सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2503, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2503

प्रकृतमनुसर्यतेऽधुना, तद्रूपम्, सत्पुण्डरीकनयनमित्याद्युक्तं गोपालतापनीये किन्तद्रूपमिति प्रश्न
एतदुत्तराद् व्याख्याताश्चैताः श्रुतयः प्राक् ह्यनुक्रमशः । गुणातीतं गीतायाम् 'नान्यं गुणेभ्यः कर्तारं यदा
द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोधिगच्छती'ति । यद्वा 'निर्गुणं गुणभोक्तृ चे'ति निर्गुणं 'सत्यं
ज्ञानमनन्तं ब्रह्मे'त्युक्तं गुणभोक्तृ, 'आनन्दमात्रमिति यद्वदन्तीह पुराविदः' इति वाक्योक्तमेतद्रूपद्वयम् ।
हि निश्चयेन सदैवेत्याहुः सदैव हीति । अयमर्थः । नात्र ज्ञानविषयं ब्रह्मोच्यते, ज्ञानं च फलात्मकं
'ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्' 'ब्रह्मविदाप्नोति परं' 'तमेव विदित्वातिमृत्युमेती'त्यादि-
श्रुतिस्मृत्युक्तम् । ततश्च तृतीयाध्यायस्य 'अम्बुवदग्रहणाद्'धिकरणोक्तं ब्रह्म प्रतिपिपादयिषित