अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 683, कुल 2600 में से
संदर्भ में पढ़ें५९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २८ ]
साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
अधुना परिमाणविशेषो विचार्यते । प्रादेशमात्रत्वं भगवतः स्वाभाविकं
भाष्यप्रकाशः ।
अत एव न देवता भूतं च ॥ २७ ॥ इत्यादीति आदिपदेन, वैश्वानरं केतुमहामि-
त्यादीनां संग्रहः ॥ २७ ॥
साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥ एतदादिषु पञ्चसूत्रेषु, मन्यत इत्यस्याध्याहारो
रश्मिः ।
अत एव न देवता भूतं च ॥ २७ ॥ 'भाष्ये । वैश्वानर इति इयं श्रुतिः संहिताप्रा-
थमाष्टकपञ्चमप्रकथ्या । 'वैश्वानरो न ऊत्या प्रयातु परावतः अभिरूक्थेन वाहसा वैश्वानरममृतस्य
ज्योतिषस्पतिम् । अजस्रं धर्ममीमहे' इति मन्त्रैश्च देवताव्यतिरिक्ताग्नेर्न ऊत्या दुर्वासनया 'ऊतयः
कर्मवासनाः' इति वाक्यात् ।