अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2069, कुल 2600 में से
संदर्भ में पढ़ें[४०८] श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १७ सू० ५२.
शब्दस्य श्रुतिवाक्यस्य 'आत्मत एवेदं सर्व'मिति यत् पूर्वं श्रुतिवाक्यं
तद्विधतैव प्रतीयते इति न लोकसम्बन्धो वक्तुं शक्य इत्यर्थः । ननु 'आ-
त्मत एवेदं सर्व'मिति वाक्येनैवैतदर्थलाभे पुनस्तदुक्तिर्नोचितेत्याशङ्कायां
तत्र हेतुमाह । तुशब्दः शङ्कानिरासे । भूयस्त्वाद्धेतोः । उक्तेऽर्थे हेतूनां बाहुल्ये
तदार्थ्यं भवतीत्याशयेनोक्तार्थस्यैव श्लोकेनानुबन्धः कृत इत्यर्थः । अथवा । भूयः-
पदमाधिक्यार्थकम् । तथाच स्वकृतसाधनसाधितफलापेक्षया स्वयमुद्यम्य भग-
वता साधितफले निरवधिरुत्कर्ष इति ज्ञापनार्थं पुनः श्लोकेन तथेत्यर्थः ॥ ५२ ॥
भाष्यप्रकाशः।
ताद्विध्यम्, 'आत्मत एवेदं सर्व'मित्येवं रूपं यत् श्लोकात् पूर्वं श्रुतिवाक्यं तद्विधता तत्स-
मानार्थकत्वमेव प्रतीयते, एतस्य पश्यश्लोकस्य 'तदेष श्लोक' इत्यनेन पूर्वोक्तसर्वार्थसंग्राहक-
तयोक्तत्वात्, पूर्वं चात्मन एव सर्वस्य निगमितत्वात् सर्वैः प्रकारैरात्मन एव पूर्वोक्तं सर्वमा-
प्नोतीत्यर्थस्य सिद्धेर्न प्रापञ्चिकलोकसम्बन्धो वक्तुं शक्य इत्यर्थः । सूत्रशेषमवतार्य व्याकुर्वन्ति
तुशब्द इत्यादि । अनुबन्धः कृत इति । अनु पूर्वोक्तं लक्ष्यीकृत्य बध्यते सम्बध्यत
इत्यनुबन्धः स कृतः । समासव्यासधारणस्य लोके विदुषामिष्टत्वाद्नेन श्लोकेन कृत
इत्यर्थः । उक्तरीत्या व्याख्याने अपुष्टार्थत्वमित्यरुल्यार्थान्तरमप्याहुः अथवेत्यादि । तथेति ।
अनुबन्धः ॥ ५२ ॥
रश्मिः ।
भवती'त्यत्रोक्तिर्नोचितेति । तुरस्याः शङ्काया निरासः । कुतः । भूयस्त्वात् । हेतूनां भूयस्त्वात् ।
उक्तार्थस्य हेत्वन्तररूपस्यानुबन्धः कृत आधिक्याद्वानुबन्धः कृत इति सूत्रार्थः । पादेनेति । तेन
भाष्ये परेण पादेनेति पाठः । पदेनेति प्रामादिकः पाठः । तदेष इति । तत् पूर्वोक्तमर्थं सङ्ग्रहेण
प्रतिपाद्यत्वेनाभिमुखी कृत्यैष श्लोको भवतीत्यर्थः । तदित्थन्त्यम् । सर्वैरिति । सर्वश इत्यस्यार्थः ।
सर्वदातुर्भिः सर्वमाप्नोतीत्यर्थव्यक्तेः सर्वैः प्रकारैरिति पर्यवसितोऽर्थः । बहुभिः प्रकारैरित्यर्थः । 'बहु-
स्यार्थेभ्य' इति शस् । न प्रेति । पूर्वसूत्रानुवर्तितस्य न लोकापत्तिरित्यस्यार्थकथनम् । बध्यत इति ।
भावे प्रत्ययः । अनुबन्ध इति । भावे घञ् । ननु पूर्वं व्यासस्य विद्यमानत्वात् श्लोकोक्तसमासस्य
किं प्रयोजनमिति चेत्, तत्राहुः समासेति । 'धर्मादिष्वनियम' इति समाससम्बद्धस्य पूर्वनिपातः ।
इष्टत्वादिति । यथैतैव 'साङ्गोऽध्येय' इति प्रारम्भे । अपुष्टार्थत्वमिति । ननु लिङ्गभूयस्त्वप्रति-
ज्ञानालिङ्गभूयस्त्वसूत्र इति पुनरुक्तेऽर्थेऽप्यपुष्टत्वं नेति चेत् । न । अपुनरुक्तलिङ्गभूयस्त्वस्य सूत्राशय-
गोचरत्वात् । 'अनवद्य'मिति सूत्रलक्षणात् । भाष्ये । स्वकृतेति । मर्यादायामात्मसायुज्ये 'अचलत्वं
चापेक्ष्ये'ति सूत्राभासोक्तभक्तेच्छा मार्यादिकसाधनयुक्ता स्वकृतं साधनं तत्साधितं फल'मात्मत एवेदं
सर्व'मिति श्रुत्युक्तमपि तस्यापेक्षया प्रदानवत्सूत्रोक्तदिशा स्वयमुद्यम्य वरवदासता भगवता साधितं
फलं पश्यस्य सर्वात्मभावस्तस्मिन्नित्यर्थः । हेत्वाधिक्यान्न पुनरुक्तिकृतमपुष्टत्वमिति भावः । अनु-
बन्ध इति प्रकारे वाल् । अनुबन्धत्वेन प्रकारेणानुबन्ध इत्यर्थः ॥ ५२ ॥
1944