सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2003, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2003

कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
पूर्वसूत्रे शास्त्रोक्ताखिलसाधनरूपत्वं भक्तेरुक्तम् । तद्दार्ढ्यार्थमधुना मुक्ति-
प्रतिबन्धकत्वेन हेयत्वेनोक्तानां कामादीनामपि भगवत्सम्बन्धान्मुक्तिसाधकत्व-
मुच्यते । भक्तिस्तु विहिताविहिता चेति द्विविधा । माहात्म्यज्ञानयुतेश्वरत्वेन
प्रभौ निरुपधिस्नेहात्मिका विहिता । अन्यतोऽप्राप्तत्वात् कामाद्युपाधिजा सा
त्वविहिता । एवमुभयविधाया अपि तस्या मुक्तिसाधकत्वमित्याह । इतरत्र
विहितभक्तेरिति शेषः । कामाद्युपाधिजस्नेहरूपायां कामाद्येव मुक्तिसाधन-
मित्यर्थः । भगवति चित्तप्रवेशहेतुत्वात् । आदिपदात् पुत्रत्वमसम्बन्धित्वादयः ।
स्नेहाभावेऽप्यविहितत्वभगवद्विषयकत्वयोरविशेषात् द्वेषादिरपि संगृह्यते ।
तेन भगवत्सम्बन्धमात्रस्य मोक्षसाधकत्वमुक्तं भवति । तत्र विहितभक्ता-
वित्यर्थः । शास्त्रे सर्वथा हेयत्वेनोक्ता हि गृहाः। सर्वनिवेदनपूर्वकं गृहेषु भगवत्सेवां
कुर्वतां तदुपयोगित्वेन तेभ्य एव मुक्तिर्भवतीत्यर्थः । एतादृशानां गृहा भग-
वद्गृहा एवेति ज्ञापनायायतनपदम् । तेषु तथा प्रयोगप्राचुर्यात् । आदिपदेन
भाष्यप्रकाशः ।
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ सूत्रप्रयोजनमाहुः पूर्वेत्यादि ।
तद्दार्ढ्यार्थमिति । कैमुतिकन्यायेन तदर्थम् । तेनास्य प्रासङ्गिकत्वं बोधितम् । सूत्रं व्याकर्तुं पूर्वोक्तं
विभजन्ति भक्तिरित्यादि । अन्यतोऽप्राप्तत्वादिति । शास्त्रव्यतिरिक्तहेत्वन्तरादप्राप्तत्वात् ।
व्याकुर्वन्ति इतरत्रेत्यादि । कामादेः कथं मुक्तिसाधनत्वमित्यपेक्षायां 'कामं क्रोधं भयं
स्नेहमैक्यं सौहृदमेव वा । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते' इति दशमस्कन्ध-
वाक्यानुसारेण हेतुमादिपदस्यार्थं तत्कथनतात्पर्यं चाहुः भगवतीत्यादि । सूत्रशेषं व्याकुर्वन्ति
तत्रेत्यादि । एतदग्रे, चकारार्थबोधिका माहात्म्यज्ञानेत्यादिका फक्किका उक्ता, सा लेखक-
प्रमादात् पश्चात्पतितास्तीति ज्ञेयम् । ननु कामादीनां कथं तथात्वमित्याकाङ्क्षायां सौत्रं हेतुं
व्याकुर्वन्ति शास्त्र इत्यादि । इदं चाग्रे 'गृहिणोपसंहार' सूत्रे सेत्स्यतीति ज्ञेयम् । अत्रायमेवाशय
इत्यत्र गमकमाहुः एतादृशानामित्यादि । प्रयोगप्राचुर्यादिति । 'अण्डमुत्पादयामासुर्ममाय-
रश्मिः ।
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ कैमुतिकेति । यत्सम्बन्धेन कामा-
दीनां मुक्तिसाधनत्वं तत्सम्बन्धेन सत्यशमदमादीनां मुक्तिसाधनत्वे किमु वक्तव्यमित्येवं कैमुतिकन्यायेन ।
पूर्वोक्तमिति । सूत्रे पूर्वमुक्तं कामादि इतरत्रेति च । न च विभागोऽस्त्वेवेति वाच्यम् । ग्रन्थप्रयोजनं
प्रपञ्च्य विभागे इत्याशयात् । सौत्रकामादीतरत्रेत्यनयोः सप्रपञ्चं विभागं करे कुर्वन्तीत्यर्थः । विहितेति ।
विधिविषया । 'तं भजेदि'ति । विधिरपूर्व इति । भाष्ये । तदर्थमत्यन्ताप्राप्तिमाहुः शास्त्रेति । तत्कथ-
नेति । तेन भगवदित्यादिभाष्येणादिशब्दकथनतात्पर्यम् । भाष्ये । भगवत्सम्बन्धमात्रस्येति ।
प्रमेयबलस्येति यावत् । उक्तेति । भाष्ये उक्ता । अत्र चकारोक्तेस्तत्सम्बन्धस्य युक्तत्वात् । शास्त्र
इत्यादीति । 'गृहं सर्वात्मना त्याज्य'मित्यादिशास्त्रे । गृहा इति पुंस्त्वं स्मार्तम् । तेभ्य इति । आय-
तनादिभ्यः । 'मद्वार्तायातयामानां न बन्धाय गृहा मता' इति वाक्यात् । एतादृशानामित्यादीति ।
भगवद्गृहा इति । एतेनैतादृशाः महाराजोपचारेण भक्तार इत्युक्तम् । महाराजो यावत्पर्यन्तं तिष्ठति
१. रश्मौ उक्तेति पाठः ।