अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 696, कुल 2600 में से
संदर्भ में पढ़ेंपदैस्तमेव परामृश्य मूर्धप्रभृतीनां समभिव्याहरणात् । तत्कथं संनिहितपरित्यागेन व्यवहित-
स्योपासकस्य परामर्शः कर्तुं शक्यते । नचाग्रे सुतेजःप्रभृतिभ्योऽतिरिक्तानामुरःप्रभृतीनां
वेद्यादित्वकथनात् तथेति वाच्यम् । भगवतो विश्वकायत्वाय तन्मूर्धादीनां सुतेजस्त्वादिरूपोप-
देशवत्तस्य यज्ञत्वाय तदुरआदीनां वेदित्वादिरूपोपदेशस्य शक्यवचनतया तस्योपासकावयवगम-
कताया निषेधुमशक्यत्वात् । नचैवं सति तद् यद्भक्तं प्रथममागच्छेदित्यादौ यः प्राणाग्निहोत्रा-
धारत्वेनोपासकस्यादिपरिग्रहः स कथं संगच्छेतेति शङ्क्यम् । संपत्तिसूत्रविषयवाक्ये वैश्वानरा-
वयवानामुपासकमूर्धादिषु संपत्तिकथनेन तेषां मानवदनुक्तानां तदुरःप्रभृतीनामप्युपासकोरः-
प्रभृतिषु संपत्त्या मानसाभिप्रेततया सुखेनैव तदास्यादिपरिग्रह