अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2049, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी लिपि में पंक्ति-दर-पंक्ति लिप्यन्तरण है:
३८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १७ सू० ४७.
हि वेदान्तेषु मुख्यत्वेन प्रतिपाद्यम् । अक्षरब्रह्मादिकं तु तद्विभूतिरूपत्वेन तदुप-
योगित्वेन मध्यमाधिकारिफलत्वेन च प्रतिपाद्यते । तेन तत्र विद्याशब्दप्रयोग
औपचारिकः, सर्वात्मभाव एव मुख्यः । युक्तं चैतत् । अक्षरविषयिण्या विद्यायाः
सकाशास्त उत्तमविषयिण्यास्तस्या उत्तमत्वम् । एवं सति पूर्वप्रपाठकस्याक्षर-
प्रकरणत्वादुत्तरस्य पुरुषोत्तमप्रकरणत्वाच्चद्वैत्वसिद्धिश्च, अत उक्तन्यायेन विद्यै-
वाग्रिमप्रपाठके निरूप्यते, न तु पूर्वोक्तात्मज्ञानप्रकारविशेषः । अत्र हेतुमाह
भाष्यप्रकाशः।
र्येम् । यद्यपि मुण्डके 'अथ परा यया तदक्षरमधिगम्यत' इत्यक्षरविद्यायाः परविद्यात्वमुक्तम्, तथा-
प्यग्रे 'अक्षरात् परतः पर' इति पुरुषस्य ततः परत्वश्रवणात्तद्विद्यायामेव परविद्यात्वं विश्राम्यती-
त्यक्षरविद्यायां नान्तरीयकत्या विद्याशब्दप्रयोगः परत्वोपचारादेवेति सर्वात्मभाव एव विद्यापदप्र-
योगो मुख्यः । तस्या एव च विद्याया उत्तमत्वम् । एवं सत्युभयत्र प्रतिपाद्यभेदेन प्रकरणभेदाच्च-
दुक्तस्य प्रकरणैक्यस्वरूपस्य भवदभिमतात्मविद्याप्रकारविशेषतासाधकस्य हेतोरसिद्धिरित्यसद्मभिप्रेत-
रश्मिः ।
पाद्यार्थकम् । पुरुषोत्तमे तात्पर्यवृत्तिः इति भक्ति (मार्तण्डे स्पष्टम्).........। तदुक्तं 'भगवान् ब्रह्म
कात्स्न्र्येनै'त्यत्रात्मपदं पुरुषोत्तमपरमिति । श्रवणादिति । न च शङ्करभाष्योक्तोऽर्थोऽस्त्विति शङ्क्यम् ।
गीतायामक्षरपदस्य तत्राशक्तेः । ननु पुराणमतं भवदुक्तार्थेऽक्षरात् परत्वं श्रीभागवते ततः परत्वं वाराहे
इति चेत् । न । अदृश्यत्वाधिकरणोक्तश्रुत्या 'तानि परे तथा ह्याहे'तिसूत्रोक्तश्रुत्या चास्य विषयस्य
श्रौतत्त्वात् । कियतामर्थानां पौराणिकसहशत्वात् । अक्षरेत्यादिभाष्यं विवृण्वन्ति स्म यद्यपीति ।
अत्र भाष्ये तद्विभूतिरूपत्वेनेत्यादि । तत्र विभूतिरूपत्वमुक्तमृष्टले सत्यवरत्वरूपमुक्तश्रुतावेव विभू-
तिनिरूपणाध्याये 'अक्षराणामकारोऽस्मी'ति 'अकारो विष्णु'रित्यन्यत्र कोशादौ । अदृश्यत्वाधिकरणोक्त-
(त) स साधित्वात्तल उपयोगित्वेन 'अक्षरधिया'मिति सूत्रोक्तरीत्या मध्य(म)धिकारी ज्ञानाधिकारी तस्स
फलत्वेनेति त्रयाणां तृतीयान्तपदानांमर्थाज्ञेयः । विश्राम्यतीति । आधिदैविकादिभेदेन विश्राम्यति ।
युक्तमित्यादि । विषयिण्या इत्यन्तभाष्यार्थः । एतेन भाष्यायाक्षरब्रह्मादिकमित्यादिपदं व्याकृतम् ।
नान्तरीयकेति । गौणतया । परत्वोपचारः सिंहो माणवक इतिवत् । उत्तमत्वमिति । विद्यानामनि-
यतत्वाढुत्तमविषयिण्या उत्तमत्वमुचिततरमेव । तेन तत्रेति भाष्यार्थमाहुः इत्यक्षरेति । इतीति तेन
पदार्थकः । सर्वात्मभावसमासो लक्षणश्रुत्युक्तः प्रसिद्धः । 'नातः परतरा विद्ये'ति निरोधलक्षणवाक्यात् ।
तैत्तिरीयशिक्षायां 'अथाधिविद्य'मित्यादि आयुष्ये अव्ययं विभक्तीतिसूत्रेणाव्ययीभावः । विद्यास्विति
विग्रहः । आचार्यः पूर्वरूपम् । आचार्यः सनत्कुमारः । अन्तेवास्युत्तररूपम् । अन्तेवासी नारदः । विद्या
सन्धिः । विद्या सर्वात्मभावः । प्रवचनसन्धानम् । प्रवचनं प्रपाठकः । विद्या प्रायपाठपठितत्वाच्च
विद्या । एवं सतीत्यादिभाष्यमवतारयामासुः एवं सतीति । प्रतिपाद्येति । प्रतिपाद्येत्यादिकं
पूर्वतन्त्रे द्वितीयाध्यायेऽस्ति । हेतोरिति । प्रपाठक आत्मविद्याप्रकारविशेषवान् प्रकरणाैक्यात्, नात्मवि-
द्याप्रकारविशेषवान् प्रकरणभेदादिति प्रत्यनुमानेन साध्यसाधकत्वेनासिद्धिः । न चासिद्धिरूपहेत्वाभासः
इत्यर्थः शङ्क्यः । 'प्रकरणभेदा'दिति भाष्यप्रकाशेनास हेतोः सत्प्रतिपक्षत्वस्फोरणात् । अस्मदिति ।
अस्मदभिप्रेतः सर्वात्मभावो विद्योच्यते निरूप्यते उक्तन्यायेन प्रकृतसूत्रेण प्रमाणेन । एवकारेण
'ननु प्रसिद्धा ब्रह्मविद्योपनिषदुक्ता विद्याधिकरणविषयवाक्यमस्तु, सङ्घत्वात्, किमनेन प्रपाठ-
1924