सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2236, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2236

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५०७
कृतकृत्यता भवतीति तेनोपसंहारः कृत इत्यर्थः । अत एव 'आत्मनि सर्वेन्द्रियाणि
सम्प्रतिष्ठाप्ये'त्युच्यते । अत्र, आत्मपदं भगवत्परमिति ज्ञेयम् । कर्ममार्गीणगृहि-
व्यवच्छेदार्थ तुशब्दः ।
अत्रेदमाकूतम् । 'भक्तिमार्गो बहुविध' इति कपिलदेववाक्यात् केचन भक्ताः
स्वगृहेष्वेव स्नेहेन भगवदाकारे विविधोपचारैः सेवां कुर्वन्तस्तथैव निर्वृत्या मुक्ति-
मपि तुच्छां मन्यन्ते । तदुक्तं 'मधुद्विट्सेवानुरक्तमनसामभवोऽपि फल्गु'रिति ।
तेन भगवद्भजन एव, तत्रापि पुष्टिमार्ग एव, श्रुतेर्भर इति ज्ञायते । पूर्वमुक्तद्भग-
वद्भाववतां तदर्थं त्यागं निरूप्य, गृहिणोपसंहारतात्पर्यं पश्चाद् यन्निरूपितवान्,
तेन तादृग्भाववतैव त्यागः कार्यः, तद्रहितेन तु गृह एवोक्तरीत्या प्रभुभजनं कार्यम्,
तेनैव तल्लाभ इति व्यासहृदयमिति ज्ञायते । उक्तभावाभावे त्यागधर्मानिर्वाहा-
दिति । केचन भक्ता भाषणादिलीलादर्शनं विना स्थातुमशक्ताः प्रादुर्भावविव-
क्षाशाया गृहाँस्त्यक्त्वा वनं गच्छन्ति । आत्रेयौडुलोमिभ्यां तु भगवदवतारसाम-
भाष्यप्रकाशः।
च सार्थक्यम् । तेनेति । गृहिणा । एवं तात्पर्यं गमकमाहुः अत एवेत्यादि । कर्ममार्गी-
णेति । जैमिनीयेतन्त्रविचारितेत्यर्थः ।
ननु पूर्वाधिकरणे त्यागं निरूप्य, यदत्र गार्हस्थ्यं प्रशंसति, तत्किमित्याकाङ्क्षायामाहुः
अत्रेदमित्यादि । भक्तिमार्गो बहुविध इति कपिलदेववाक्यादिति । 'भक्तियोगो बहु-
विधो मार्गैर्भामिनि भाव्यते । स्वभावगुणभेदेन पुंसां भावो विभिद्यत' इति कपिलदेववाक्याद्-
भक्तिमार्गो बहुविध इत्यन्वयः । तदुक्तमिति 'यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्राच्यां
श्रियं सुरवरैः सदवावलोकाम् । नैच्छन्नृपस्तदुचितं महतां मधुद्विट्सेवानुरक्तमनसामभवोपि
फल्गु'रिति पञ्चमस्कन्धे भवाटवीसमाप्तौ शुकेनोक्तम् । तथा च भरतस्य राज्ञद्दशायां तथाभावस्योक्त-
त्वाद्वन्यस्यापि गृहिणस्तथाविधत्वे तथात्वमित्यर्थः । तेनेति । गृहिणोपसंहारे आत्मनि सर्वे-
न्द्रियसम्प्रतिष्ठापनादिकथनेन । श्रुतितात्पर्यं निरूप्य व्यासतात्पर्यं निरूपयन्ति पूर्वमित्यादि ।
तल्लाभ इति । भगवत्प्राप्तिः । उक्तभावाभावे त्यागधर्मानिर्वाहादिति । विगाढभावाभावे 'स
एवावस्ता'दित्यादिनोक्तस्य सर्वत्र तद्द्वानरूपस्य त्यागधर्मस्य मध्ये विच्छेदेन सर्वदा स्थैर्या-
रश्मिः।
न पुनरावर्तत' इत्यस्य । जैमिनीयेति । पूर्वतन्त्रविचारितगृहिण्व्यवच्छेदार्थ । यद्याहुः महाभाष्ये
'दम्पत्योः सहाधिकार' इति । पाठान्तरमाहुः भक्तियोगो बहुविध इति । भगवदाकार इति ।
भगवत्स्मरणं त्रैधा भवति, 'यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया । मदर्चोपासनाभिर्वा नान्यैर्योोग्यं
स्मरेन्मन' इत्येकादशे विंशाध्यायवाक्यात् । अत्र 'शङ्खचक्रे मृदा यस्तु कुर्यात् तप्तायसेन वा ।
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मण' इत्यत्र शङ्खचक्रनिषेधस्य तप्तायसे पर्यवसानवद् योग्यस्म-
रणस्य भगवदर्चोपासनायां पर्यवसानात् । तथात्वमिति । उक्तभाववत्त्वम् । गृहिणोपसंहार
इति । गृहिणा विद्योपसंहारे । पूर्वमित्यादीति । बहिस्तूभयथेत्यधिकरणे । तदर्थमिति । भगवद-
र्थम् । मर्यादां सहलात् त्यक्त्वा पुष्टिमाहुः । विगाढेति । इदं लिङ्गभूयस्त्वाधिकरणे स्पष्टम् ।
त्यागधर्मस्येति । त्यागः सर्वात्मभाव इति श्रीहरिरायजितः । तस्य धर्मश्चरमधूचिस्तस्य ।
2107