सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 402, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 402

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३१३
जीवोऽत्र मुख्यः । कर्तृत्वेन व्यपदेशात् । स च वस्तुतो हंसरूपः ।
पुरुषाधिकारकं हि शास्त्रम् । तेन पुरुषशरीरे तदाकारः सर्वं फलं प्राप्नोति ।
अतः पुरुषं हंसरूपेणानुवर्णयति ।
भाष्यप्रकाशः ।
बहिर्वेष्टितस्य तदाकारता तूपदेहे सीवितवसनादौ च । तथाच यथा भाण्डकर्त्तारः प्रथमत
आकृतिं मधूत्थादेः कृत्वा तदुपरि मृदं वेष्टयित्वा तन्मूषायां धातून् पूरयन्ति । अन्यथा
पूरितभाण्डनिर्माणं न भवति । तथात्र तादृशोऽयं देहः । अतोऽत्र देहे कश्चिदान्तर एवं-
विधो वर्तते यदुपरि समागता अन्नरसादयः पुरुषाकारा भवन्ति । नो चेद् घटादिवत्
कृतिसाध्यत्वाभावाद् भसोत्करवद् राशीभूता एव भवेयुः । अत्र तु श्रुतौ, 'तस्माद्वा
एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध
एव तस्य पुरुषविधतामन्वयं पुरुषविधः' इत्यादौ पूर्वं प्राणमयादिकमुक्त्वा तेन प्राणमया-
दिना आन्तरेण एषोऽन्नमयादिरुपरितनः पूर्ण इति पूर्वोक्तन्यायेन पूर्णतां प्रतिज्ञाय तत्तत्तां
निगमयितुं, 'स वा एष प्राणमयादिः पुरुषविध एव' इत्यनेन तदाकारमुक्त्वा तस्य
प्राणमयादेः पुरुषविधतामनुलक्ष्यीकृत्य, अयमन्नमयादिः पुरुषविध इति वदति । तेन
सर्वान्तरस्यानन्दमयस्यैव सर्वत्र पुरुषाकारसमर्पकता पर्यवस्यति । तेन तथा सिद्ध्यतीति ।
नन्वस्त्वेवं, तावता स्तुतिः का वा सिद्ध्यतीत्यत आहुः जीव इत्यादि । वर्णयतीत्य-
न्तम् । तेनेति हेतुना । तदाकार इति हंसाकारः । अयमर्थः । उक्तमन्त्रे सोऽश्नुत
इत्यनेन जीवः फलांशने कर्तृतया व्यपदिष्टः फलभोगे मुख्यः । तस्य च, द्वा सुपर्णा-
विति श्रुत्या, 'एवं स मानसो हंसो हंसेनेव प्रबोधितः' इति स्मृत्या च हंसरूपेणैव
सिद्धत्वात् पुरुषाधिकारेण प्रवृत्तस्य शास्त्रस्य तं प्रत्यप्रवृत्तौ तस्य ब्रह्मवित्त्वाद्यभावेन वेद-
नादिफलप्राप्त्यभावाच्छास्त्रवैयर्थ्यं स्यादिति फलार्थं शास्त्रसार्थक्यार्थं च जीवस्य पुरुषरूप-
मावश्यकम् । तथा समतां विना फलानुभवदौर्घट्याद् ब्रह्मसमतायाश्च, 'न तत्समः' इत्यादि-
श्रुत्या निषेधात् फलानुभावनार्थं समतायै ब्रह्मणोऽपि हंसरूपमावश्यकम् । अतः पुरुष
एव यदा हंसरूपेण जीवान्तराविश्य तं पुरुषरूपेणान्तरितवाँस्तदा तद्ग्रहणेन पुरुषरूपो जीवः
रश्मिः ।
मूषेति सांचा इति लोक उच्यते । उपदेहे इति नागकञ्चुक्यामित्यर्थः । मधूत्थादेरिति । मेन इति लोके ।
फलानुभवेति फलं कर्मफलभोगस्तदर्थमत्रापि समता नायाततो गौणमुख्यन्यायेन सार्ष्टि
प्रलम्भ (फलं) सस्वरूपं फलं च तदनुभावनार्थं समता वक्तव्या अन्यथा तद्वाक्यवैयर्थ्यप्रसङ्गात् ।
तस्यै समताया इत्यर्थः । विरुद्धधर्माश्रयत्वात् समतासमते उपपन्ने । अत इति हंसद्वयस्य पुरुषस्य
चावश्यकत्वात् । पुरुष इति पुरा आस इति व्युत्पन्नः । न तु पुरि शेते इति न वा पुरुपुषतीति
व्युत्पन्नः । एवकार इममर्थं व्यवच्छिनत्ति । पुरा सृष्टेःपूर्वं व्युत्पत्तिद्वयासम्भवात् । तस्य रूपद्वयं हंसः
पूर्वशास्त्रे 'ततो ह जातः' इति श्रुतेः । पुरुषो वेदान्तशास्त्रे 'आत्मैवेदमग्र आसीत्' इति श्रुतेः । तयो रूपयोः
समावेशः द्वा सुपर्णेति श्रुतेराहुः यदेति । हंसेति गतिप्रतिबन्धकमुल्लङ्घ्य प्रवेशार्थम् । जीवा-
न्तरेति जीवो जीवमजीवयदिति वाक्यात् । 'यस्यात्मा शरीर'मिति श्रुतेश्च । तमिति जीवम् । 'आकाश-
शरीरं ब्रह्म'ति श्रुतेः । 'आकाशो ह वै नामरूपयोर्निर्वहिता' इति श्रुतेश्च पुरुषरूपेण 'तासां मे पौरुषी
313