सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 614, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 614

पूर्वतन्त्रीयन्यायाद् द्वावप्यर्थौ प्रकरणाविरोधात् तत्र तत्र व्यवस्थितावङ्गीकार्यो तत्र पाठविशिष्ट-
मन्त्रस्यैवात्रार्थविशिष्टस्यैव तस्य प्रकरणिना ग्रहणात् । अर्थभेदं विना व्याख्यानवैयार्थ्यादिप्रसङ्गा-
दिति । अतो मन्त्रवर्णैक्येऽप्यर्थभेदान्मैकवाक्यत्वम् । ऋतमित्यस्य तूभयभेद इति सुतरां तथेत्य-
स्मिन् मन्त्रे तन्न्यायसंचारणामसंगतमेवेति दिक् ।
एवं चात्र परमात्मनोऽलौकिकभोगयोगे दोषराहित्यस्य प्रसङ्गेन विचारात् प्रलयकर्तृत्वे
दोषरहितत्वं समर्थितमितीदं पूर्वस्यैव शेषः ॥ १२ ॥
इति चतुर्थं गुहां प्रविष्टावित्यधिकरणम् ॥ ४ ॥
रश्मिः।
इत्यस्याग्रे द्वा सुपर्णेति । समाने वृक्ष इति अत्र प्रकरणं प्रायपाठसहितम् । उपलक्षणमेतत् ।
मुक्तजीवनिरूपणेपि ब्रह्मनिरूपणस्याक्षतेरिति हेतोः । 'एकदेशविकृतमनन्यवत्' । अतो भाष्ये द्वा सुपर्णेति
निःसंदिग्धमिति कथनात् निःसंदिग्धस्याविषयवाक्यत्वेन तत्र चकारः । प्रकरणोक्तेति भाष्यवाक्य-
सांनिध्येन द्वा सुपर्णेत्यस्यामपि प्रकरणं ध्वन्यत इत्यप्रयोजकमिति निरस्तम् । पूर्वं हेतुमङ्गीकृत्य
व्यवस्थामाहुः अतो म्नातेष्विति । तृतीयास्याष्टमे पादेयं न्यायोस्ति तत्र दर्शपूर्णमासयोरध्वर्यु-
काण्डे याजमानकाण्डे च वाजस्य मा प्रसवेनेत्ययं मन्त्रः आम्नातः तत्र यजमानेनैव प्रयोक्तव्यः
अध्वर्युणा वा उभाभ्यामपीति वेति संशयोर्थस्य सुकुव्यूहनादेराध्वर्यवत्वात् मन्त्रोपि तेनैव प्रयो-
क्तव्यः इति पूर्वः पक्षः । प्रकरणद्वयपाठवैयर्थ्यपरिहारायोभाभ्यां प्रयोक्तव्य इति सिद्धान्तः ।
मन्त्रप्रकाशिताथमनुष्ठास्यामीति अत्र न प्रमदितव्यमिति च तयोराशयः । उभौ मन्त्रप्रयोक्तारौ
म्नातेषु मन्त्रेषु । द्वाविति मुक्तबद्धजीवरूपौ जीवब्रह्मरूपौ वा । तत्र तत्रेति पैङ्गिरहस्ये
मुण्डकश्वेताश्वतरयोश्च । व्यवस्थित्यङ्गीकारे सद्दष्टान्तं हेतुमाहुः तत्र पाठेति । न च मन्त्रस्वरूप-
मेव प्रकरणिना गृह्यते न तु पाठोपीति वाच्यम् । पाठविशिष्टमन्त्रस्यैव प्रकरणे विपरिवृत्तेः पाठा-
तिकमे कारणाभावात् । अत एव प्रयोगकाले मन्त्राणां पाठसिद्धिः । अन्यथा स्मृतिस्वेनापि मन्त्रे-
णार्थप्रकाशनसंभवान् नैकान्तेनोच्चारणं सिद्ध्येत् । अतः पाठविशिष्टमन्त्रस्यैव प्रकरणिना ग्रहणम् ।
तस्यैवात्र मुण्डकादौ पैङ्गिरहस्ये चोक्तार्थविशिष्टस्यैव तस्य मन्त्रस्य प्रकरणिना ब्रह्मणा क्षेत्रज्ञेन च
ग्रहणादित्यर्थः । व्याख्यानेति पैङ्गिरहस्योक्तव्याख्यान इत्यर्थः । आदिपदेन प्रकरणम् । मन्त्र-
वर्णेति पैङ्गिरहस्यमुण्डकश्वेताश्वतरमन्त्राणामैक्येपि । उभयेति द्वा सुपर्णेति मन्त्रशब्दार्योभयभेद
इत्यर्थः । तथेति नैकवाक्यता । पञ्चमाङ्कमधिकरणस्याहुः एवं चेति । शेष इति तथा चोपोद्घातः
संगतिरित्यर्थः । माध्वास्तु ऋतं शुभं हरिः पिबेत् शुभाशुभे जीवः पिबेत् ।
'शुभं पिबत्यसौ नित्यं नाशुभं तु हरिः पिबेत् ।
पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित्' ॥
इति पाठात् । यो वेद निहितं गुहायामित्यादिना प्रसिद्धं हिशब्देन दर्शयतीत्याहुः । तत्पौ-
राणमिश्रश्रौतं मतम् । अस्माकं तु शुद्धो मन्त्रवादः ।
'वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि ।
समाधिभाषा व्यासस्य प्रमाणं तच्चतुष्टयम्' ॥ इति निबन्धात् ।
'कृष्णवाक्यानुसारेण शास्त्रार्थ ये वदन्ति हि ।
ते हि भागवता प्रोक्ताः शुद्धाद्वैते मन्त्रवादिनः' ॥ इति निबन्धाच्च