सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 195, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 195

१०८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २
जात्यपेक्षयैकवचनम् । जन्म तु श्रुतत्वात् सिद्धम् ।
अथवा किमनया कुसृष्ट्या । जन्म आद्यस्य आकाशस्य यत इति ।
भाष्यप्रकाशः ।
वेद्ययोः पूर्वोत्तरावधिभूतसंचरप्रतिसंचरयोर्मध्ये कार्यस्वरूपस्य कारणतो भेदाज्जन्मादयो भवन्तीति
जन्म आदिर्येषां तत्तज्जातीयं जन्मादि । जातिरत्र विकारत्वं क्रियात्वं वा । अत्र, 'ब्राह्मणो जन्मतः
श्रेयान्', 'न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम्' इत्यादाविव जात्यपेक्षयैकवचनम् । तच्चाद्य यद्यपि,
सुपां सुलुगिति जसो लोपे जन्मादीति सिध्यति तथापि विकारान्तरसंग्रहस्तेन न भवत्यतस्तदुपेक्षि-
तम् । नपुंसकं तु सामान्ये । एतत्पक्षसंग्रहे बीजमाहुः जन्म तु श्रुतत्वात् सिद्धमिति । जन्म
तु, 'यस्मिन्निदं सं च वि चैति सर्वम्' इति तैत्तिरीये