अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 401, कुल 2600 में से
संदर्भ में पढ़ेंAn exact, line-by-line transcription of the provided Sanskrit text into clean Markdown in Unicode Devanagari:
३१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० ५ सू० १४
तस्य हि फलत्वं वाक्ये नोपपद्यते । फलं तु सर्वैः स्तुत आनन्दः ।
अभ्यासात् स्तुतत्वमित्यवोचाम । शिरःपाण्यादिकं तु स्तुत्यर्थमेव पुरुषविधत्वाय ।
लोके ह्यन्तर्भूतं बहिर्वेष्टितं च तदाकारं भवति ।
भाष्यप्रकाशः ।
सर्वज्ञे ब्रह्मणि कस्मिन्नंशे कुतश्च संदेह इत्यत आहुः तस्य हीत्यादि । वाक्य इति
मन्त्रे । तथाच ब्राह्मणवाक्ये द्वितीया परस्य फलत्वबोधनात्, तद्व्याख्यानमन्त्रे तु द्विती-
यया कामानां फलत्वबोधनाद् ब्रह्मणश्च गौणत्वबोधनात् तस्य फलत्वांशे संदेह इत्यर्थः ।
तर्हि कथं तस्य फलत्वमुपपाद्यत इत्याकाङ्क्षायां सर्वतः प्रचुरानन्दरूपत्वेनोपपाद्यत इत्याहुः
फलं त्वित्यादि । सर्वैरिति प्रकारै