अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2237, कुल 2600 में से
संदर्भ में पढ़ेंयिकभक्तदशोक्ता । एते सर्वे फलमार्गीयाः । वाजसनेय्युक्तास्तु साधनमार्गीया
इति नानुषपत्तिः काचित् ॥ ४७ ॥
मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥
किञ्च । सन्न्यासिन आवश्यका ये धर्मास्ततोऽधिकास्ते गृहिणः सिद्ध्यन्ती-
भाष्यप्रकाशः।
भावात् । ननु यद्येवं दौर्लभ्यम्, तदा तत्कथनमाशक्योपदेशरूपत्वादप्रयोजनकं, अतो न वक्तव्य-
मेवेति किमित्युक्तमत आहुः केचनेत्यादि । तथा च दौर्लभ्येपि तत्सत्तास्तीत्यतस्तदनूदितम् ।
अतस्तादृशाधिकारे भगवत्कृपया सम्पन्ने तत्कर्तव्यताबोधनार्थं तत्कथनमित्यर्थः । नन्वात्रेयौ-
डुलोमिभ्यामेतादृशदशासम्पत्तौ गृहत्याग उच्यते, वाजसनेयके तु 'किं प्रजया करिष्यामो येषां
नो एवायमात्मा नायं लोक' इति श्रावणादात्मलोककामनामात्रे बोध्येते इति ताभ्यामुक्तं श्रुति-
विरुद्धम्, किञ्च, ये लीलादर्शनार्थं वनं गच्छन्ति, ते भगवदागमने पुनरायान्ति, न तु वन एव
स्थित्वा सन्न्यासिसिधर्मानतिष्ठन्तीत्यतोपि तच्छ्रुतिविरुद्धम्, अतः कथं श्रौते विचारे एवं तन्मतो-
पन्यास इत्यत आहुः । आत्रेयेत्यादि । एते सर्वे यदीया दशा ताभ्यामुक्ता, ते सर्वे भक्ताः
फलमार्गीयाः, मार्ग उपायः । फलमेव मार्गो यत्रासौ मार्गः फलमार्गस्तत्सम्बन्धिनः । यथा
गोपालतापनीयोक्ता गान्धर्वीप्रभृतयः । तथा च फलरूपो भगवान्नेव स्वस्वरूपं ताननुभावयतीति
भगवत्कृपाविशिष्टयैवेच्छया तेषां सर्वेन्द्रियव्यापाराः । वाजसनेयिनां कहोडब्राह्मण उक्तास्तु
साधनमार्गीयाः । साधनं शमादिविशिष्टं ज्ञानमेव मार्ग उपायः फलप्राप्तौ यत्रासौ साधनमार्गस्त-
त्सम्बन्धिन इति तत्तदधिकारिभेदेन तथा तथा कथनान्न पूर्वोक्ता श्रुतिविरोधरूपा काप्यनुप-
पत्तिरित्यर्थः ॥ ४७ ॥
मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥ सूत्रमवतारयन्ति किञ्चेत्यादि । व्याकुर्वन्ति
मौनपदमित्यादि । यद्यपि मुनेर्भावो मौनमिति योगेन विचारात्मकं ज्ञानमप्यादातुं शक्यते,
रश्मिः।
अतोऽवक्तव्यमिति । अतः अवक्तव्यमिति छेदः । आत्मेति । आत्मा च लोककामना चात्म-
लोककामने ते एवात्मलोककामनामात्रे बोध्येत । तन्मतेति । आत्रेयौडुलोमिमतोपन्यासः। फलसा-
धनयोः सामानाधिकरण्यमाहुः मार्ग उपाय इति । फलमार्ग इति । प्रमेयबलमिति यावत् ।
गान्धर्वीति । प्रभृतिपदेन व्रजस्त्रियः । 'तासां मध्ये श्रेष्ठा गान्धर्वी ह्युवाचे'ति श्रुतेः । एते
प्रमेयबलेन युक्ता इति प्रमेयबलरूपफलमार्गसम्बन्धिनः, तदाहुः तथा चेति । भगवानेवेति ।
फलमेव, एवकारेण तदतिरिक्तसाधनव्यवच्छेदः । भगवत्कृपेति । भगवदिच्छा, फले साधनांश
इति शेषः । कृपाविष्ठः साधनमित्याचार्योक्तेः । भगवत्कृपाविशिष्टयेच्छयेति न समस्तं पदम् ।
इच्छायां कृपाविशिष्टत्वाभावात् । विशिष्टयेति । ब्रह्मह्रदं नीतानामपि सर्वेन्द्रियव्यापारा भवन्त्विति
विशिष्टेच्छा तया । एवकारेण साधारणेच्छायोगव्यवच्छेदः क्रियते । भक्तमनोरथपूरकत्वेन रूप-
भेदात् । वाजसनेयीति भाष्यं विवृण्वन्ति स्म वाजसनेयिनामिति । साधनमित्यादि ।
'ब्रह्मविदाप्नोति पर'मित्यत्र ब्रह्मविदित्यत्र ज्ञानम् । तत्सम्बन्धिन इति । प्रमाणबलिनः । पूर्वो-
क्तेति । सूत्रारम्भोक्ता । श्रुतिस्तु 'एतद्ध स्म वै' इति ॥ ४७ ॥
मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥ रूढमिति । यौगिकमित्युक्ते विचारात्मकज्ञान-