अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2552, कुल 2600 में से
संदर्भ में पढ़ेंकलिकालबाधकत्वमाहुः श्रीति ।
श्रीवल्लभाचार्यमार्गे शरणात्सेवनाद्धरेः ।
तत्कथाश्रवणाच्चापि न कालो बाधते क्वचित् ॥ २ ॥
शरणं सकलसाधननिषण्णं भगवद्विषयकमात्मविषयकं च । 'कृष्णमेव विचिन्तये'दिति
सिद्धान्तमुक्तावली । सेवनकथाश्रवणे संप्रदायप्रदीपे एताभ्यां हरिं सेवेतेति । कालो न बाधत
इति कठवल्ल्यां 'मयादस्याग्निस्तपति भयात्तपति सूर्यः' इत्युपक्रम्य 'मृत्युर्धावति पञ्चम' इति श्रुतेः ।
'कालात्मा दिनकृदि'ति ज्योतिषे । यो बिभेति स न बाधते कचिद्देशे ।
अनुवृत्त्यास्योत्सङ्गसेवायां कालाबाधमुक्त्वा तत्र तस्यानुगुणत्वं तत्र करणं चाहुः वै इति ।
वैराग्यप्रेमयोगेन शरणादित्रिकात्पुनः ।
प्रसीदति हरिः शीघ्रं कालश्चानुगुणो भवेत् ॥ ३ ॥
[L