सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 684, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 684

कृत्रिमं वेति । अस्मिन् सिद्ध एव पूर्वोक्तं सिद्धं भवेदिति विचार्यते तत्रास्मि-
न्नर्थे चत्वार ऋषयो वेदार्थचिन्तकाः प्रकारभेदेन । तत्र केवलं शब्दबलविचारका
आचार्याः । शब्दार्थयोर्जेमिनिः । आश्मरथ्यस्तु शब्दोपसर्जनेनार्थविचारकः ।
केवलार्थविचारको बादरिरिति । आचार्यः पुनर्विचाराविचारयोर्दोषं पश्यन्
विचारमपि वदँस्तेषामल्पबुद्धिख्यापनाय नामान्याह ।
तत्र जैमिनिरुभयबलविचारकः प्रथमं निर्दिश्यते । व्यापकस्य प्रादेशमात्रत्वे
साक्षादपि कल्पनाव्यतिरेकेणापि स्वरूपविचारेणैवाविरोधं मन्यते जैमिनिः ।
आकाशवद् व्यापकं सर्वतःपाणिपादान्तं ब्रह्म । अत एव साकारत्वमनन्त-

भाष्यप्रकाशः ।
ज्ञेयः । ननु चतुर्भिः सूत्रैः सर्वसिद्ध्यधिकरणार्थे सिद्धे एतेषां सूत्राणां किं प्रयोजनमित्या-
काङ्क्षायामाहुः अधुनेत्यादि । पूर्वोक्तमिति असाधारणभगवद्धर्मरूपं विरुद्ध