सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1906, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1906

विरोधापाताद्विनिगमकाभावाच्चैकत्र मायया प्रदर्शयतीति च न वक्तुं युक्तमिति
शङ्काप्येताभ्यां सूत्राभ्यां निरस्तेति ज्ञेयम् । ब्रह्मणो व्यापकत्वाल्लीलायाश्च तेन
सहाभेदात्तथात्वादेकस्मै भक्ताय यथा ब्रह्मणा सह लीलापदार्था आविर्भवन्ति,
तथैव तदैवान्यत्रापि भक्तसमानदेश आविर्भवन्तीति सर्वसामञ्जस्यात् ॥ १० ॥
ननु व्यापकत्ववत् पूर्णानन्दैश्वर्यवीर्यादयोपि धर्मास्तेषु प्रतीता भवेयुः,
नैवमस्ति, दुःखसम्भावनायां प्रभुमेव प्रार्थयन्ति यतः, एवं सति व्यापकत्वमपि
न वक्तुं शक्यम्, तुल्यत्वात्, अत उत्तरं पठति ।
भाष्यप्रकाशः।
इति शङ्केति । लीलासम्बन्धिपदार्थाव्यापकत्वकृता शङ्का । तथात्वादिति । व्यापकत्वात् ।
तथाच तेपि व्यापका एव । परिच्छिन्नत्वप्रतीतिस्तु तेन तेन प्रकारेण ततस्ततो मायापसारणाद्वि-
रुद्धधर्माश्रयत्वस्य साधितत्वाच्चेति न किमप्यनुपपन्नमित्यर्थः । तेन स्वरूपप्रधानस्य भक्तिमा-
र्गीयस्य तल्लीलासम्बन्धिनां भक्तादयो गुणाः सर्वेऽप्युपसंहरणीया इति बोधितम् ।
अन्ये त्वत्र छान्दोग्यवाजसनेयिकौषीतकिनां ज्यैष्ठयश्रैष्ठयादिगुणका प्राणविद्यैका,
भिन्ना वेति संशये, भिन्नेत्याशङ्कय, छान्दोग्यवाजसनेयिनोर्गुणाधिक्येपि रूपाभेदाद्विद्यैक्ये कौषी-
तकिनामपि वसिष्ठत्वादिगुणोपसंहारं सिद्धान्तयन्ति ।
तदसन्मते समाचारसूत्रे निरूपणप्रकारभेदस्य प्रायश्चित्ताद्यनुभायकत्वे उपसंहारानुगुण्यस्या-
पनादुपसंहारसूत्रेऽर्थाभेदकथनाच्च सिध्यतीत्युपेक्षितं बोध्यम् ॥ १० ॥
रश्मिः।
विरुद्धा दिक् तयोर्भक्तयोः । भक्तिमार्गेति । भगवति मायाङ्गीकारो न भक्तिमार्गे । 'प्रवर्तते यत्र रज-
स्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रम' इति द्वितीयस्कन्धनवमाध्यायवाक्यात्, मायाङ्गीकारे
भक्तिमार्गविरोधापातात् उभयोरन्यतरस्य मायया प्रदर्शने विनिगमकस्य प्रमाणाभावाच्चैकत्र मायये-
त्यादि । ब्रह्मणो व्यापकत्वादिति । सूत्राभ्यामित्युक्तम् । तत्र प्रथमसूत्रीयो निरासप्रकारः ।
अभेदादिति द्वितीयसूत्रीयो निरासप्रकारः । प्रकृते । तेन तेनेति । देशत्वेन कालत्वेन । उपलक्षणमे
तत् । ततस्तत इति । आश्रयात् । भाष्ये । आविरिति । देशे इति योजनीयम् । आधुनिकभक्ते
तु देशेन सहाविर्भवन्तीति ज्ञेयम् । 'अक्षरात्मकत्वे हृदयस्य जात' इति 'लीला च हृदये सदे'तिवाक्या-
भ्याम् । सर्वेति । सर्वशब्दान्वितलीलावादात्सुवर्णसूत्रोक्ता अथाविंशतिदोषास्तत्परिहाराश्च मत्कृतभ-
क्तिमार्तण्डफलप्रकरणे योजिता अत्र ज्ञेयाः । 'अनागत'मिति वाक्यात् । प्रकृते । ज्यैष्ठ्येति ।
'यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति प्राणो वै ज्येष्ठश्च श्रेष्ठश्चे'त्येवं ज्यैष्ठ्य-
श्रैष्ठ्यादिगुणका प्राणविद्या । गुणेति । वसिष्ठत्वादिगुणाधिक्ये । वशिष्ठत्वादीति । वाजसने-
यकानां 'यो ह वै वशिष्ठं वेद वशिष्ठः स्वानां भवति' इति श्रुतिरत्र । आदिना 'यो ह वै प्रतिष्ठां वेद
प्रतितिष्ठति स मे प्रतितिष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा । यो ह वै सम्पदं वेद स१स्मै पद्यते यं कामं
कामयते श्रोत्रं वै सम्प'दिति । एवं वशिष्ठत्वादिगुणोपसंहारम् ॥ १० ॥
नन्वित्यादीति । तेषु भक्तेषु । प्रार्थयन्तीति । यथा श्रीगोवर्धनप्रसङ्गे आसारपीडिताः
प्रार्थयन्ति स्म ।
१. नेति नास्ति ।
1781