सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 476, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 476

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३८७
तद्वाचकत्वेन गायत्र्यामुपचारेणोपसंहारः । चकारार्था न शब्दस्य पादा
भवन्ति, किंत्वर्थस्यैवेति । तस्माद्ब्रह्मवाक्यत्वे भूतादीनां पादत्वमुपपद्यते
नान्यथेति । तस्मात् पादानां ब्रह्मधर्मत्वम् ॥ २५ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २६ ॥
‘पादोऽस्य विश्वा भूतानि’ सर्वाणि भूतान्येकः पादः । पादत्रयममृतं
दिवीत्येकोऽर्थः ।
‘पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः ।
अमृतं क्षेममभयं त्रिमूर्द्धोऽधायि मूर्द्धसु’ ॥ इत्यपरः ।
भाष्यप्रकाशः ।
इति शङ्क्यम् । पुरुषसूक्तविवरणाध्याये चैतद्गव्याख्यान आश्रमचतुष्टयस्थानां भौतिकशरी-
विशिष्टजीवानामेव व्याख्यातत्वाच्छरीरवैशिष्ट्ये च भूतपृथिव्यादेरपि परिचायकत्वेनैव संगृ-
हीतत्वस्मृत्या ग्रहणे तद्विरोधापत्तेस्तन्मुख्यतया वक्तुमशक्यत्वात् । नच गायत्री चेति वाक्य-
विरोधः । अस्मिन् वाक्य इत्याद्युक्तरीत्या तेषां गायत्र्यामुपचारेणोपसंहार इति तद्विरोधा-
भावादित्यर्थः । तद्वाचकत्वेनेति ब्रह्मवाचकत्वेन । उपसंहार इति सैषा चतुष्पदेत्यादिनोक्तः
सः । तथाच पादानां ब्रह्मधर्मत्वाभावे गायत्र्यां तद्व्यपदेशस्यापि वक्तुमशक्यत्वात् त्वया
स्वमतोपपादनायाप्यस्मदुक्तमवश्यमङ्गीकरणीयमिति, गलं पादुकान्यायेन तदङ्गीकारणं प्रयोजन-
मित्यर्थः । एतेन सूत्रस्थमेवंपदं व्याख्यातम् । स्फुटमन्यत् ॥ २५ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २६ ॥ सूत्रं व्याख्यातुं तदर्थं
रश्मिः ।
तन्मुख्यतयेत्यादि तेषां भूतपृथिवीशरीरहृदयानां मुख्यपादताया इत्यर्थः । स इति चतुष्पाद्
ब्रह्मत्वेन दृष्टा गायत्र्येतदुपासनोक्तफलाय भवतीत्येतदर्थं पादानां विधानं चोपसंहार इत्यर्थः ।
वृत्त्यनुसारेणेदं प्रतिज्ञावाक्यमुक्तम् । गले पादुकान्यायेनेति अयं क्वचित्प्रसिद्धः कैकेय्या
रामराज्यार्थं यतन्त्या रामपादुकां गले खे कृते इति न्यायो वा । भरतेन रामपादुके सेविते इति
तयापि तथा । एवमनिच्छतोपि ग्राहिते पादुके यथा तथेदमपि वृत्तमित्यर्थः । ब्रह्मण एव पादा युक्ता
इति सूत्रस्थसैवंपदस्यार्थ इत्याहुः एतेनेत्यादिना । वृत्तौ त्वेवमित्यस्य तव मतोपपत्तिरित्यर्थ उक्तः ।
अन्यदिति तस्मादित्यादिना सिद्धकथनं स्फुटार्थमित्यर्थः ॥ २५ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २६ ॥ अत्रैवं भाति । बहुधा हि
पादनिरूपणं भवति तत्र ‘पादेषु सर्वभूतानि’ इत्यत्र मुरादयः पादाः ‘पादास्त्रयो बहिश्च’ इत्यत्राश्रम-
स्था जीवाः पादाः । पादोस्येत्यत्र सर्वभूतान्येकः पादोऽमृतादयस्त्रयस्त्रयः पादा इति सिद्ध्यति । किं
चाकारउकारमकारार्थमात्राकाराः पादाः ब्रह्मविष्णुकपर्दितुरीयपादाः भूतपृथिवीशरीरहृदयानि पदानि ।
प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलाः पादाः । पृथ्वी कलाऽन्तरिक्षं कला द्यौः
कला समुद्रं कलाः पादाः । अग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलाः पादाः । प्राणः कला
चक्षुः कला श्रोत्रं कला मनः कलाः पादाः । एकश्छन्दश्च संख्यावाची । मुख्यत्वं च पुरःस्फूर्तिकत्वे
387

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 476, कुल 2600 में से · SarvaKosh