सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2048, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2048

ज्ञाप्यते । प्रकृते श्वेतकेतूपाख्याने परोक्षवादेन ब्रह्माभेदबोधनेन पुरुषोत्तमाधिष्ठा-
नत्वयोग्यता ज्ञाप्यते । अग्रे तु न ह्येतावता वाधिष्ठानात्मकक्षराविर्भावो भवति,
पुरुषोत्तमस्य वा। तथा सति ज्ञानिनां सर्वेषां परप्राप्तिः स्यात्, नत्वेवम्, 'भक्त्याह-
मेकया ग्राह्य' इत्यादिवाक्यैः, किन्तु भगवदनुग्रहेण भक्तसङ्गेन च भक्तौ सत्या-
मिति ज्ञापनाय भक्त एव तद्बोधाधिकारीत्यपि ज्ञापयितुं भक्तस्य नारदस्य भगव-
दावेशयुक्तस्य सनत्कुमारस्य च संवाद उक्तः । तत्रात्मशब्देन पुरुषोत्तम उच्यते।
भक्तिमार्गे तु निरुपाधिस्नेहविषयः स एव यतः । स तु सर्वात्मभावैकसम-
धिगम्य इति सर्वात्मभाव एव विद्याशब्देनोच्यते । परमकाष्ठापन्नं यद्वस्तु, तदेव
भाष्यप्रकाशः ।
पूर्वस्यास्य च तात्पर्यमाहुः प्रकृत इत्यादि । प्रकृते छान्दोग्यस्य आत्मवाक्ये श्वेतकेतूपाख्याने,
अन्यार्थमन्यकथनरूपो यः परोक्षवादस्तेन जीवस्याक्षरब्रह्माभेदबोधनेन पुरुषोत्तमाधिष्ठानत्वयोग्यता
ज्ञाप्यते, अग्रे तदग्रिमप्रपाठके तु 'न ह्येतावते'त्युक्तरीत्या योग्यतामात्रेण न सः, किन्तु भगवद-
नुग्रहभक्तसङ्गाभ्यां जातायां भक्तौ स इति ज्ञापयितुं तयोः संवाद उक्तः, तस्य च संवादस्य
भक्तिमार्गीयलिङ्गवत्तया तथात्वात् तत्रत्यात्मशब्देन तन्मार्गे निरुपधिप्रीतिविषयः पुरुषोत्तम एवो-
च्यते, न जीवात्मा, नाप्यक्षरब्रह्म, पुरुषोत्तमस्तु सर्वात्मभावैकप्राप्य इति स एव सर्वात्मभावो
विद्याशब्देनोच्यते । किञ्च, 'परमकाष्ठापन्न'मित्याद्युक्तरीत्या वेदान्तस्यापि पुरुषोत्तम एव तात्प-
रश्मिः ।
गमादिभ्य' इत्यत्रादिपदात् भगवद्वशीकरणसमर्थः स्नेहः । प्रबन्निङ्गितार्थत्यागस्तदनुरूपं भजनं चाप्रमादस-
ङ्गिस्तपो बलपदार्थत्वेन व्याकृतम् । तत्र भगवद्वशीकरणसमर्थः स्नेहो बलं सर्वात्मभावपदवाच्यमुख्य-
भक्तिः । प्रबन्निङ्गितार्थत्यागस्तदनुरूपं भजनं च बलमप्रमादः । इङ्गितपदेन कोशे काल उक्तः, अत्र
लिङ्गोक्तः। कोशे कियतां शब्दानां नामनारायणादिकोषेषु पाठात् । पूर्वस्येति । जीवब्रह्माभेदपरत्वस्य ।
परोक्षेति । आनन्दमयाधिकरणे विवृतः । पुरुषोत्तमेति । भक्तिरसत्वात् स्पष्टं नोक्तम् । भगवद्वि-
त्यादि । भक्तिहेतौ स्पष्टम् । अग्रे त्वित्यादिभाष्यं विवृण्वन्ति स्म अग्रे तदिति । भक्तेति । ननूपासना-
मार्गीया भक्तिः 'सत्सङ्गलभ्यया भक्त्या मयि मां य उपासिते' इति वाक्यादिति चेत् । न । उपासना-
मार्गस्य गोपालतापिनिय उक्तत्वात् गोपालतापनीयस्य सर्ववेदान्तप्रत्ययाधिकरणादावुदाहृतत्वात्
पाठक्रमस्य भक्तिनिरूपणोत्तरमुपासनानिरूपणात् तथात्वात् । यद्वा । मुख्यभक्तिप्रकरणे उपासनाया
अयुक्तत्वात् 'सत्सङ्गान्मामुपागता' इति पुष्टिप्रकरणिकवाक्योक्तसत्सङ्गो गृह्यते, अत एव सत्सङ्गपदं
विहाय भक्तसङ्गपदम् । स त्वित्यादिभाष्यं विवृण्वन्ति स्म पुरुषोत्तम इति । तथेति । उक्तज्ञापक-
त्वात् । तयोरिति नारदसनत्कुमारयोः । तत्रेत्यादि भाष्यं विवृण्वन्ति स्म तस्य चेत्यादिना । यत
इति भाष्यीयपदस्यार्थोऽयम् । विद्यापदमक्षराधिगमके मुण्डके उक्तं पुरुषोत्तमाधिगमके सर्वात्मभावपदे
विद्यापदं कुत इत्यपेक्षायां परमेत्यादिभाष्यं विवृण्वन्ति स्म किञ्चेति । इत्यादिवक्ष्यमाणभाष्योक्त-
रीत्या । तात्पर्यमिति । 'सर्वे वेदा यत्पदमामनन्ती'ति श्रुतौ हीदमित्थतया निरूपणं 'यतो वाच'
इति श्रुतिविरुद्धम्, अतोऽनिदमित्थतया 'सर्वे वेदा' इत्यादि । अतः परमकाष्ठापन्ने पुरुषोत्तमाख्ये
वस्तुनि तात्पर्यवृत्तिः, अन्यत्राभिधा । तथा च प्रतिपाद्यमिति भाष्यं तात्पर्यवृत्त्येदमित्थतया प्रति-