अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2257, कुल 2600 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
अथ चतुर्थोऽध्यायः ।
प्रथमः पादः ।
समन्वयेनाविरोधात् साधनैर्ब्रह्मविद् यदि ।
तस्याग्रिमव्यवस्था या सा चतुर्थे विविच्यते ॥ १ ॥
जीवतो म्रियमाणस्य गच्छतः सफलस्य च ।
भाष्यप्रकाशः ।
अथ चतुर्थाध्यायं विवरिषवो यथा पूर्वाध्यायत्रयारम्भे कारिकाभिरध्यायार्थः पादार्थश्च
सङ्गृहीतः, तथात्राध्यायार्थं पादार्थांश्च सङ्गृह्णानाः पूर्वाध्यायसङ्गतिं निरूपणप्रकारं च बोधयितुं
पूर्वाध्यायार्थान् स्मारयन्तः प्रस्तुताध्यायार्थं सार्धेनाहुः समन्वयेनेत्यादि । श्रुतीनां पर-
स्पराविरोधाद् यो ब्रह्मणि सम्यगबाधितोन्वयः सम्यग्बोध