अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 196, कुल 2600 में से
संदर्भ में पढ़ें'तस्माद्वा एतस्मादात्मन आकाशः संभूतः' इत्येष विचार्यते । फलसंबन्धित्वात् ।
तेनैकत्र सिद्धः शास्त्रार्थः प्रकारान्तरेऽपि । यतो वा इमानि भूतानीत्यत्र
विस्फुलिङ्गवत् सर्वोत्पत्तिः । अत्र तु क्रमेणेति विशेषः । एतेन सर्व एव प्रकाराः
भाष्यप्रकाशः ।
लक्षणत्वमायाति, न तु सर्वभूतजनकत्वस्य तत्स्थित्यादिकर्तृत्वस्य च । तथा सति वाक्यान्तरे
ब्रह्मभेदापत्तिरित्याशङ्कायामाहुः तेनेत्यादि । यद्वा, यतो वेति वाक्यं विषयत्वेनादरणीयं तदाप्ययं
न्यायस्तु सर्वत्राङ्गीकार्य एव । अन्यथा आकाशवाक्येऽपि ब्रह्मान्तरापत्तिः स्यात् । अतो जनन-
प्रकारस्यैव भेदो न तु ब्रह्मण इति न कोऽपि दोष इत्यर्थः । यतो वेतिश्रुतौ, यत् प्रयन्त्यभिसंवि-
शन्तीत्यस्य भागस्य यद् ब्रह्म प्रयन्ति प्रकर्षेण सृष्टिसामयिकदुःखराहित्येन प्रलये गच्छन्ति, अभितः
संविशन्ति स्वपन्ति