सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2551, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2551

परिशिष्टम्। १५
हीनमध्यमोत्तमभेदतो व्यस्तैस्तैः पूर्वोक्तैः प्रकारैः सुहृद्भिः सुशोभनैराचार्याभिमतैः हृदैः स्व-
रुचिमन्ननशास्त्राभ्यासकृतैः। व्यासस्तु स्वरुच्या कायवाग्भ्यां कृता हीनाधिकारिणी कायवाङ्मनोभिस्तैः
सप्रेमैः कृता मध्यमाधिकारिणी तैः दृढप्रेमसहितैः दृढमूल्युत्तमाधिकारिणी लतावृद्धद्वचोत्तमोत्तमाधिका-
रिणी, अयं भेदो नातिप्रसिद्धोऽनुग्रहसाध्य इत्युत्तमान्तर्गतमात्रो गृहीतः। 'मुक्तिं ददाति कर्हिचित् स्म
न भक्तियोगम्' इति वाक्यादुत्तमोत्तमाधिकारिभक्तिरनुग्रहे सति ददातीति। अत्र फलं ब्राह्मेणेत्यादि-
सूत्रोक्तं भगवत्सेवोपयोगिदेहो वैकुण्ठादिषु, अलौकिकसामर्थ्यं तु 'निवेदितात्मा विचिकीर्षितो मे' इति
वाक्यादत्यन्तानुग्रहे सति संपादयति । आत्मनिवेदनमात्मनिवेदनपद्धतौ द्रष्टव्यं सप्रकारम् ।
'अभि त्वा शूर नोनुमोऽदुग्धा इव धेनव' इत्याद्याः श्रुतयः। त्रिविधं निवेदनम्। आत्मा तु ईश्वरे तस्मा-
त्कृतात्मनिवेदनेन विहाय पुरुषोत्तमं न कोपि भजनीयः शरीरं तु गुरुपुरुषोत्तमयोः कार्ये कल्पनीयं
नान्यत्र तथा सर्वं धनादिकमपि। यदा निवेदितं शरीरं गुर्बुर्विक्रीणाति भुनक्ति वा कथमपि
करोति तदा तस्मिन् शरीरे स्वयं स्वामित्वं न करणीयम् । 'विक्रीतस्य पशोः पुत्र न कर्तव्यो
यथा व्ययः । न करोति पुनः शिष्यस्तथा जीवे निवेदिते' इति काठिन्यमस्तीत्यनधिकारिणि न
देयम् । 'यस्य देवे परा भक्तिः' 'स इतः प्रेत्यानन्दमयमात्मानमुपसङ्क्रामति' परं विशिष्टं चिकीर्षु पुष्ट-
भक्तत्वादिति प्रतिभाति ।
'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन' इति
श्वेताश्वतरन्यायादप्रकाशितानां फलानुपयोगमाशङ्क्य प्रकाशार्थं पवित्र्यद्वारा भावजनकरजोभक्ति
स्मरणात्मिकां मार्गरूपार्थप्रकाशद्वारा फलोपयोगार्थमाहुः पित्रित्यादि ।
पितृपादरजो जातु ह्युत्तमैर्विस्मृतं न यैः ।
तेषामेव हि मार्गीयं फलिष्यति न चान्यथा ॥ ९ ॥
अन्यथा पितृपादरजोविस्मृतत्वप्रकारेण वर्तमानानां च पुनर्न फलिष्यति तदुक्तं
'यत्पादरजसागत्य यादृग्भावः कृतो मम । तादृशेनैव तद्भावं वर्णयाम्यवशः क्वचिद्'िति भ्रमरगीत-
टिप्पण्यां स्वानुभव उक्तः। एकादशे चतुर्दशाध्याये 'पूयेयेतद्घिंरेणुभि'रिति रजसो महदङ्घ्रिसम्बन्धिनः
पावित्र्यं प्रति कारणत्वमुक्तम् ।
एवं प्रवृत्त्यर्थं फलमुपपाद्य बाधकसरत्वे प्रवृत्तिरपि निष्फलातः कालस्य बाधकत्वाभावमनुगुणत्वं
विरोधदार्ढ्यं संप्राप्त्यर्थमपि वदन्तो नमनात्मकविरहदशायां वस्तुनिर्देशात्मकं च मङ्गलं ग्रन्थमध्य्येऽष्ट-
श्लोक्याहुः श्रीति ।
श्रीवल्लभो जयति भक्तहितैकबन्धु-
राविश्चकार तनयं किल विठ्ठलं यः।
तस्यैव पादयुगलं सततं नमामि
प्रेम्णा तदस्तु हृदये मम सर्वदैव ॥ १ ॥
वल्लभपदमरारम्भ एव व्याख्यातम् । भक्तानां हितम्भासावेकबन्धुर्बहुल्यबन्धुः । विशेषणप्रति-
पादनार्थं ज्येष्ठभ्रातरोनुजस्य स्वनामापि गृहीतवन्तः । विट् ज्ञानं तान् शून्यान् लातीति पितृ-
प्रवर्तितपयप्रचारसुविचारक इति नाम ।
2413