सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 687, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 687

५९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २९
अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
निराकारमेव ब्रह्म मायाजवनिकाच्छन्नं तदपगमेन पुरुषाकारेणाधिदै-
विकदेवताधिष्ठितेनाभिव्यक्तः पुरुषोऽन्तर्यामी । अत एव पुरुषविध इति ।
अभिव्यक्तेर्हेतोः साकारत्वमपि मायापगमनकृतत्वान्न स्वाभाविकत्वम् । तथापि
निर्दिश्यमानं सच्चिदानन्दरूपमेवाश्मरथ्यो मन्यते ॥ २९ ॥
भाष्यप्रकाशः ।
काङ्क्षायां, जैमिनीयचतुर्लक्षणीसमाप्तौ, 'स विष्णुराह हि', 'तद् ब्रह्मेत्याचक्षते तद् ब्रह्मेत्याचक्षते'
इति सूत्रद्वयात् तदनुसारेणाहुः अत इत्यादि । अत इति एवमुभयबलविचारकत्वात् । इदं च
सूत्रद्वयं शतदूषणीकृता व्यंकटाचार्याभिधेन स्वग्रन्थ उपन्यस्तम् ॥ २८ ॥
अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥ एतदादिषु त्रिषु सूत्रेष्वविर