अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1907, कुल 2600 में से
संदर्भ में पढ़ें५४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १ सू० ११.
आनन्दादयः प्रधानस्य ॥ ११ ॥
पूर्णानन्दैश्वर्यादयः प्रधानस्य धर्मिणो ब्रह्मण एव धर्माः । लीलापदार्थास्तु
ब्रह्मधर्मत्वेन व्यापका उच्यन्ते । व्यापकस्य धर्मिणोऽनागन्तुकधर्मस्य व्यापकत्व-
नियमात् । न हि धर्मेषु पूर्णानन्दत्वादयः सम्भवन्ति । धर्मित्वापत्त्या धर्मत्व-
व्याहतेः । अत एवात्र प्रधानपदमुपात्तम्, गुणभावेन लीलापदार्थानामाविर्भाव
इति ज्ञापयितुम् ॥ ११ ॥
भाष्यप्रकाशः ।
आनन्दादय प्रधानस्य ॥ ११ ॥ अग्रिमसूत्रमवतारयन्ति नन्वित्यादि । व्याकुर्वन्ति
पूर्णेत्यादि । व्यापकत्वनियमादिति । अयं नियम आकाशपरिमाण आत्मचेतनायां च स्फुटः ।
नच पूर्णानन्दैश्वर्याद्यभावे तेषु ब्रह्मत्वसौपचारिकत्वापत्तिरिति शङ्क्यम् । तत्र तदनाविर्भावे-
नैवोपपत्तेः ।