अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 287, कुल 2600 में से
संदर्भ में पढ़ें२०० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
'सर्वं समाप्नोषि ततोऽसि सर्वः' इति स्मृतेश्चेति चेत् मैवम् । तथा सति पाष-
ण्डित्वं स्यात् । एतादृशशास्त्रार्थाङ्गीकर्तुरासुरेषु भगवता गणितत्वात् ।
'असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत् कामहेतुकम्' इति ।
भाष्यप्रकाशः ।
अत्र समादधते मैवमित्यादि । तथा सतीति सर्वधर्मापवादे कृते सति । पाष-
ण्डित्वमिति पापलिङ्गवत्त्वम् । 'तानि पापस्य षण्डानि लिङ्गं षण्डमिहोच्यते' इति श्रीभागवत-
वाक्यात् । गीतावाक्यार्थस्तु, ते आसुराः, असत्यं नास्ति सत्यं वेदपुराणादिप्रमाणं यस्मिंस्त-
दसत्यम् । वेदादिस्वरूपसत्त्वेऽपि तत्प्रामाण्यानभ्युपगमाद्विशिष्टाभावः । अत एव नास्ति
धर्माधर्मरूपा प्रतिष्ठा हेतुव्यवस्था यस्ये