सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1875, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1875

२१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १ सू० ३.
न्ध्रादिमत्यां भुवि पुरुषभेदेनै कस्यैव वैकैकप्रकारकं यज्ज्ञानं न तज्ज्ञानम् ।
एतेनानन्तधर्मवत्त्वं ब्रह्मणि ज्ञापितम् । तदुक्तम् । 'परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया चे'ति । अत्र 'स्वाभाविकी'ति विशेषणादविद्याक-
ल्पितत्वं शक्तीनां निरस्तम् ।
केचित्त्वाथर्वणिकानां विद्यां प्रति शिरोव्रतापेक्षणादन्येषां तदनपेक्षणात्
भाष्यप्रकाशः ।
पूर्णं ज्ञानम्, अतोऽस्मिञ्ज्ञाने द्वावपि तुल्यावित्यर्थः । तेन सिद्धमाहुः एतेनेत्यादि । एतेनेति । स्वल्प-
गुणज्ञानतोपि फलार्थं तत्र तत्र तत्तद्गुणकथनेन । अनन्तगुणवत्त्वे श्रुतिमपि प्रमाणयन्ति तदुक्त-
मित्यादि । तथाच ब्रह्मणोऽनन्तधर्मवत्त्वेपि तत्तद्रूपोपासनया तत्तत्फलदानार्थं तत्र तत्र तांस्तानेव
धर्मान् प्रकटयतीति बोधनार्थं तथाकथनं युक्तमेवेत्यर्थः । ननु यदि स्वशाखोक्तप्रकारिकायामेवो-
पासनायामधिकारः, न परशाखोक्तप्रकारिकायामिति चेत्, तदा तैत्तिरीयाणां गोपालाद्युपासने,
आथर्वणिकानामानन्दमयाद्युपासने बाधिकाराभावात् ततः फलं न स्यात्, न चेटापत्तिः,
अन्यशाखीयानामपि नृसिंहगोपालाद्युपासने भगवदनुभावप्रसादादेर्दर्शनादिति चेत् । मैवम् ।
अत्र मन्दानामर्थे स्वशाखोक्तकरणाधिकारस्य कथनात् । तत उच्चमानामधिकगुणोपसंहारे
स्वरुचिगोचररूपोपासने च बाधकाभावस्य ब्रह्मणः सर्ववेदान्तप्रत्ययत्वेनैव सिद्धत्वात् तैः
स्वस्वशाखोक्ताधिकमपि कर्तव्यमिति बोधितम् । किञ्च । सर्वस्य स्वस्वशाखोक्तोपासनकरणे हि
बीजं तत्तच्छाखायां तत्तदुपनिषन्निबन्धनम् । तच्च यादृश्यागात्मकस्वरूपं यच्चिद्रो भवितुं युक्तम्,
तत्र तादृशब्रह्मस्वरूपबोधनार्थं तन्निबन्धनमिति निबन्धे 'कर्मवत् ब्रह्मभेदाच्चे'त्यस्य प्रकाशे
श्रीमदाचार्यैर्निरूपितम् । एवं सति यः स्वशाखाविहितकर्मप्राधान्येन स्वकामितफलसिद्धये
उपास्ते, तस्य स्वशाखोक्तमेव कर्तव्यम् । कर्मणां कामाधिकारकत्वात् । यस्तूत्तरत्रोक्तरीत्या
नित्यकर्मणां सहकारित्वमवधार्य ब्रह्मप्राधान्येन तत्तद्रूपप्राधान्येन वोपास्ते, स तु तत्तदनुरूपं
परशाखोक्तमुपसंहरेताम् । इयमुपासनामार्गीया व्यवस्था । भक्तिमार्गे तु स्नेहस्यैव प्राधान्येन
विहितत्वादेर्गौणत्वान्न चाशङ्का, न चोत्तरम् । एवञ्च मन्दाधिकारिणां स्वस्वशाखोक्तब्रह्मज्ञानसिद्धा-
वपि तावज्ज्ञानसाल्पत्वेन फले विलम्बः । अधिकज्ञानेनाधिकाधिकगुणोपसंहारेण विलम्बनि-
वृत्तिरिति सिध्यति ।
ननु स्वाध्यायसूत्रस्य तथार्थवत्त्वे हि कर्मादिसरणेन तादृशोपसंहाराजुपसंहारचिन्ता,
तदेव दुर्घटम्, अन्येषां तदर्थानङ्गीकारादित्याशङ्कायां स्वोक्तं सूत्रव्याख्यानं दृढी-
कर्तुं शङ्करभास्करामानुजाचार्योक्तमेतत्सूत्रव्याख्यानमप्यसमञ्जसमिति बोधनाय तदनुवदन्ति
केचित्त्वित्यादि । यद्यपीदं तेषां सूत्रविवरणं शाखान्तराधिकरणस्य 'विद्यायां धर्मशास्त्रा'मिति
रश्मिः ।
धर्मवानधिकधर्मवांश्च । तद्भावस्येति । स्वल्पाधिकधर्मवत्त्वकृतोपासनाभेदेन धर्मव्यवस्थासरणम् ।
भाष्ये । स्वाभाविकीति । स्वभावस्य परिणामहेतुत्वरूपत्वात्स्वभावस्य श्रौतत्वात्परिणामवादस-
म्भवेऽविद्याकल्पितत्वं न युक्तमिति तथा । प्रकृते । तथेति॑ । भाष्योक्तार्थवत्त्वे । तदर्थेति । सूत्रा-
र्थानङ्गीकारात् । आद्यिना शैवाचार्यः । तदिति । तदीयं व्याख्यानम् । शास्त्रेति । पूर्वतन्त्रे
द्वितीयस्य चतुर्थचरणे द्वितीयाधिकरणम् । तस्यायमिति । अध्ययनस्यायं भूमौ भोजनाचरणादिः ।
सूत्रेति । अनुशयोऽनुबन्धः । 'स्यादनुशयो द्वेषे पश्चात्तापानुबन्धयो'रिति विश्वः । केचित्त्वित्या-
१. तद्व्यवस्थासरणं युक्तमिति पाठः ।
1750