अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2004, कुल 2600 में से
संदर्भ में पढ़ेंस्त्रीपुत्रपश्वादयः संगृह्यन्ते । एतेन ज्ञानादिमार्गादुत्कर्ष उक्तो भवति । बाध-
कानामपि साधकत्वात् । माहात्म्यज्ञानपूर्वकस्नेहे सत्येव भर्तृत्वेन ज्ञाने कामोपि
सम्भवतीति ज्ञापनाय चकारः ॥ ३९ ॥
इति तृतीयाध्याये तृतीयपादे त्रयोदशं शैव हि सत्यादय इत्यधिकरणम् ॥ १३ ॥
भाष्यप्रकाशः।
तनमुत्तमम् ।' 'पञ्चायतनपूजे'त्यादौ तथात्वात् । पूर्वोक्तं प्रयोजनं निगमयन्ति एतेनेत्यादि ।
एतेनेति । पूर्वसूत्रे भगवद्भक्तिबलस्य, अत्र च 'गोप्यः कामा'दित्यादिसप्तमस्कन्धवाक्यात् कामा-
दीनामविहितभक्तिहेतूनाम्, 'भक्तिरस्य भजन'मित्युक्त्वा, 'एतदेव च नैष्कर्म्य'मिति विहितभक्तेः
संन्यासरूपतायास्तापनीये श्रावणात्, 'मद्वार्तायातयामानां न बन्धाय गृहा मता' इति वाक्यात्
गृहादीनां च मुक्तिसाधनत्वस्य कथनेन । चकारसूचितमर्थमाहुः माहात्म्येत्यादि । इतिज्ञाप-
नायेति । इतिहेतोर्विहितभक्तौ कामादपीति ज्ञापनाय । अत्रोभयोर्भक्त्योः स्वरूपबलसाधन-
योर्विचारेण पुष्टिभक्त्याश्रितमर्यादाभक्तिबोधकं वाम उरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहं
स्थितमिति विशेषणं प्रतिपादितं ज्ञातव्यम् ।
अन्ये तु, 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश'
इत्युपक्रम्य, 'एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः
रश्मिः।
तावत्पर्यन्तं तद्गृह्यमिति । स्त्रीपुत्रेति । प्रमेयबलविषया एव । निगमयन्तीति । तस्मात्तथेतिवत् ।
अविहितेति । अस्य मुक्तिसाधनत्वस्येत्यनेनान्वयः । विहितेति । भजनस्य 'तं भजे'दिति गोपाल-
तापनीये विहितत्वात् । संन्यासेति । नैष्कर्म्यं संन्यासो भवतीति तथा । निर्गतः कर्मणः निष्कर्मी
संन्यासी तस्य भावो नैष्कर्म्यं संन्यासः । उपनिषद मावर्तयेत् आरणं वेति सकलकर्मनिषेधात् । गृहा
इति बहुवचनार्थमाहुः गृहादीनामिति । आदिपदेन स्त्रीपुत्रपश्वादयः संगृह्यन्ते । दम्पत्योः सहाधि-
कारात्स्त्रीः । भगवत्सेवार्थं वत्सानयनम् । 'पुत्रेण लोकं जयती'ति पुत्रः । 'पुत्रे कृष्णप्रिये रति'रिति । 'पय-
साग्निहोत्रं जुहोती'ति । 'पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रय-
तात्मन' इति । अत्राप्यादिपदेनारामोपवनादिः । अव्ययानां द्योतकत्वमाश्रित्याहुः चकारेति । विहि-
तेति । 'माहात्म्यज्ञानपूर्वस्तु सुदृढ' इति वाक्याद्विहितत्वम् । कामादपीति । तत्र चेति सूत्रांशा-
त्कामादपीत्यर्थः । षोडशाधिकरण्यो अर्थमाहुः अत्रोभयोरिति । विहिताविहितयोः । स्वरूपबलं
साधनं च तयोः । स्वरूपबलं बाधकानां साधकत्वम् । पूर्वसूत्रे शास्त्रोक्ताखिलसाधनरूपत्वम् । पुष्टीति ।
अविहितभक्तिकामार्याश्रिताया मर्यादाभक्तेर्विहितभक्तेर्बोधकम् । बोधकत्वं तु 'भवत्पदाम्भोरुहनावम-
त्रे'त्यत्र भगवत्पादयोर्भक्तित्वमुक्तम्, तत्र वाम ऊरुः पादसहित इति पुष्टिभक्त्याश्रितत्वस्य । 'दक्षिणा-
ङ्घ्रिसरोरुह'मिति मर्यादाभक्तेः । अत्र पूर्ववाक्योक्त्येति भाष्यप्रकाश उक्तम्, तेन हृदयब्राह्मणोक्त-
भूमसर्वात्मभावयोरुपासनासूचि । तथाहि । 'एष प्रजापतिर्यद्धृदय'मित्युपक्रमः । अत्र हृदयस्य प्रजाप-
तित्वं विधीयते । कथमेवं स्यात् हृदयं सर्वात्मभावत्वेन वक्ष्यमाणं प्रजापती रजोधिष्ठातेति । एवं तु
स्यात् । हृदि अयं रजोधिष्ठाता । वेदान्तत्वात् योगे तु प्रजानां पतिर्भगवान् । भूमा प्रजापतिः सर्वात्म-
भावकरणेन सर्वात्मभावत्वाद्भूमा । 'एतद्ब्रह्मैतत्सर्वं'मिति ब्रह्मलिङ्गम् । सर्वात्मभावरूपत्वमाह 'तदेतत्त्र्य-
क्षर ५ हृदयमिति'ति । 'हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेदे'ति । स्वाश्चेत्यत्र शसो डा ।
अन्ये चेति । हृ । सम्प्रदाने प्रत्ययः । हृञ् हरण इत्यस्मात् । हृदः सान्निध्यात् । स्वाश्चानिन्द्रियाणि
वसवोऽभिमुखाभिहरन्त्यन्ये तदनुसारिणः । सर्वेन्द्रियाणां भगवत्परत्वं सर्वात्मभावः निरोधलक्षण-
1879