अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 737, कुल 2600 में से
संदर्भ में पढ़ें६४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० ३ सू० १२
भावोऽन्यभावः । अब्रह्मधर्म इति यावत् । तस्यात्र व्यावृत्तेः । अब्रह्मत्वे हि
ब्रह्मत्वेनोपासना भवति । कार्यकारणभावभेदेन । न ह्यत्र तादृशो धर्मोऽस्ति ।
चकाराद् 'यो वा एतदक्षरमविदित्वा गार्गि' इत्यादिना शुद्धब्रह्मप्रतिपादन-
मेव, नोपासनाप्रतिपादनमिति । तस्मादक्षरं ब्रह्मैवेति सिद्धम् ॥ १२ ॥
इति प्रथमाध्याये तृतीयपादे तृतीयमक्षराधिकरणम् ॥ ३ ॥
भाष्यप्रकाशः ।
मन्तृविज्ञातं विज्ञातृ नान्यदस्ति द्रष्टृ नान्यदस्ति श्रोतॄ, नान्यदस्ति मन्तृ नान्यदस्ति विज्ञात्रेतद्वै
तदक्षरं गार्गि यस्मिन्नाकाश ओतश्च प्रोतश्चेत्याकाशभर्तर्यक्षरे द्रष्टृत्वादिचेतनधर्मकथनेन धरणे
जडधर्मत्वव्यावृत्तेर्धरणस्य चाकाशौतप्रोतत्वरूपस्वरूपबोधनेन जीवधर्मत्वव्यावृत्तेरक्षरस्याब्रह्म