अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 615, कुल 2600 में से
संदर्भ में पढ़ें५२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ५ सू० १३
अन्तर उपपत्तेः ॥ १३ ॥ ( १-२-५ )
य एषोऽक्षिणि पुरुषो दृश्यते । एष आत्मेति होवाचैतदमृतमभयमेतद्
भाष्यप्रकाशः ।
अन्तर उपपत्तेः ॥ १३ ॥ अतीतेषु त्रिष्वधिकरणेषु प्रथमे वैशेष्येण लौकिकभोगबाधकं
रूपं परिहृत्याग्रिमाभ्यां चराचरग्रहणयुगपदुभयप्रवेशाच्च संपद्यमानदशास्थो मोक्षदशास्थश्चेत्यु-
भयविधोऽपेक्षितो भोगः साधितः । इदानीं संसारदशायां किं वैशेष्यमित्याकाङ्क्षायां तन्निर्णैतु-
मिदमारभ्यत इत्युपोद्घातरूपां संगतिं बोधयितुं विषयवाक्यमुदाहरन्ति य एष इत्यादि । श्रूयते
इति छान्दोग्ये षष्ठे प्रपाठके उपकोसलविद्यायां श्रूयते । वाक्यार्थस्तु, ब्रह्मेत्यन्तं पुरःस्फूर्तिकः ।
अग्रे तु पूर्ववाक्ये यदाचार्येणोक्तम्, अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त
रश्मिः ।
न चोक्तपाशात्तिसिद्धान्तेऽपि जीवब्रह्मरूपार्थं विहाय शुभशुभाशुभपातारौ स्तामिति चेन्न पुराश-
मतस्य सिद्धान्ते पृथक्त्वात् । न च भेदं विना ऋतं ब्रह्मात्मकं परस्परं पातुं शक्यं नेति शक्यम् । सत्य
आत्मा सत्यो जीवः सत्यं भिदा इमेवारुण्यो इति पैङ्गिश्रुतेः अस्या अभिप्रायो 'अन्तरा भूतग्रामवत्
स्वात्मनः' इति सूत्रे वक्ष्यते । विशेषणाच्चेति सूत्रे 'यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्' इति ।
'पृथग्वक्तुं गुणास्तेन न शक्यन्तेऽमितत्वतः ।
यतोतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥
एतस्माद्ब्रह्मशब्दोयं विष्णोरेव विशेषणम् ।
अमिता हि गुणा यस्मात् नान्येषां तन्मृते विभुम्' ॥ इति भाष्ये ।
विष्णुस्तु ब्रह्मविद्योपनिषदि ।
'यजुर्वेदान्तरिक्षं च दक्षिणाग्निस्तथैव च ।
विष्णुश्च भगवान् देवः उकारः परिकीर्तितः' ॥ इति ।
ॐमित्येकाक्षरं ब्रह्म यदुक्तं तदन्तर्गतोंकारान्तर्गतः । ब्राह्मस्य हिरण्यगर्भमाहात्म्यप्रतिपादकत्वेन
राजसत्वेन ब्राह्मेणोपेक्षितत्वाच्च ॥ १२ ॥
इति चतुर्थाधिकरणम् ॥ ४ ॥
अन्तर उपपत्तेः ॥ १३ ॥ वैशेष्येणेति 'संभोगप्राप्तिरिति चेन्न वैशेष्यात्' इति सूत्रे
वैशेष्येण सर्वरूपत्वमानन्दरूपत्वं स्वकर्तृत्वं विशेषस्तद्भावो ब्रह्मणि वर्तते इति भाष्योक्तेन वैशेष्यपद-
सूचितापेक्षितभोगभोक्तृत्वेन च भोगेऽङ्गीकृते यद्बाधकं दुःखसाक्षात्कारतत् साधनादिपरिहरूपं तत्परि-
हृतेत्यर्थः । अपेक्षित इति यत्प्रयन्तीति श्रुत्या 'पुरश्चक्रे द्विपदः पुरः पुरुष आविशत्' इति श्रुत्या
चानेन जीवेनात्मनानुप्रविश्येति श्रुत्या चापेक्षितः । इच्छां विना चराचरग्रहणयुगपदुभय-
प्रवेशयोरनाविर्भावात् । अत उभाविष्टावपेक्षितौ । किं वैशेष्यमिति भाष्ये विवृतमपि संभोगप्राप्ति-
सूत्रे कर्मफलप्राप्तिरूपदूषणदूषितमित्याकाङ्क्षायां निर्लेपत्वमपहतपाप्मत्वं च वैशेष्यं निर्णतुम-
र्थः । उपोद्घातेति प्रकृतं वैशेष्यं तद्भोगसाधकं तदा सिद्ध्येद्यद्यपहतपाप्मत्वं निर्लेपत्वं च
वैशेष्यं स्यात् । तत्कृतसिद्धयर्था चिन्ता निर्लेपत्वापहतपाप्मत्वचिन्ता तामुपोद्घातं विदुदुर्भाष्य-
द्रुशमित्यर्थः । स इति जाबाल आचार्यः । बोध्य इति वाक्यार्थो योज्यः । अन्यैरिति
524