अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 688, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९९७
अनुस्मृतेर्बादरिः ॥ ३० ॥
बादरिः केवलयौक्तिकचिन्तनवशात् प्रादुर्भूतरूपानुवादिका श्रुतिरिति ।
'यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय' इति वाक्यानु-
रोधात् । अन्यथा बहुकल्पनायां बुद्धिसौकर्याभावात् तार्किकादिमतेष्वपि
तथात्वाद् युक्त्यनुरोधेन ब्रह्मवादोऽप्यन्यथा नेय इति हि मन्यते । अस्मिन्
पक्षे त्वतात्त्विकत्वम् । अथवा मायास्थाने अनुस्मृतिः अभिव्यक्तिस्तु तुल्या ।
एवं सति बादरिमतेऽपि तात्त्विकमेव रूपम् ॥ ३० ॥
भाष्यप्रकाशः ।
अनुस्मृतेर्बादरिः ॥ ३० ॥ अत्रापि भाष्यमुत्तानार्थम् ॥ ३० ॥
रश्मिः ।
अकारोकारमकारनादरूपास्तद्वाच्याः । ब्रह्मविष्णुध्वनि ईश्वरवरदावादिपदार्थौ तत्तद्गुणाः सत्त्वरज-
[L1