सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 695, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 695

६०४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० ३२
भाष्यप्रकाशः।
भास्कराचार्यास्तु, नायं वैश्वानरशब्दो जाठराभ्यभिप्रायेण प्रयुक्तो येनात्र तद्गुण-
कोपासनं कल्प्येत । किंतु यौगिकोऽयं शब्दो, विश्वाश्चरान् नयतीति । तद्धितस्तु राक्षसवाय-
सादिवत् स्वार्थे । अभिविमानशब्दश्चाभिमुख्येन विचित्रं जगन्निमिमीत इति वा, अभिगतश्चासौ
विगतमानश्चेति वा योगेन । वैश्वानरशब्दस्य यौगिकार्थग्रहणे जाठरानलविशिष्टोपासनमनभिप्रेतं
बादरायणस्येति साक्षात्सूत्रे व्याचक्रुः । तत्र बीजं तु सौत्रोऽपिशब्दः साक्षादविरोधं जैमिनिरपी-
त्यन्वयादिति तदाशयः ।
रामानुजाचार्यास्तु मतद्वयेऽपि जाठरविशिष्टपरमात्मोपासनमङ्गीकृत्य, वैश्वानरशब्दो-
ऽग्निसाधारणोऽपि परमात्मधर्मविशेषितो यथा विश्वेषां नराणां नेतृत्वादिना गुणेन परमात्मान-
मेवाचष्ट इति निश्चीयते । तथा स एषोऽग्निर्वैश्वानरो यत्पुरुष इति वाजसनेयिपठितोऽग्निशब्दोऽपि
ते