ ॥ विषयवाक्यमुपन्यस्यन्ति । पञ्चमप्रश्न
इत्यादि । पञ्चमप्रश्न इति आथर्वणानां प्रश्नोपनिषदः पञ्चमे प्रश्ने । ईक्षत इति
वदतीति शेषस्त्रुटिर्वा । संशयस्तु ध्येयविषय इत्याहुः तत्रेत्यादि । परापरयोरुभयोरपि
प्रकृतत्वं संदेहबीजम् । पूर्वपक्षमाहुः तत्रामुरूप्येत्यादि । अत्रोङ्कारेणोपायेन ब्रह्मोपास-
नार्थमोङ्कारस्य द्विविधब्रह्मरूपतामुक्त्वा तेनैवोपायेनैकतरमन्वेतीत्येकतरप्राप्तिं प्रतिज्ञाय साधनैक्ये
रश्मिः।
दिव्यचक्षुराद्यभावाज्ज्ञेयम् । चकारात्तृतीयसूत्रे उपासनमाशङ्क्य निराकरणं तत्र हेतुर्द्वितीय इति ।
हेतोः प्रशासनधारणस्य साधनात् तृतीयसूत्रे ब्रह्मधर्मत्वसाधनात् । तथा चोपासातः प्रधानादेः
धारकत्वसंभवात् प्रशासनाधारकत्वेन धर्मेणोपासनाशङ्कोदेतीति तन्निराकरणमित्यर्थः । परत्वमिति
परविद्याविषयत्वमक्षरत्वं तदेव परत्वं 'अथ परा यया तदक्षरमधिगम्यते' इतिमुण्डकश्रुतेः । ज्ञानिना-
मुपासमिदम् । भक्तानां तु तत्र स्थितमपि तेनात्राधिकरणेऽदृश्यत्वाधिकरणेऽग्निर्मूर्धेतत्यादिना रूपोप-
न्यासादत्र च प्रशासनोपदेशात् निर्गुणब्रह्मसिद्धेश्च 'न हि खलुद्ध्या वेदार्थ परिकल्प्य तदर्थं विचारः
कर्तुंः शक्यः' इति तु 'अथातो ब्रह्मजिज्ञासा' इत्यधिकरणभाष्यं समर्थितम् । अत्र ब्रह्मधर्मोक्तेश्चेति
वक्तव्ये पूर्वपक्षेऽन्येषामुक्तेरेवं सूत्रितमन्यपदघटितम् ॥ १२ ॥
इति तृतीयाधिकरणम् ॥ ३ ॥
ईक्षतिकर्मव्यपदेशात् सः॥ १३ ॥ त्रुटिर्वेति वाकारोनादरे । अन्तःकरणं प्रति
उक्तिसंभवात् 'भक्तं प्रति यदाकर्ण्य भक्तो निश्चिन्तातां व्रजेत्' इति । भक्तं प्रत्यप्युक्तिसंभवाच्च ।
विषयवाक्यार्थोऽग्रे वक्तव्यः इति तमुपेक्ष्य संशयग्रन्थार्थमाहुः संशय इति । ध्येयो विषयो यस्य ।
परापरयोरिति परं चापरं च ब्रह्मेति श्रुतेः । उक्तेति विषयवाक्यं तु भाष्य उक्तं तत्पूर्वपक्षे
व्याचक्रुः । हे सत्यकाम शैब्येति संबोध्य भगवान् पिप्पलाद उक्त्वा वदतीत्यन्वयः । अथ हैन शैब्यः
सत्यकामः पप्रच्छ स यो ह वै तद्भगवन्मनुष्येषु प्रायणं तमोंकारमभिध्यायीत कतमं वाव स तेन लोकं
जयतीति तस्मै स होवाचैतद्वै सत्यकामेत्यादिश्रुतेः । एनं पिप्पलादम् । तेनेति ॐकारध्यान-
१. विराम् ।